SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मावश्यक-हारिभद्रीयवृत्तिः क्षेत्रे !, कालो वक्तव्यः कस्मिन् काले ?, पुरुषश्च वक्तव्यः कुतः पुरुषात् ?, कारणं वक्तव्यं किं कारणं गौतमादयः शृण्यन्ति!, तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतेदमपदिष्टं ? को वा गणधराणां श्रवण इनि. तथा लक्षणं वक्तव्यं श्रद्धानादि, तथा नया-नैगमादयः, तथा तेषामेव समवंतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च 'मूढणइयं सुयं कालियं तु इत्यादि, 'अनुमतं' इति कस्य व्यवहारादेः किमनुमतं सामायिकमिति, वक्ष्यति-तैवसंजमो अणुमओ' इत्यादि, किं सामायिकम् ? 'जीवो गुणपडिवण्णो' इत्यादि वक्ष्यति, कतिविधं सामायिक ? 'सामाइयं च तिविह सम्मत्त सुयं तहा चरित्तं च' इत्यादि प्रतिपादयिष्याते, कस्य सामायिकमिति, वक्ष्यति-जैस्स सामाणिओ अप्पा' इत्यादि, क सामायिक, क्षेत्रादाविति, वक्ष्यति-खेत्तैकालादिसि गति भविय' इत्यादि, केषु सामायिकमिति, सर्वद्रव्येषु, वक्ष्यति-'संधगतं सम्मत्तं सुए परित्ते ण पजवा सबे' इत्यादि, कथमवाप्यते १, वक्ष्यति-'माणुस्सखित्तजाई' इत्यादि, कियच्चिरं भवति ? कालमिति, वक्ष्यति-सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइ ठिती' इत्यादि, 'कति' इति कियन्तः प्रतिपद्यन्ते । पूर्वप्रतिपन्ना वेति वक्तव्यं, वक्ष्यति च-सम्मत्तदेसविरया पलियस्स असंखभागमित्ताउ' इत्यादि, सम्यक्त्वसामायिकादेः. २ मूठनयिक श्रुतं कालिकं तु. ३ तपःसंयमोऽनुमतः.जीवो गुणप्रतिपमः. ५ सामायिक विविध सम्यक्त्वं श्रुतं तथा चारित्रं च. ६ यस्य समानीतः भास्मा. क्षेत्रकालदिग्गतिभव्य. ८ सर्वगतं सम्यक्रवं श्रुते चरित्रे न पर्यवाः सर्वे. ९ मानुष्यं क्षेत्रं जातिः. १. सम्यक्तवस्य श्रुतस्य च पक्षष्टिः सागरोपमाणि स्थितिः. 1 सम्यक्स्वदेशविरताः पत्यस्यासंख्यभागमात्रा एव.* समवतारणं च. + संभवन्ति. व्यति. 1.विसिकाल.. 1.पाचस्ते पनाति मेत्ता. 'सान्तरं' इति सह अन्तरेण वर्तत इति सान्तरं, किं सान्तरं निरंतरं वा?, यदि साम्तरं किमन्तरं भवति?, वक्ष्यति-कालमणतं च सुते अद्धापरियट्टगो य देसूणो' इत्यादि, 'अविरहितं' इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति -'सुतसम्मअगारीणं आवलियासंखभाग' इत्यादि, तथा 'भवा' इति कियतो भवानुत्कृष्टतः खल्ववाप्यन्ते 'सम्मत्तदेसविरता पलियस्म असंखभागमित्ता उ । अट्ठभवा उ चरित्ते' इत्यादि, आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः, 'तिण्हें सहस्साहुत्तं सयपुहुक्तं च होति विरईए । एगभवे आगरिसा' इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः स्पृशन्तीति, वक्ष्यति-सम्मसचरणसहिआसवं लोग फुसे निरवसेसं' इत्यादि, निश्चिता उक्तिर्निरुक्तिर्वक्तव्या-'सम्म विट्ठी अमोहो सोही सम्भाव दंसणे बोही' इत्यादि वक्ष्यति। अयं तावताथाद्वयसमुदायार्थः, अवयवार्थ तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः। अत्र कश्चिदाह-पूर्वमध्ययनं सामायिक तस्यानुयोगद्वारचतुष्टयमुपन्यस्तं, अतस्तदुपन्यास एव उद्देशनिर्देशावुक्ती, तथौधनामनिष्पन्ननिक्षेपद्वये च, अतः पुनरनयोरभिधानमयुक्तमिति, अत्रोच्यते, तत्र हि अत्र' द्वारद्वयोक्तयोरनागतग्रहणं द्रष्टव्यं, अन्यथा तरहणमन्तरेण द्वारोपन्यासादय एव न स्युः, अथवा द्वारोपन्यासादिविहितयोस्तत्राभिधानमात्रं इह त्वर्थानुग कालोऽनन्तश्च श्रुते, पुद्गलपरावर्तश्च देशोनः. २ श्रुतसम्यक्त्वागारिणां भावलिकाऽसंख्यभाग. ३ सम्यक्त्व देशविरताः पल्यस्यासंख्यभाग मात्रानेव । अष्टभवास्तु चारित्रे. त्रयाणां सहस्रपृथक्रवं, शतपृथक्त्वं च भवति विरतेः । एकभवे भाकर्षाः-५ सम्यक्रवचरणसहिताः सर्व को स्पृशन्ति निरवशेष ६ सम्यग्दृष्टिरमोहः शोधिः सद्भावः दर्शनं बोधि:. * वाप्यते. + नेदम्. । भावार्थ इति..ति भावार्थः. एतहार.. मद्वाराधिकारे विधानतो लक्षणतश्च व्याख्या क्रियत इति । आह यद्येवं निर्गमो न वक्तव्यः, तस्यागमद्वार एवाभिहितत्वात्, तथा च 'आत्मागम' इत्याधुक्तं, ततश्च तीर्थकरगणधरेभ्य एव निर्गतमिति गम्यते इति, उच्यते, सत्यं किंतु इह तीर्थकरगणधराणामेव निर्गमोऽभिधीयते, कोऽसौ तीर्थकरो गणधराश्चेति, वक्ष्यते-वर्धमानो गौतमादयश्चेति, यथा च तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टमित्यतोऽदोष इति । आह-यद्येवं लक्षणं न वक्तव्यं, उपक्रम एव नामद्वारे क्षायोपशमिकभावेऽवतारितत्वात् , प्रमाणद्वारे च जीवगुणप्रमाणे आगमे इति,उच्यते,तत्र निर्देशमात्रत्वात् , इह तु प्रपञ्चतोऽभिधानाददोषः, अथवा तत्र श्रुतसामायिकस्यैवोक्तं, इह तु चतुर्णामपि लक्षणाभिधानाददोषः। आहनयाः प्रमाणद्वार एवोक्ताः किमिहोच्यन्ते !, स्वस्थाने च मूलद्वारे वक्ष्यमाणा एवेति, उच्यते, प्रमाणद्वारोक्ता एवेह व्याख्यायन्ते, अथवा प्रमाणद्वाराधिकारात्तत्र प्रमाणभावमात्रमुक्तं, इह तु स्वरूपावधारणमवतारो वाऽऽरभ्यते, एते च सर्व एव सामायिकसमुदायार्थमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्ताश्च नयाः सूत्रविनियोगिनः, मूलद्वारोपन्यस्तनयास्तु सूत्रन्याख्योपयोगिन एवेति । आह-प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितमेश्व, ततश्च किं सामायिकमित्याशङ्कानुपपत्तिः,उच्यते,जीवगुणस्वे ज्ञानत्वे च सत्यपिकिंतज्जीव एव आहोस्विद् जीवादन्यदिति संशयः,तदुच्छित्स्यर्थमुपन्यासाददोषः। आह-नामद्वारे क्षायोपशमिकं सामायिकमुक्तं तत्तदावरणक्षयोपशमालभ्यत इति गम्यत एव, अतः कथं लभ्यत इत्यतिरिच्यते, न, क्षयोपशमलाभस्यैवेह शेषाङ्गलाभचिन्तनादिति । एवं यदुपक्रमनिक्षेपद्वारद्वयाभिहितमपि पुनः *ऽभिधानतो. + वक्ष्यति. तिथा च यथा च. चिन्त्यते. न तु सूत्रविनियोगिनः- मेषेति. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy