________________
॥ ७२ ॥
आवश्यक- हारिभद्रीयवृत्तिः
ततश्च पुंसः पुमांसमभिदधतः पुन्निर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एव, एवं नपुंसकस्य नपुंसक - मभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते, तदा रूयुपयोगानन्यत्वात् स्त्रीरूप एवासौ, निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्यं, असमानलिङ्गनिर्देष्टाऽस्य अवरत्वेव, यदा पुमान् पुमांसं स्त्रियं चाहेति, कुतः ?, तस्य पुरुषयोपिद्विज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुषयोषिदापत्तेः, अन्यथा वस्त्वभावप्रसङ्गात्, तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वाच्च तत्समानलिङ्गनिर्देशः, ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात् सामायिकं प्रतिपादयन्नात्मानमेवाह यतः तस्मात्तत्समानलिङ्गाभिधान एवासौ, रूढितश्च सामायिकार्थरूपस्य नपुंसकत्वा स्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकं नपुंसकलिङ्गनिर्देश एवेति गाथासमासार्थः । व्यासार्थस्तु विशेपविवरणादवगन्तव्य इति । सर्वनयमतान्यपि चामूनि पृथग्विपरीतविषयत्वात् न प्रमाणं, समुदितानि त्वन्तर्बाह्यनिमित्तसामग्रीयत्वात् प्रमाणमिति अलं विस्तरेण, गमनिकामात्रप्रधानत्वात् प्रस्तुतप्रयासस्य ॥ १४४ ॥ इदानीं निर्गमविशेषस्वरूपप्रतिपादनायाह
नामं ठषणा दविए खित्ते काले तहेव भावे अ । एसो उ निग्गमस्सा णिक्खेबो छन्विहो होइ ॥ १४५ ॥ गमनिका - नामस्थापने पूर्ववत्, द्रव्य निर्गमः - आगमनो आगमज्ञशरीरेतरव्यतिरिक्तः, स च त्रिधा - सचित्ताचित्तमिश्रभेदभिन्नः, तत्र सचित्तात्सचित्तस्य यथा पृथिव्या अङ्कुरस्य, सवित्तान्मिश्रस्य यथा-भूमेः पतस्य, सचित्तादचित्तस्य
१ पक्षस्य अचित्वात्. * संयोज्यं + ०ति सामा० 1 द्रव्यस्य द्रव्याद्वा. + ०रिक्तः सचित्ता..
यथा - भूमेर्बाष्पस्य, तथा मिश्रात्सवित्तस्य यथा - देहांत्कृमिकस्य, मिश्रान्मिश्रस्य यथा—- स्त्रीदेहान्नर्भस्य, मिश्रादचित्तस्य यथा— देहादू विष्ठायाः, अचित्तात्सचित्तस्य यथा - काष्ठात्कृमिकस्य, अचित्तान्मिश्रस्य यथा - काष्ठाद् घुणस्य, अचित्तादचित्तस्य यथा— काष्ठाद् धूणचूर्णस्य । अथवा द्रव्यात् द्रव्यस्य द्रव्यात् द्रव्याणां द्रव्येभ्यो द्रव्यस्य द्रव्येभ्यो द्रव्याणामिति, तत्र द्रव्याद् द्रव्यस्य यथा - रूपकात् रूपकस्य निर्गमः, एकस्मादेव कलान्तरप्रयुक्त । दिति भावार्थ:, एकस्मादेव कलान्तरतः प्रभूतनिर्गमो द्वितीयभङ्गभावना, प्रभूतेभ्यः स्वल्पकालेनैकस्य निर्गमो भवति तृतीयभङ्गभावना, प्रभूतेभ्यः प्रभूतानां कलान्तरतश्चतुर्थभङ्गभावनेति, 'क्षेत्रे' इति क्षेत्रविषयो निर्गमः प्रतिपाद्यते, एवं सर्वत्र अक्षरगमनिका कार्या, तत्र कालनिर्गमः - कालो ह्यमूर्त्तस्तथापि उपचारतो वसन्तस्य निर्गमः दुर्भिक्षाद्वा निर्गतो देवदत्तो बालकालाद्वेति, अथवा कालो द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमः, तत्प्रभवत्यादिति, एवं भावनिर्गमः तत्र पुद्गलाइर्णादिनिर्गमः, जीवात्कोधादिनिर्गमः इति, तयोर्वा पुद्गलजीवयोर्वर्णविशेष क्रोधादिभ्यो निर्गम इति, एष एव निर्गमस्य निक्षेपः षड्विध इति गाथार्थः ॥ १४५ ॥ एवं शिष्यमतिविका । शार्थं प्रसङ्गत उक्तोऽनेकधा निर्गमः, इह व प्रशस्तभावनिर्गममात्रेण अप्रशस्तापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वाद्, इह च द्रव्यं वीरः क्षेत्रं महासेनवनं कालः प्रमाणकालः भावश्च भावपुरुषः, एवं च निर्गमाङ्गानि द्रष्टव्यानीति एतानि च द्रव्याधीनानि यतः अतः प्रथमं जिनस्यैव मिथ्यात्वादिभ्यो निर्गममभिधित्सुराह
उष्णतायाः. २ केशयुतत्वात् एवमग्रेऽपि वर्गमो वक्तव्यः तृती० + कालान्तरतन ०. + विकासार्थ.
* किर देसित्ता साहूणं अडविविप्पणद्वाणं । सम्मत्तपढमलंभो बोद्धवो वद्धमाणस्स ॥ १४६ ॥ Tafter - पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानां पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्धमानस्येति समुदायार्थः ॥ १४६ ॥ अवयवार्थः कथानकादवसेयः, तच्चेदम् – अवरविदेहे एमि गामे बलाहिओ, सो व रायादेसेण सगडाणि गहाय दारुनिमित्तं महाडविं पविट्ठो, इओ य साहुणो मग्गपवण्णा सत्थेण स वति, सत्थे आवासिए भिक्खटुं पविद्वाणं गतो सत्थो, पवितो, अयाणंता विभुल्ला, मूढदिसा पंथं अयाणमाणा तेण अडविपंथेण मज्झहदेसकाले तण्हाए छुहाए अपरिद्धा तं देतं गया जत्थ सो सगडसण्णिवेसो, सो य ते पासिता महंतं संवेगमावण्णो भणति अहो इमे साहुणो अदेसिया तबस्सिणो अडविमणुपविट्ठा, तेसिं सो अणुकंपाए विपुलं असणपाणं दाऊणं आह—एह भगवं । जेण पथे णमवयारेमि, पुरतो संपत्थिओ, ताहे तेऽवि साहुणो तस्सेव मग्गेण अणुगच्छति,
१ अपरविदेहेषु एकस्मिन्प्रामे बलाधिकः, स च राजादेशेन शकटानि गृहीत्वा दारुनिमित्तं महाटवीं प्रविष्टः, इतश्च साधवः मार्गप्रपत्ता: सार्थेन समं प्रजन्ति, साथै भावासिते भिक्षार्थं प्रविष्टेषु गतः सार्थः, प्रधावितः, अजानन्तो भ्रष्टाः, दिग्मूढाः पन्थानमजानानाः तेन भटवीपथेन मध्याह्न देशकाले तृषा सुधा अपराद्धाः (च व्याप्ताः ) तं देशं गता यत्र स शकटसनिवेशः, स च तान् दृट्टा महान्तं संवेगमापसो भणति अहो इमे साधवोऽदेशिकास्तपस्विनोऽटवीमनुप्रविष्टाः, तेभ्योऽसौ अनुकम्पया बिपुलमशनपानं दत्वाऽऽह एत भगवन्तः ! येन पथि युष्मानवतारयामि, पुरतः संप्रस्थितः, तदा तेऽपि साधवः तस्यैव पृष्ठतः अनुगच्छन्ति,. * जह मिच्छत्ततमाओ विणिग्गओ जह य केवलं पत्तो । जह य पयासिअमेयं सामइअं तह पवक्खामि ॥ १ ॥ ( गाथैषाऽव्याख्याता निर्युतिपुस्तके) + पहाविता. य पारदा.
Jain Education International
For Private Personal Use Only
www.jainelibrary.org