________________
भावश्यक-हारिभद्रीयत्तिः रणान्तरः पुनः स्वरूपमुपदर्शयति, एवमसावप्युदितकशायानलो जघन्यतस्तद्भव एव मुक्तिं लभते, उत्कृष्टतस्तु देशोनमर्धपुद्गलपरावर्त्तमपि संसारमनुबध्नातीति ॥ ११८ ॥ यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकार:
जइ उवसंतकसाओ लहइ अणंतं पुणोऽवि पडिवायं।ण हु भे वीससियव्वं थेवे य कसायसेसंमि ॥११९॥ अणथो वणधोवं अग्गीथोवं कसायथोवं च । णहु भे वीससियव्वं थेपि हु तं बहुं होइ ॥ १२० ॥ प्रथमगाथा प्रकटार्थत्वान्न वितन्यते, द्वितीयगाथाव्याख्या-ऋणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्त च भाष्यकारेण-"दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो । सबस्स दाहमग्गी देंति कसाया भवमणंतं ॥१॥" अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः ॥१२०॥ इत्थमौपशमिकं चारित्रमुक्तं, इदानी क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोक्तं, इदानीं क्षपक श्रेण्यङ्गीकरणतः प्रतिपादयन्नाह
अण मिच्छ मीस सम्मं अट्ठ नपुंसिस्थीवेय छक्कं च। पुंवेयं च खवेइ कोहाइए य संजलणे ॥ १२१ ॥ व्याख्या-इह क्षपकश्रेणिप्रतिपत्ताऽसंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स च उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगत एवेति, प्रतिपत्तिक्रमश्चायम्-प्रथममन्तर्मुहूर्तेन अनन्तानुबन्धिनः क्रोधादीन् युगपत्क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत्
दासत्वं ददाति ऋणं अचिराम्मरणं व्रणो विसर्पन् । सर्वस्य दाहम निर्ददति कषाया भवमनन्तम् ॥1॥ (विशेषावश्यकगाथा १३). क्षपयति, यथा हि अतिसंभृतो दावानलः खलु अर्धदग्धेन्धन एवं इन्धनान्तरमासाद्य उभयमपि दहति, एवमसावपि क्षपकः तीव्रशुभपरिणामत्वात् सावशेष अन्यत्र प्रक्षिप्य क्षपयति, एवं पुनः सम्यग्मिथ्यात्वं ततः सम्यक्त्वमिति, इह च यदि बद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च व्युपरमति, ततः कदाचित् मिथ्यादर्शनोदयतस्तानपि पुनरुपचिनोति, मिथ्यात्वे तद्वीजसंभवात् , क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात् , तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषु उत्पद्यते क्षीणसप्तकोऽपि तदप्रतिपतितपरिणाम इति, प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग भवति, आह-मिथ्यादर्शनादिक्षये किमसौ अदर्शनो जायते उत नेति, उच्यते, सम्यग्दृष्टिरेवासौ, आह-ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वम् ?, उच्यते, निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनं, तत्परिक्षये च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातात् प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्द शुद्धतरोपपत्तेरिति अलं प्रपञ्चेन । स च यदि बद्धायुः प्रतिपद्यते ततो नियमात् सप्तके क्षीणे अवतिष्ठत एव, स च सम्यग्दर्शनमशेषमेव क्षपयति, अबद्धायुस्तु अनुपरत एवं समस्तां श्रेणिं समापयति इति, स च स्वल्पसम्यग्दर्शनावशेष एव अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपत् आरभते ॥ १२१॥ एतेषां च मध्यभागं क्षपयन् एताः सप्तदश प्रकृतीः क्षपयति, तत्प्रतिपादकमिदं गाथाद्वयम्गइआणुपुन्वी दो दो जाइनामं च जाव चरिंदी । आयावं उज्जोयं थावरनामं च सुहुमं च ॥ १२२॥ साहारणमपजत्तं निहानिदं च पयलपयलं च । थीणं खवेइ ताहे अवसेसं जं च अट्ठण्हं ॥ १२३ ॥ व्याख्या-गतिश्चानुपूर्वी च गत्यानुपूर्यो 'दो दो' इति द्वे द्वे तनामनी, जातिनाम चेत्यस्मात् नामग्रहणं अभिसंबध्यते, एतदुकं भवति-नरकगतिनाम नरकानुपूर्वीनाम च, आनुपूर्वी-वृषभनासिकान्यस्तरसंस्थानीया, यया कर्मपुद्गल. संहत्या विशिष्टं स्थानं प्राप्यतेऽसौ, यया वोर्बोत्तमाङ्गाधश्चरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वीति, तथा तिर्यग्गतिनाम तिर्यगानुपूर्वीनाम च, एवं गत्यानुपूर्वीनामनी द्वे द्वे, तथा 'जातिनाम एकेन्द्रिया न्द्रियाः, एतदुक्तं भवति-एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम एवं शेषयोजनाऽपि कार्येति । आह-एकेन्द्रियाद्यानुपूर्वीनाम कस्मान्नोच्यते, आचार्य आह-तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोक्तार्थत्वात् , 'चः' समुच्चये, तथा 'आतपं' इति आतपनाम, यदुदयात् आतपवान् भवति, 'उद्योतं' इति उद्योतनाम, यदुदयादुद्योतवान् भवति, स्थावराः-पृथिव्यादयः तन्नाम च पूर्ववत्, 'सूक्ष्म' इति सूक्ष्मनाम च, 'साधारणं' इति साधारणनाम, अनन्तवनस्पतिनामेत्यर्थः, 'अपर्याप्तं' इति अपर्याप्तकनाम, तथा निद्रानिद्रा च इत्यादि प्रकटार्थत्वान्न विवियते, नवरं स्त्याना चैतन्यऋद्धिर्यस्यां सा स्त्यानर्षिः, स्त्यानयुत्तरकालमवशेष यदष्टानां कषायाणां तत् क्षपयति, सर्वमिदमन्तर्मुहूर्त्तमात्रेणेति, ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषट्वं, ततः पुरुषवेदं च खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं, कमः, नपुंसकादिप्रतिपत्तरि तु उपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादींश्च संज्वलनान् प्रत्येक मन्तर्मुहूर्त्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमेव, अन्तर्मुहूर्तानामसंख्येयत्वात् , लोभ चरमखण्डं तु संख्येयानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति, चरमखण्डं पुनरसंख्येयानि खण्डानि करोति, तान्यपि समये समये एकैकं क्षपयति, इह च क्षीणदर्शन सप्तको निवृत्तिवादर उच्यते, तत ऊर्ध्वमनिवृत्तिवादरो यावत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org