________________
॥ ७३ ॥
आवश्यक हारिभद्रीयवृत्तिः
ततो गुरू तस्स धम्मं कहेदुमारद्धो, तम्स सो अवगतो, ते पंथं समोयारेता नियतो, ते पत्ता सदेस, सोपुण अविश्यसम्नट्ठिी कालं काऊ सोहम्मे कप्पे पलिओवमठिइओ देवो जाओ । अस्यैवार्थस्योपदर्शकमिदं गाधाद्वयमाह भाष्यकारः-अरविदेहे गामरस चिंतओ रायदारुवणगमणं । साहू भिक्खनिमित्तं सत्था हीणे तर्हि पासे ||१|| (भाष्यम्) दाणन पंधनयणं अणुकंप गुरू कहण सम्मन्तं । सोहम्मे उबवण्णो पलिया सुरो महिडीओ ॥ २ ॥ (भाष्यम्) गमनिका - अवरविदेहे ग्रामस्य चिन्तको राजदारुवनगमनं, निमित्तशब्द लोपोऽत्र द्रष्टव्यः, राजदारुनिमित्तं वनगमनं, भिक्षानिमित्तं सार्थाद्रष्टास्तत्र दृष्टवान्, दानमन्नपानस्य, नयनं पैथि अनुकम्पया गुरोः कथनं सम्यक्त्वं प्राप्तः मृत्वा सौधर्म उपपन्नः पल्योपमायुः सुरो महर्द्धिक इति गांधाद्वयार्थः ।
माधून्
लणय सम्मतं अणुकंपाए उ सो सुविहियाणं । भासुरवरयदिधरो देवो वेमाणिओ जाओ ॥ १४७ ॥
गमनिका - लब्ध्वा च सम्यक्त्वं अनुकम्पयाs सौ सुविहितेभ्यः भास्वरां—दीप्तिमर्ती घरां -प्रधानां 'वोदिं' तनुं धारयतीति समासः, देवो वैमानिको जात इति नियुक्तिगाथार्थः ॥ १४७ ॥ तथा चचऊण देवलोगा इह चेव य भारहंमि वासंमि । इक्खागकुले जाओ उसभसुअसुओ मरीइति ॥ १४८ ॥
१ ततो गुरुः तस्मै धर्म कथयितुमारब्धः, तेन सोऽवगतः, सान्यथि समवतार्थ निवृत्तः, ते प्राप्ताः स्वदेशं, स पुनरविरतसम्यग्दृष्टिः कालं कृत्वा सीधमें कल्पे पस्योपस्थितिको देवो जातः. पथि नयनं. + गाथार्थः । सो.
व्याख्या - ततः स्वये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले 'जातः ' उत्पन्नः ऋषभसुतसुतो मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः ॥ १८ ॥ यतश्चैवमतः
इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसेऽईए भरहस्स सुओ मरीइति ॥ १४९ ॥
व्याख्या - इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन्, 'जातः' उत्पन्नः, भरतस्य सुतो मरीचिरिति योगः, तत्र सामान्यऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, स व कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः कुलकरवंशः प्रवाह इति समासः, तस्मिन्नतीते - अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति वाक्यशेषः इत्ययं गाधार्थः ॥ १४९ ॥ तत्र कुलकरवंशेऽतीत इत्युक्तं, अतः प्रथमं कुलकराणामेवोत्पत्तिः प्रतिपाद्यते, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय वेदमाह - ( ग्रन्थाग्रम् ३००० )
ओपिणी इमीसे तइयाएँ समाऍ पच्छिमे भागे । पलिओवमहभाए सेसंमि उ कुलगरुत्पत्ती ॥ १५० ॥ अभरमशिलुतिभागे गंगसिंधुमज्झमि । इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सन्त ।। १५१ ॥
प्रथम गाथागमनिका – अवसर्पिण्यामस्यां वर्त्तमानायां या तृतीया समा- सुषमदुष्षमासमा, तस्याः पश्चिमो भागस्तस्मिन् कियन्मात्रे पल्योपमाष्टभाग एव शेषे तिष्ठति सति कुलकरोत्पत्तिः संजातेति वाक्यशेष इति गाधार्थः ॥ १५० ॥ द्वितीय
*स्नेषां वंशः प्रवाह:
गाथागमनिका – अर्धभरतमध्यमत्रिभागे, कस्मिन् ? - गङ्गासिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, अर्ध भरतं विद्याधरालय वैताढ्यपर्वतादारतो गृह्यत इति गाथार्थः ॥ १५१ ॥ इदानीं कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयन्नाह -
पुत्र्वभचजम्मनामं पमाण संघयणमेव संठाणं । वण्णित्थियाउ भागा भवणोवाओ य णीई य * ॥ १५२ ॥ गमनिका - कुलकणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यंः तथा नामानि प्रमाणानि तथा संहननं वक्तव्यं, एवशब्दः पूरणार्थः, तथा संस्थानं वक्तव्यं तथा वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा वक्तव्याःकस्मिन् वयोभागे कुलकराः संवृत्ता इति, भवनेषु उपपातः भवनोपपातः वक्तव्यः, भवनग्रहणं भवनपतिनि कायोपपातप्रदर्शनार्थ, तथा नीतिश्च या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थे तु प्रतिद्वारं वक्ष्यति ॥ १५२ ॥ तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाह
अवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव । कालगया इह भरहे हत्थी मणुओ अ आयाया ॥ १५३ ॥ दहुं सिणेहकरणं गयमारुहणं च नामणिष्कत्ती । परिहाणि गेहि कलहो सामत्थण विनवण हत्ति ॥ १५४ ॥ गमनिका - अपरविदेहे द्वौ वणिग्वयस्यौ मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयातौ दृष्ट्वा स्नेहकरणं गजारोहणं च नामनिर्वृत्तिः परिहाणिः गृद्धिः कलहः, 'सामत्थणं' देशीवचनतः पर्यालोचनं भण्यते, विज्ञापना- ह
* पुनभव कुलगराणं उसभजिनिँदस्स भरहरण्णो अ । इक्खागकुलुप्पत्ती णेयवा आणुपुत्रीए । (गाथैषा निर्युतिपुस्तकेऽव्याख्याता च ).
Jain Education International
For Private Personal Use Only
www.jainelibrary.org