________________
भाषायक-हारिभद्रीयवृत्तिः गमनिका-चक्षुष्मान यशस्वी च प्रसेनजिते प्रियङ्गुवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः-विमलवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभा-छाया येषां ते तथाविधा इति गाथार्थः ॥ १५८ ॥ गतं वर्णद्वारं, स्त्रीद्वारव्याचिख्यासयाssहचंदजराचंदता मरूव पडिरूव चक्खता या सिरिता मरुदेखी कलगरपत्तीण नामाई॥१९॥
गमनिका-चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुःकान्ता च श्रीकान्ता मरुदेवी कुलकरपसीनां नामानीति गाथार्थः ॥ १५९ ॥ एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः, यत आह
संघयणं संठाणं उच्चत्तं चेव कुलगरेहि समं । वण्णेण एगवण्णा सव्वाओं पियंगुषण्णाओं ॥१६०॥ गमनिका--संहननं संस्थानं उच्चस्त्वं चैव कुलकरैः-आत्मीयैः. सम-अनुरूपं आसां प्रस्तुतस्त्रीणामिति, किंतु प्रमाणेन ईषन्यूना इति संप्रदायः, तथापि ईषन्यूनत्वान्न भेदाभिधानमिति, वर्णेन एकवर्णाः सर्वाः प्रियङ्गुवर्णा इति गाथार्थः ॥१६० ॥ स्त्रीवारं गतं, इदानीं आयुद्वारम्पलिओवमदसाए पढमस्साउं तो असंखिज्जा । ते आणुपुग्विहीणा पुवा नाभिस्म संखेना ॥११॥
व्याख्या-पल्योपमदशभागः, 'प्रथमस्य' विमलवाहनस्य आयुरिति, ततः अन्येषां चक्षुष्मदादीनां असंख्ययानि, पूर्वाणीति योगः, तान्येवानुपूर्वीहीनानि नाभेः संख्येयान्यायुष्कमित्ययं गाथार्थः ॥ १६१ ॥
*.भार
--------------
अन्ये तु व्याचक्षते-पल्योपमदशभाग एव प्रथमस्यायुः ततो द्वितीयस्य असंख्येयाः-पल्योपमासख्येयभागा इति वाक्यशेषः, त एव चानुपूर्वीहीनाः शेषाणामायुष्कं द्रष्टव्याः तावद् यावत्पूर्वाणि नाभेः संख्येयानि इति, अविरुद्धा चेयं व्याख्येति । अन्ये तु व्याचक्षते-पल्योषमदशभागः प्रथमस्य आयुष्कं, ततः शेषाणां 'असंखजा' इति समुदितानां पल्योपमासंग्च्येयभागाः, एतदुक्तं भवति-द्वितीयस्य पल्योपमासंख्येयभागः, शेषाणां तत एवासंख्येयभागोऽसंख्येयभागः पात्यते तावद्यावन्नाभेः असंख्येयानि पूर्वाणि । इदं पुनरपव्याख्यानं, कुतः १, पश्चानामसंख्येयभागानां पल्योपमचत्वारिंशनर्मभागानुपपत्तेः, कथम् !, पाल्योपमं विंशतिभागाः क्रियते, तदष्टभागे कुलकरोत्पत्तिः, प्रथमस्य दशभाग आयुः, शेषाणां पञ्चानामर्धरूपाच्चत्वारिंशत्तमभागादू असंख्यातोऽसंख्यातो भाग आयुः तथाऽप्यर्धं किञ्चिन्यूनं चत्वारिंशत्तमो भागोऽवशिष्यते, यतः कृतविंशतिभागपल्योपमस्य अष्टभागे अष्टभागे इदं भवति, ततोऽपि दशभागे द्वौ जातो, गताः असंख्याताः पश्चभागाः, अधोद्यदध किश्चिन्यूनं स चत्वारिंशत्तमो भाग इति, उक्त च-'पलिओवमठ्ठभागे सेसमिउ कुलगरुप्पत्ती' (गाथा १५०), तत्रापि प्रथमस्य दशमभाग आयुष्कमुक्तं, तस्मिंश्चापगते विंशतितमभागद्वयस्य व्यपगमाच्छषश्चत्वारिंशद्भागोऽवति ठते, स च संख्येयतमः, ततश्च कालो न गच्छति, आह-अत एव नाभेरसंख्येयानि पूर्वाणि आयुष्कमिटिं, उच्यते, इष्टमिदं, अयुक्तं चैतत् , मरुदेव्याः संख्येयवर्षायुष्कत्वात्, न हि केवलज्ञानमसंख्येयवर्षायुषां भवतीति, ततः किमिति चेद्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुष्कत्वम् । १६१ ॥ यत आह
* या भागाः. + तिम.. पिमवि०. क्रियन्ते. जाती. .ति. इ.मिष्ट. जं चेव आउयं कुलगराण तं चेव होइ तासिपि । जं पढमगस्स आउं तावइयं चेव हथिस्स ॥ १२ ॥
गमनिका-यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि-कुलकराङ्गनानां, संख्यासाम्याच तदेवेत्यभिधीयते, तथा यत्तु प्रथमस्यायुः कुलकरग्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः ॥१६२॥ इदानीं भागद्वारं-कः कस्य सर्वायुष्कात् कुलकरभाग इतिजं जस्स आउयं खलु तं दसभागे समं विभईऊणं । मझिल्लट्टतिभागे कुलगरकालं वियाणाहि ॥ १६३ ॥
व्याख्या-यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः ॥१६३ ॥ अमुमेवार्थ प्रचिकटयिषुराहपढमो य कुमारत्ते भागो घरमो य वुड्ढभावंमि । ते पयणुपिज्जदोसा सवे देवेसु उववण्णा ॥ १६४ ॥ गमनिका-तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते, भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टौ भागाः कुलकरभागा इति, अत एवोक्तं 'मध्यमाष्टत्रिभागे' इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् कुलकरकालं विजानीहि, गतं भागद्वार, उपपातद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः, प्रेम रागे वर्त्तते, द्वेषस्तु प्रसिद्ध एव, * सर्वे विमलवाहनादयो देवेषु उपपन्ना इति गाथार्थः ॥ १६४ ॥ न ज्ञायते केषु देवेषु उपपन्ना इति, अत आह
दो चेव सुवण्णेसुं उदाहिकुमारेसु हुंति दो घेव । दो दीवकुमारेसुं एगो नागेसु उवषण्णो ॥१६५॥ * •भागो. + .इएणं. भाव. दय०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org