SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ मावश्यक-हारिभद्रीयवृत्तिः ॥४७॥ व्याख्या-येन प्रकारेण यथा, 'छेको' दक्षः, लब्धा-प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराधिष्ठितोऽपि, वणिज इष्टा वणिगिष्टा तां भूमि, महार्णवं तरितुं वातेन विना पोतो न शक्नोति, प्राप्तमिति वाक्यशेषः ॥९५॥ तथा श्रुतज्ञानमेव लब्धो निर्यामको येन-जीवपोतेनेति समासः, अपिशब्दात्सुनिपुणमतिज्ञानकर्णधाराधिष्ठितोऽपि, शेष निगदसिद्धं, किन्तु 'निपुणोऽपि' पण्डितोऽपि, श्रुतज्ञानसामान्याभिधाने सत्यपि तदतिशयख्यापनार्थ निपुणग्रहणं, तस्मात् तपःसंयमानुष्ठाने खल्वप्रमादवता भवितव्यमिति गाथाद्वयार्थः ॥९६ ॥ तथा चेहौपदेशिकमेव गाथासूत्रमाह नियुक्तिकारः संसारसागराओ उब्बुड्डो मा पुणो निबुडिजा । चरणगुणविप्पहीणो बुइ सुबहुंपि जाणतो ॥९७ ॥ पदार्थस्तु दृष्टान्ताभिधानद्वारेणोच्यते-यथा नाम कश्चित्कच्छपः प्रचुरतृणपत्रात्मकनिश्छिद्रपटलाच्छादितोदकान्धकारमहाहदान्तर्गतानेकजलचरक्षोभादिव्यसनव्यथितमानसः परिभ्रमन्कथञ्चिदेव पटलरन्ध्रमासाद्य विनिर्गत्य च ततः शरदि निशानाधकरस्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकृष्टचित्तः तेषामपि तपस्विनामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामि इत्यवधार्य तत्रैव निमग्नः, अथ समासादितबन्धुः तद्रन्ध्रोपलब्ध्यर्थ पर्यटन् अपश्य॑श्च कष्टतरं व्यसनमनुभवति स्म । एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलसमाच्छादितान्मिथ्यादर्शनादितमोऽनुगतात् विविधशारीरमानसाक्षिवेदनज्वरकुष्ठभगन्दरेष्टवियोगानिष्टसंप्रयोगादिदुःखजलचरानुगतात्, संसरणं संसारः, भावे घञ्प्रत्ययः, स एव सागरस्तस्मात् , परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्राप्या उन्मग्नः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजनस्नेहविषयांतुरचित्ततया मा पुनः कूर्मवत् तत्रैवं निमजेत् । आहअज्ञानी कूर्मो निमज्जत्येव, इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमज्जति इति, उच्यते, चरणगुणैः विविधम्-अनेकधा प्रकर्षेण हीनः चरणगुणविप्रहीण: निमजति बह्वपि जानन्, अपिशब्दात् अल्पमपि, अथवा निश्चयनयदर्शनेन अज्ञ एवासौ, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः ॥ ९७ ॥ प्रक्रान्तमेवार्थ समर्थयन्नाहसुषहुंपि सुयामहीयं किं काही? चरणविप्पाहीणस्स।अंधस्स जह पलिता दीवसयसहस्सकोडीवि ॥ ९८॥ अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स । इकोवि जह पईवो सचक्खुअस्सा पयासेइ ॥ ९९ ॥ गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्राणि दीपशतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दावे अपि ॥९८-९९ ॥ आह-इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्रामोति, उच्यते, इष्यत एव, यत आह ____ जहा खरो चंदणभारवाही, भारस्स भागी नहु चंदणस्स। ___ एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सो गईए ॥१०॥ गमनिका-यथा खरः चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी घरणेन हीनः ज्ञानस्य भागी 'नतु' * यानुरक्त०. + त्रैव म्य. + महिय. 1 मुक्कस्स. 1 कोब्यपि. 1 त्तट्टे भपि. " सुग्गईए. नैव 'सुगते' सिद्धिदयिताया इति गाथार्थः ॥ १०॥ इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरः, क्रियायां च तच्छून्यायामपि पक्षपात इति, अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह इयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दहो, धावमाणो अ अंधओ ॥१०१॥ इयं निगदसिद्धैव, वरं उदाहरणं-एगमि महाणगरे पलीवणं संवुत्तं, तंमि ये अणाहा दुवे जणा-पंगलो य अंधालो य, ते णगरलोए जलणसंभमुम्भंतलोयणे पलाय माणे पासंतो पंगुलओ गमणकिरियाऽभावाओ जाण ओऽवि पलायणमग्गं कमागएण अगणिणा दहो, अंधोऽवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतुं अगणिभरियाए खाणीए पडिऊण दड्डो। एस दिहतो, अयमत्थोवणओ-एवं नाणीवि किरियारहितो न कम्मग्गिणो पलाइउं समत्थो, इतरोऽविणाणरहियत्तणओ त्ति । अत्र प्रयोगौ भवतः-ज्ञानमेव विशिष्टफलसाधकं न भवति, सक्रियायोगशून्यत्वात्, नगरदाहे पङ्गुलोचनविज्ञानवद्, नापि क्रियैव विशिष्टफल साधिका, संज्ञानसंटङ्करहितत्वात् , नगरदाह एव अन्धस्य पलायनक्रियावत् ॥ १०१॥ आह-एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकसामथ्यानुपपत्तिः परमुदाहरण-एकस्मिन् महानगरे प्रदीपनं संवृत्तं, तसिंश्च अनायौ द्वौ जनौ-अन्धः पश्च, सौ नगरलोकान् ज्वलनसंभ्रमोहान्तलोचनान् पलायमापान् पश्यन्ती पडः गमनक्रियाऽभावातू जानन्नपि पलायनमार्ग क्रमागतेनामिना दग्धः अन्धोऽपि गमनक्रियायुक्तः पलायनमार्गमजानन् त्वरितं ज्वलनास्तिके (ज्वलनमार्गण) गत्वाऽग्निभृतायां खनौ (भृतेऽवटे) पतित्वा दग्धः । एष दृष्टान्तः, अयमत्रोपनयः (०मर्थोपनयः)-एवं ज्ञान्यपि क्रियारहितो न कर्मानः पलायितुं समर्थः, इतरोऽपि ज्ञानरहितत्वात् इति. * वणगं. + तम्मिवि. पंगुलमो अंधलोय. भंधओ य. 16माणे संते पं०. इजाणतोऽवि. || नाणी..हितो उण असमस्यो. प्रसाधकं.*०प्रसाधिका. सज्ज्ञान.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy