SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ॥५२॥ मावश्षक-हारिभद्रीयवृत्तिः उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसंबन्धा एवेति, तत्र व्याख्या-प्रथमा एव प्रथमिल्लुकाः, देशीवचनतो जहा 'पढमिल्ला एत्थ घरा' इत्यादि, तेषां प्रथमिल्लुकाना-अनन्तानुबन्धिनां क्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् क्षपणक्रमावेति, उदयः-उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता तस्मिन् उदये, किम् ?'नियमात्' नियमेनेति, अस्य व्यवहितपदेन सा संबन्धः, तं च दर्शयिष्यामः, इदानीं पुनः प्रथमिल्लुका एव विशिज्यन्ते--किविशिष्टानां प्रथमिडकानां -कमेणा तत्फलभूतेन संसारेण वा संयोजयम्तीति संयोजना:, संयोजनाचते कपायाश्चेति विग्रहः तेषामुदये, किम् -नियमेन सम्यक्-अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभ:-प्राप्तिः सम्यग्दर्शनलाभा तं, भवे सिबिर्येषां ते भवसिद्धिकाः । आह-सर्वेपामेव भवे सति सिद्धिर्भवति ?, उच्यते, एवमेतत् , किंतु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि 'न लभन्ते' न प्रामुवन्ति, अपिशब्दाद् अभव्यास्तु नैष, अथवा परीतसं. सारिणोऽपि नैवेति गाथार्थः ॥ १०८॥ विपकसायाणुदए अपचक्लाणनामधेजाणं । सम्मइंसणलं विरयाविरई न उ लहंति ॥१०९॥ व्याख्या-दितीया' इति देशविरतिलक्षणद्वितीयगुणपातित्वात् क्षपणक्रमाछा, 'कषाया' इति 'कष गतौ' इति कषशब्देन कर्माभिधीयते, भवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः, द्वितीयाश्च ते कषायाश्चेति समासः, तेषां, 'उदयः' इति अस्य पूर्ववदर्थः, किं विशिष्टानां ?-'अप्रत्याख्याननामधेयाना' न विद्यते देशविरतिसर्वविरतिरूपं प्रस्याख्यानं येषु उदयप्राप्तेषु सत्सु ते अप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ् द्रष्टव्यः, अप्रत्याख्याना एव नामधेयं येषां ते तथाविधाः तेषामुदये सति, किम् ?-सम्यग्दर्शनलाभ, भन्या लभन्ते इति शेषः, अयं च वाक्यशेषो विरताविरतिविशेषणे तुशब्दसंखूचितो इष्टव्यः, तथा चाह-विरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्ती सा तथोच्यते, देशविरतिरित्यर्थः, तां विरताविरतिं नतु लभन्ते, तुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थः ॥१०९॥ तइराकसायाणुदए पञ्चकवाणावरणनामधिजाणं । देसिकदेसविरई चरित्तलंभ न उ लहंति ॥ ११०॥ व्याख्या-सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, 'कषायाः' पूर्ववत् , तृतीयाश्च ते कपायाश्चेति समासः, कषायाः क्रोधादय एष चत्वारस्तेषां 'उदय' इति पूर्ववत्, किंविशिष्टानां ?-आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं तस्यावरणाः प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषां । आह-नम्बप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीत्युकं, ना प्रतिपिद्धत्वात् , इहापिच आवरणशब्देन प्रत्याख्यानप्रतिषेधात् क एषां प्रतिविशेष इति, उच्यते, तत्र नञ् सर्वनिषेधवचनो वर्तते, इह पुनः आगे मर्यादेषदर्थवचनस्वात् ईष. न्मर्यादया वाऽऽवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्तते न देशविरतिनिषेधे खस्थावरणशब्द इति, तथा चाह-देशश्चैकदेशश्च देशैकदेशी, तत्र देशः-स्थूरमाणातिपातः, एकदेशः तस्यैव यथादृश्यवनस्पतिकायातिपातः, तयोः विरति:-निवृत्तिः ता, लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः चारित्रविशेषणे तुशब्दाक्षिप्त एव द्रष्टव्यः, यत आह-'चारित्र' इति 'चर गतिभक्षणयो' रिति, अस्य 'अर्तिलू सूखनिसहिचर इत्रः' (पा.३-२-१८४) इतीत्रप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रंक्षयोपशमरूपं तस्य भावश्चारित्रं, एतदुक्तं भवति-इहान्यजन्मोपात्ताएविधकर्मसंचयापचयाय चरणं चारित्रं, सर्वसावधयोगनिवृत्तिरूपा क्रियेत्यर्थः, तस्य लाभश्चा तुशब्दाद्देशैकदेशविरतिं तु लभन्त एवेति गाथार्थः ॥ ११ ॥ इदानीममुमेवार्थमुपसंहरनाह मूलगुणाणं लंभ न लहइ मूलगुणघाइणं उदए । उदए संजलणाणं न लहर चरणं अहक्खायं ॥ १११ ॥ व्याख्या-मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमहानताणुव्रतरूपाः तेषां मूलगुणानां लाभ 'न लभते' न प्राप्नोति, कदेति आह-मूलगुणान् घातयितुं शीलं येषां ते मूलगुणघातिनः तेषां मूलगुणघातिनां-अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा ईषद् ज्वलनात् संज्वलनाः सपदि परीषहादिसघातज्वलनाद्वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः तेषां संज्वलनानामुदये न लभते चारश्चरणं, भावे ल्युटप्रत्ययः, लब्धं वा त्यजति, किं सर्वम् ?-नेत्याह-यथैवाख्यातं यथाख्यातं इति अकषायं, सकपायं तु लभते एवेति ॥१११॥ न च यथाख्यातचारित्रमात्रोपघातिन एव संज्वलनाः, किंतु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धे, तथा चाहसव्वेविअ अइयारा संजलणाणं तु उदयओ हुँति । मूलच्छिन्नं पुण होइ बारसण्हं कसायाणं ॥११२॥ व्याख्या-'सर्वे' आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपिच, अतिचरणान्यतिचाराः चारित्रस्खलनाविशेषाः, संज्वलनानामेवोदयतो भवन्ति, तुशब्दस्य एवकारार्थत्वात् द्वादशानां पुनः कषायाणां उदयतः, किम् ?-मूलच्छेद्यं भवति, एवं पदयोगः कर्त्तव्यः, 'मूलेन' अष्टमप्रायश्चित्तेन 'छिद्यते' विदार्यते यहोषजातं तन्मूलच्छेद्यं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy