________________
मावायक-हारिभद्रीयवृत्तिः
॥७१॥ प्रतिपादयति अनुगमद्वारावसरे तदशेष निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति । आह-उपक्रमः प्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपोद्घातः शास्त्रसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः १, उच्यते, उपक्रमो झुदेशमात्रनियतः, तदुद्दिष्टवस्तुप्रबोधनफलस्तु प्रायेणोपोद्घातः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतमुच्यते ॥ १४१॥ तत्रोद्देशद्वारावयवार्थप्रतिपादनायेदमाहनामं ठवणा दविए खेत्ते काले समास उद्देसे । उद्देसुदेसंमि अभावंमि अ होइ अट्ठमओ ॥ १४२ ॥ व्याख्या-तत्र नामोद्देशः यस्य जीवादेरुद्देश इति नाम क्रियते, नानो वा उद्देशः नामोद्देशः, स्थापनोहेश:--स्थापनाभिधानं उद्देशन्यासो वा, 'द्रव्ये' इति द्रव्यविषय उद्देशो द्रव्योद्देशः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, द्रव्यस्य-द्रव्यमिदमिति, द्रव्येण-द्रव्यपतिरयमिति, द्रव्ये-सिंहासने राजा चूते कोकिलः गिरौ मयूर इति, एवं क्षेत्रविषयोद्देशोऽपि वक्तव्यः,एवं कालविषयोऽपीति, 'समासः' संक्षेपस्तद्विषय उद्देशः समासोद्देशः, स च अङ्गश्रुतस्कन्धाध्ययनेषु द्रष्टव्यः, तत्र अजसमासोद्देशः-अङ्ग अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या, उद्देशः-अध्ययनविशेषः तस्य उद्देश उद्देशोद्देशः, तद्विषयश्च उद्देश इति, स चोद्देशोदेशोऽभिधीयते-उद्देशवान् तदध्येता तदर्थज्ञो वेति, भावविषयश्च भवति उद्देशः अष्टमक इति, स चायं-भावः भावी भावज्ञो वेति गाथार्थः ॥ १४२ ॥ अयमेध छुद्देशोऽष्टविधविशिष्टनामसहितो निर्देश इत्यवसेयः, तथा चाह नियुक्तिकारःएमेव य निदेसो अट्ठविहो सोऽवि होइ णायव्यो । अविसेसिअमुद्देसो विसेसिओ होइ निद्देसो॥ १४३॥
व्याख्या-'एवमेव च यथा उद्देश उक्तस्तथा,निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः, सर्वथा साम्यप्राप्त्यतिप्रसङ्गविनिवृत्त्यर्थमाह-किंतु 'अविशेषितः' सामान्याभिधानादिगोचरः उद्देशः, विशेषितरतु भवति निर्देशः, यथा नामनिर्देशो जिन भद्र इत्याद्यभिधानविशेषनिर्देशः, स्थापनानिर्देशः स्थापनाविशेषाभिधानं निर्देशस्थापना वा, विशिष्टद्रव्याभिधानं द्रव्यनिदेशः यथा-गौः, तेन वा-अश्ववानित्यादि, एवं क्षेत्रविशेषाभिधानं क्षेत्रनिर्देशः यथा-भरतं, क्षेत्रेण-सौराष्ट्र इत्यादि, कालविशेषाभिधानं कालनिर्देशः यथा-समय इत्यादि, तेन वा-वासन्तिक इत्यादि, समासनिर्देशः-आचाराङ्गं आवश्यक श्रुतस्कन्धः सामायिकं चेति, उद्देशनिर्देशः-शस्त्रपरिज्ञादेः प्रथमो द्वितीयो वेति, भगवत्यां वा पुद्गलोद्देशो वेति, भावव्यत्यभिधानं भावनिर्देशः यथा-औदयिक इत्यादि, तेन-औदयिकवान् क्रोधीत्यादि वेति अलं विस्तरेणेति गाथार्थः॥१४३॥ इह समासोद्देशनिर्देशाभ्यामधिकारः, कथं ?, अध्ययनमिति समासोदेशः सामायिकमिति समासनिर्देशः, इदं च सामायिकं नपुंसकम् , अस्य च निर्देष्टा त्रिविधः-स्त्री पुमान् नपुंसकं चेति, तत्र को नयो नैगमादिः कं निर्देशमिच्छतीत्यमुं अर्थमभिधित्सुराहदुविहंपि णेगमणओ णिद्देस संगहो य ववहारो। निद्देसगमुजुसुओ उभयसरित्थं च सहस्स ॥१४४ ॥
व्याख्या-'द्विविधमपि' निर्देश्यवशात् निर्देशकवशाच नैगमनयो निर्देशमिच्छति, कुतः !, लोकसंव्यवहारप्रवणत्वात् नैकगमत्वाच्चास्येति, लोके च निर्देश्यवशात् निर्देशकवशाच्च निर्देशप्रवृत्तिरुपलभ्यते, निर्देश्यवशात् यथा-वासवदत्ता
"णिहिट्ठ प्रियदर्शनेति, निर्देशकवशाच्च यथा-मनुना प्रोक्तो ग्रन्थो मनुः,अक्षपादप्रोक्तोऽक्षपाद इत्यादि,लोकोत्तरेऽपि निर्देश्यवशात् यथा-षड्जीवनिका, तत्र हि षड् जीवनिकाया निर्देश्या इति, एवमाचारक्रियाऽभिधायकत्वादाचार इत्यादि, तथा निर्देशकवशात् जिनवचनं कापिलीयं नन्दसंहितेत्येवमादि, एवं सामायिकमर्थरूपं रूढितो नपुंसकमितिकृत्वा नैगमस्य निर्देश्यवशान्नपुंसकनिर्देश एव, तथा सामायिकवतः स्त्रीपुन्नपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थरूपस्य स्त्रीपुंनपुंसकलिङ्गत्वाविरोधमपि मन्यते, तथा निर्देष्टुत्रिलिङ्गसंभवात् निर्देशकवशादपि त्रिलिङ्गतामनुमन्यते नैगमः । आह-द्विविधमपि नँगमनयः' इत्येतावत्युक्ते निर्देश्यवशात् निर्देशकवशाच्च निर्देशमिच्छतीति क्रियाऽध्याहारः कुतोऽवमीयते इति, उच्यते, यत आह-निर्दिष्टं' वस्त्वङ्गीकृत्य, संग्रहो व्यवहारः, चशब्दस्य व्यवहितः संबन्धो, निर्देशमिच्छ. तीति वाक्यशेषः अत्र भावना-वचनं ह्यर्थप्रकाशक मेवोपजायते, प्रदीपवत् , यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेव आत्मरूपं प्रतिपद्यते, एवं ध्वनिरप्यर्थ प्रतिपादयन्नेव, ततस्तत्प्रत्ययोपलब्धेः, तस्मानिर्दिष्टवशात् निर्देशप्रवृत्तिरिति, ततश्च सामायिकमर्थरूपं रूढितो नपुंसकमतस्तद धिकृत्य संग्रहो व्यवहारश्च निर्देशमिच्छतीति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि मन्यत इति । तथा निर्देशकसत्त्वमङ्गीकृत्य सामायिकनिर्देशं ऋजुसूत्रो मन्यते, वचनस्य वक्तुरधीनत्वात् तत्पर्यायत्वात् तद्भावभावित्वादिति । ततश्च यदा पुरुषो निर्दष्टा नदा पुल्लिङ्गता, एवं स्त्रीनपुंसकयोजनाऽपि कायां, तथा 'उभयसदृशं निर्देश्यनिर्देशकसदृशं, समानलिङ्गमेव वस्त्वङ्गीकृत्य, शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, एतदुकं भवति-उपयुक्तो हि निर्देष्टा निर्देश्यादभिन्न एव, तदुपयोगानन्यत्वात् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org