________________
भावश्यक-हारिभद्रीयवृत्तिः स्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्त्तमात्रेण कालेन अनन्तानुवन्धिनः क्रोधादीन उपशमयति, एवं सर्वत्र युगपदुपशमककालोऽन्तर्मुहूर्त्तप्रमाण एव द्रष्टव्यः, ततो दर्शनं दर्शस्तं, दर्शनं त्रिविधं-मिथ्या सम्यग्मिथ्या सम्यग्दर्शनं युगपदेवेति, ततोऽनुदीर्णमपि नपुंसकवेदं युगपदेव यदि पुरुषः प्रारम्भकः, पश्चात्स्त्रीवेदमेककालमेवेति, ततो हास्यादिषट्वं-हास्यरत्यरतिशोकभयजुगुप्सापदं, पुनः पुरुषवेदं । अथ स्त्री प्रारम्भिका ततः प्रथम नपुंसकवेदमुपशमयति पश्चात्पुरुषवेदं ततः पहूं ततः स्त्रीवेदमिति । अथ नपुंसक एव प्रारम्भकः ततोऽसी अनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति पश्चात्पुरुषवेदं ततः पद्धं ततो नपुंसकवेदमिति, पुनः 'द्वौ द्वौ' क्रोधाद्यौ 'एकान्तरितो' संज्वलनविशेषक्रोधाद्यन्तरितौ 'सदृशौ' तुल्यौ 'सदृशं' युगपदुपशमयति, एतदुक्तं भवति-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ सदृशौ क्रोधत्वेन युगपदुपशमयति, ततः संज्वलनं क्रोधमेकाकिनमेव, ततः अप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदेव ततः संज्वलनमानमिति, एवं मायाद्वयं सदृशं पुनः संज्वलनां मायां, एवं लोभद्वयमपि पुनः संज्वलनं लोभमिति, तं चोपशमयंत्रिधा करोति, द्वौ भागी युगपदुपशमयति, तृतीयभार्ग संख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः संख्येयखण्डानां चरमखण्डं असंख्येयानि खण्डानि करोति, सूक्ष्मसंपरायस्ततः समये समये एकैकं खण्डं उपशमयतीति, इह च दर्शनसप्तके उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् संख्येयान्तिमद्विचरमखण्डं । आह-संज्वलनादीनां युक्त इत्थमुपशमः, अनन्तानुबन्धिनां तु दर्शनप्रतिपत्तावेवोपशमितत्वान्न युज्यत इति, उच्यते, दर्शनप्रतिपत्तौ तेषां क्षयोपशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव कः प्रतिविशेषः !, उच्यते, क्षयोपशमो खुदीर्णस्य क्षयः अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमा, प्रदेशानुभवतस्तु उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च भाष्यकारेण-"वेदेई संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ उण वेएइ न संतकम्मपि ॥१॥" आह-संयतस्यानन्तानुबन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति, उच्यते, स ह्यनुभावकाङ्गीकृत्य न तु प्रदेश. कर्मेति, तथा चोक्तमा-"जीवेणं भन्ते । सयंकडं कम्मं वेदेइ ?, गोयमा ! अत्थेगइअं वेइए अस्थेगइ नो वेएइ, से केणडेणं ? भन्ते ! पुच्छा, गोयमा! दुविहे कम्मे पण्णत्ते, तंजहा–पएसकम्मे अ अणुभावकम्मे अ, तत्थ णं जं तंपएसकम्म तं नियमा वेएइ, तत्थ णं जंतं अणुभावकम्मं तं अत्थेगइअं वेएइ, अत्थे गइयंणो वेएई” इत्यादि, ततश्च प्रदेशकर्मानुभाषोदयस्येहोपशमो द्रष्टव्यः । आह-ययेवं संयतस्य अनन्तानुवन्ध्युदयतः कथं दर्शनविघातो न भवति?, उच्यते, प्रदेशकर्मणो मन्दानुभावत्वात् , तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराय भवन्नुपलभ्यते, यथा संपूर्णमत्यादिचतुर्तानिनः तदावरणोदय इत्यलं विस्तरेण ॥११६॥
सूक्ष्म
सं-को
वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि।।। २ जीवो भदन्त ! स्वयंकृतं कर्म घेदवति ! गौतम ! अस्स्पेककं (किशिद ) वेदयति, भस्त्येककं न वेदयति, सत् केनार्थेन ? भदन्त ! पृच्छा, गौतम ! विविध कर्म प्रशतं, वचथा-प्रदेशकर्म अनुभाव. कर्म च, तत्र यत्तत् प्रदेशकर्म तत् नियमावेवयति, तत्र यत् अनुभावकर्म तत् भस्त्येक वेदयति, अस्त्येककं नो बेदयति. अत्र स्थापना उपशम श्रेणे:-इह च संख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसंख्येयखण्डासंख्येयखण्डान्युप
शमयन सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकारः
लोभाणु वेअंतो जो खलु उवसामओ व खषगो वा।
सो सुहमसंपराओ अहखाया ऊणओ किंची॥ ११७॥ बादरक
गाथेयं गतार्थत्वात् न वित्रियते, नवरं यथाख्यातात् किश्चिन्यून इति, ततः सूक्ष्मसंपरायावस्थामन्तर्मुहर्तमात्रकालमानामनुभूयोपशामकनिम्रन्थो यथाख्यातचारित्रीभवति ॥११७॥ स च
यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते, ततो नियमतोऽनुत्तरविमानवासिषु उत्पद्यते, श्रेणिसंमा
प्रच्युतस्य त्वनियमः, अधाबद्धायुः अतोऽन्तर्मुहूर्तमानं उपशामकनिम्रन्यो भूत्वा नियमतः पुनरपि ब-प्र-माउदितकषायः कात्स्न्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्मराह नियुक्तिकारः
उवसामं उवणीआ गुणमहया जिणचरितसरिसंपि। पुरुष. हास्या ....
पडिवायंति कसाया किं पुण सेसे सरागत्थे ॥११८॥ नपुं : ... दर्शन.
व्याख्या-उपशमः' शान्तावस्था तमुपशमं, अपिशब्दात् क्षयोपशममपि, उपनीताः गुणैर्म.... मग. हान गुणमहान् तेन गुणमहता-उपशमकेन, किम् ?-प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कम् ?-जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् सरागस्थानिति । यथेह भस्मच्छन्नानलः पवनाधासादितसहकारिका.
सं-मा
म-प्र-मा
संको.
भ-प्र-को
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org