SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मावश्यक-हारिभद्रीयवृत्तिः ॥ ५३॥ अशेषचारित्रच्छेदकारीति भावार्थः, पुनःशब्दस्तु प्रक्रान्तार्थविशेषणार्थ एवेति, 'भवति' संजायते 'द्वादशानां' अनन्तानु. बन्धिप्रभृतीनां कषायाणां, उदयेनेति संवध्यते, अथवा मूलच्छेद्यं यथासंभवतः खल्यायोजनीयं, प्रत्याख्यानावरणकपा. योदयतस्तावत् मूलच्छेद्यं-सर्वचारित्रविनाशः, एवमप्रत्याख्यानकषायानम्तानुबन्ध्युदयतस्तु देशविरतिसम्यक्त्वं मूलच्छेद्य यथायोगमिति गाथार्थः ॥११२ ॥ यतश्चैवमतःवारसविहे कसाए खइए उवसामिए व जोगेहिं । लम्भह चरितलंभो तस्स विसेसा इमे पंच ॥ ११३ ॥ व्याख्या-द्वादशविधे' द्वादशप्रकारे अनन्तानुबन्ध्यादिभेदभिन्ने 'कषाये' क्रोधादिलक्षणे, 'क्षपिते सति' प्रशस्त. योगैः-निर्वाणहुतभुक्तुल्यता नीते 'उपशमिते' भस्मच्छन्नाग्निकल्पतां प्रापिते, वाशब्दात् क्षयोपशमं वा-अर्धविध्या. तानलोपट्टनसमतां नीते 'योगैः' मनोवाकायलक्षणैः प्रशस्तैर्हेतुभूतैरिति, किम् ? लभ्यते चारित्रलाभः 'तस्य' चारित्रला. भस्य सामान्यस्य न तु द्वादशविधकषायक्षयादिजन्यस्यैवेति, 'विशेषा' भेदा 'एते' वक्ष्यमाणलक्षणाः 'पञ्च' पञ्चेति संख्या, (इति) गाथाक्षरार्थः ॥ ११३ ॥ अनन्तरगाथासूचितपञ्चचारित्रभेदप्रदर्शनायाह सामाइयं च पढम छेओवट्ठावणं भवे बीयं । परिहारविमुखीयं सुहुमं तह संपरायं च ॥ ११४ ॥ तत्तो य अहक्खायं खायं सव्वमि जीवलोगंमि। चरिऊण सुविहिआ वचंतयरामरं ठाणं ॥११५॥ प्रथमगाथाब्याख्या-'सामायिक' इति समानां-ज्ञानदर्शनचारित्राणां आया-समायः, समाय एवं सामायिक, विनयादिपाठात् स्वार्थे ठक, आह-समयशम्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः १, उच्यते, 'एकदेशविकृतमनन्यवद्धवती' तिन्यायात्, तच्च सावद्ययोगविरतिरूपं, ततश्च सर्वमप्येतच्चारित्रं अविशेषतः सामायिक, छेदादिविशेषैस्तु विशेष्यमाणं अर्थतःशब्दान्तरतश्च नानात्वं भजते, तत्र प्रथम विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं, तच्च भरतैरवतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति, यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकं आभववर्तीतियावत्, तच मध्यमविदेहतीर्थकरतीर्थान्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात् , अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधुस्थितास्थितकल्पः प्रदर्श्यते-तत्र प्रथान्तरे विवक्षितार्थप्रतिपादिकेयं गाथा“आचेलकु १ देसिय २ सेज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जिट्ठ ७ पडिक्कमणे ८ मासं ९ पजोसवणकप्पो १०॥१॥” अस्या गमनिका-चउसु ठिआ छसु अद्विआ, केषु चतुर्ष इति, आह–सिजायरपिंडे या चाउजामे य पुरिसजिढे य । किइकम्मस्स य करणे चत्तारि अवडिआ कप्पा ॥ १॥ नास्य चेलं विद्यते इत्यचेलकः तद्भावः अचेलकत्वं अचेलकत्वे स्थिताः, एतदुक्तं भवति-न वैदेहमध्यमतीर्थकरतीर्थसाधयः पुरिमपश्चिमतीर्थवर्तिसाधुवत् अचेलत्वे स्थिताः, कुतः १-तेषां ऋजुप्रज्ञत्वात् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात्, पुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधूनां तु ऋजुवक्रजडत्वात् महाधनमूल्यादिवस्त्रापरिभोगाजीर्णादिपरिभोगाच्च अचेलकत्वमिति। आह-जीर्णादिवस्त्रसद्भावे, कथमचे. लकत्वम् ?, उच्यते, तेषां जीर्णत्वात् असारस्वात् अल्पत्वात् विशिष्टार्थक्रियाऽप्रसाधकत्वात् असत्त्वाविशेषात् इति, तथा चेत्थंभूतवस्त्रसद्भावेऽपि लोकेऽचेलकत्वव्यपदेशप्रवृत्तिदृश्यते, यथा-काधिदङ्गना जीर्णवस्त्रपरिधाना अन्याभावे सति तद्भावेऽपि च समर्पितसाटकं कुविन्दं तनिष्पादनमन्थरं प्रति आह-त्वर कोलिक ! ननिकाऽहमिति' १ । तथा औदे. शिकेऽप्यस्थिता एव, कथम् ?-इह पुरिमपश्चिमतीर्थकरसाधु उद्दिश्य कृतमशनादि सर्वेषामकल्पनीयं, तेषां तु यमुद्दिश्य कृतं तस्यैवाकल्पनीयं न शेषाणामिति २ । तथा शय्यातरराजपिण्डद्वारम् ,-पिण्डग्रहणमुभयत्र संबध्यते, तत्र शय्यातरपिण्डे स्थिता एव, शय्यातरपिण्डोहि यथा पुरिमपश्चिमतीर्थकरसाधूनां अकल्पनीयः, एवं मध्यमतीर्थकरसाधूनामपि ३।राज पिण्डे चास्थिताः, कथम्!-स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावात् गृह्यते ४।तथा कृतिको वन्दनमाख्यायते, तत्रापि स्थिताः, कथम् ? यथा पुरिमपश्चिमतीर्थकरसाधूनां प्रभूतकालप्रव्रजिता अपि संयत्यः पूर्व वन्दनं कुर्वन्ति, एवं तेषामपि, यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि ५ । व्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवः व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह-तेषां हि मैथुनविरतिवयोनि चत्वारि ब्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथाच नापरिगृहीता योषित् उपभोक्तुं पार्यते ६ । तथा ज्येष्ठेति-ज्येष्ठपदे स्थिता एव, किन्तु पुरिमपश्चिमतीर्थकरसाधूनां उपस्थापनया ज्येष्ठः, तेषां तु सामायिकारोपणेनेति । तथा प्रतिक्रमणे अस्थिताः, पुरिमपश्चिमसाधूनां नियमेनोभयकालं प्रतिक्रमणं, तेषां तु भनियमः, दोषाभावे सर्वकालमप्यप्रतिक्रमणमिति ८ । तथा मासपर्युषणाकल्पद्वार,-तत्र मासकल्पेऽप्यस्थिताः, कथम् -पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युपणाकल्पोऽपि वकव्यः, एतदुक्तं भवति-तस्मिन्नपि अस्थिता एव ९-१०-इति समुदायार्थः, विस्तरार्थस्तु कल्पादवग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy