SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥४८॥ भाषावक-हारिभद्रीयवृत्तिः प्रसज्यते, प्रत्येकमभावात् , सिकतातैलवत्, अनिष्टं चैतदिति, अत्रोच्यते, समुदायसामर्थ्य हि प्रत्यक्षसिद्धं, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते एव, न तु सिकतासु तैलं, न च दृष्टमपह्रोतुं शक्यते, एवमाभ्यामदृष्टकार्यसिशिरप्यविरुद्धैव, तस्माद्यत्किश्चिदेतत् । तथा किञ्च-न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात् , देशोपकारित्वमभ्युपगम्यत एव, यत आह-- संजोगसिहीइ फलं वयंति, नहु एगचशेण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥ १०२॥ व्याख्या-किंतु तदेव समुदायं समग्रत्वादिष्टफलसाधकं, केवलं तु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण, उक्तसंबन्धगाथाव्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं 'समेत्ये'त्युक्तेऽपि ती संप्रयुक्ता' विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति । एत्थं उदाहरणं-एगमि रण्णे रायभएण णग सिय लोगो ठितो, पुणोवि धाडिभयेण ये वहणाणि उज्झिअ पलाओ, तत्थ दुवे अणाहप्पाओ, अंधो पंग य, उज्झिया, गयाए धाडीए लोगग्गिणा वातेण वणदवो लग्गो, ते य भीया, अंधो छट्टकच्छो अग्गितेण पलायइ, पंगुणा भत्रोदाहरणं-एकस्मिारण्ये राजभयेम नगरात् बदस्य (पदुष्य)लोकः स्थिता, पुनरपि पाटिभयेन च वाहनानि जिझस्वा पलायितः, तत्र द्वावनाथारमानौ (यप्रायौ), अन्धः पङ्गुश्च समिती, गतायां धाव्या लोकाग्निना बातेन वनदयो लनः, तौ च भीती, अन्धः छुहकछोऽनिमार्गेण पलायते पङ्गुना. * पुत्थ. + पवहणाणि. 1 छुट्टकस्यो.. भणितं-अंध ! मा इतो णास णं, इतो चेव अग्गी, तेण भणितं-कुतो पुण गच्छामि ?, पंगुणा भणित-अहंपि पुरतो अतिदूरे मग्गदेसणाऽसमत्थो पंगू, ता में खंधे करेहि, जेण अहिकंटकजलणादि अवाए परिहरावेतो सुहं ते नगरं पावेमि, तेणं तहत्ति पडिवज्जिय अणुठितं पंगुवयणं, गया य खेमेण दोवि णगरं ति । एस दिहतो, अयमत्थोवणओ-णाणकिरियाहिं सिद्धिपुरं पाविजइत्ति । प्रयोगश्च-विशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः, सम्यक्रियोपलब्धिरूपत्वात्, अन्धपझ्योरिव नगरावाप्तिरिति । यः पुनरभिलपितफलसाधको न भवति, स सम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्ट गमनक्रियावकलविघटितैकचक्ररथवदिति व्यतिरेकः ॥१०२॥ आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषेण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवातवद् इति, अत्रोच्यते, भिन्नस्वभावतया, यत आहणाणं पयासगं सोहओ तवो संजमो य गुतिकरो। तिण्हपि समाजोगे मोक्खो जिणसासणे भणिओ ॥१०॥ व्याख्या-तत्र कचषरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः। तत्र ज्ञायतेऽनेनेति ज्ञानं, तच्च प्रकाशयतीति प्रकाशकं, तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तपःसंयमरूपत्वाद् इत्थमुपकुरुते भणित-अन्ध ! मा इतो नेशः, इत एवाग्निः, तेन भणितं-कुतः पुनर्गच्छामि, पगुना भणितं-अहमपि पुरतोऽतिदूरे मार्गदेशनाऽसमर्थः पहुः, तत् मां स्कन्धे कुरु, येनाहिकण्टकादीन् अपायान् परिहारयन् सुखं त्वां नगरं प्रापयामि, तेन तथेति प्रतिपद्यानुष्ठितं पहुवचनं, गतौ च क्षेमेण द्वावपि नगरमिति, एष दृष्टान्तः, अयमत्रोपनयः-ज्ञानक्रियाभ्यां सिद्धिपुरं प्राप्यत इति. * दसणा. + वारिति. .रूपो. 1 इह ग.. शोधयतीति शोधकं, किं तदिति, आह-तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तरस्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत् , तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रयद्वारविरमणमितियावत्, पशब्दः पृथग् ज्ञानादीनां प्रकान्तफलसिद्धौ भिन्नोपकारकर्तृत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां तिन् (पा. ३-३-९४) आगन्तुककर्मकचवरनिरोध इतिहृदयं, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकमेकच गमनिरोधतयैवोपकुरुते, तत्स्वभावत्वात् , गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादिस्थगनवत्, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा संभावने, किं संभावयति ?-'त्रयाणामपि' ज्ञानादीनां, किंविशिष्टानां ?-निश्चयतः क्षायिकानां, न तु क्षायिकोपशमिकानामिति, 'समायोगे' संयोगे 'मोक्ष' सर्वथाऽष्टविधकर्ममलवियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन् , 'भणितः' उक्तः। आह–'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः॥१०३ ॥ इह यत् प्राक नियुक्तिकृताऽभ्यधायि 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्रामोति मोक्षं' इत्यादि प्रतिज्ञागाथासूत्रं, तत्रैव सूत्रसूचितः खल्वयं हेतुरवगन्तव्यः, कुतः-तस्यै क्षायोपशमिकत्वात्, अवधिज्ञानवत् इति, क्षायिकज्ञानाद्यवाप्तौ च मोक्षप्राप्तिरिति तत्त्वं, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाह ज्ञानविशेषरवसाधनाय. २ क्षायोपशमिकस्वरूपः. ३ श्रुतस्य अपिना गृहीतस्य मत्यादेश, अवधेस्तु दृष्टान्तत्वामात्र ग्रहः. ४ तथाच क्षायोपशमिके ज्ञानकिये क्षायिकशानाचवा सिद्वारा मोक्षसाधनमिति. ५ श्रुतज्ञाने वर्तमानस्य मोक्षामवाप्ले:. * सम्यग् योगः समायोगः तस्मिन् मो०. + षरूपरवात. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy