________________
भावश्यक-हारिभद्रीयवृत्तिः चा प्रवचनं सद्धस्तदर्थमिति गाथार्थः॥९॥प्रयोजनान्तरप्रतिपिपादयिषयेदमाह
घिसुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव । एएहि कारणेहिं जीयंति कयं गणहरोहिं॥९॥ व्याख्या-'ग्रहीतुं च' आदातुं च ग्रथितं सत्सूत्रीकृतं सुखं भवति अर्हद्वचनवृन्द, कुसुमसंघातवत्, 'च' समुच्चये, एतदुक्तं भवति-पदवाक्यप्रकरणाध्यायप्राभृतादिनियतक्रमस्थापितं जिनवचनं अयलेनोपादातुं शक्यते, तथा गणनं च धारणा च गणनधारणे ते अपि सुखं भवतः प्रधिते सति, तत्र गणनं-एतावदधीतं एतावच्चाध्येतव्यमिति, धारणा अप्रच्युतिः अविस्मृतिरित्यर्थः, तथा दातुं प्रष्टुं च, 'सुख' इत्यनुवर्तते, 'चः' समुच्चय एव, एवकारस्य तु व्यवहितः संटङ्कः, ग्रहीतुं सुखमेव भवतीत्थं योजनीयं, तत्र दान-शिष्येभ्यो निसर्गः, प्रश्नः-संशयापत्ती असंशयार्थ विद्वत्सन्निधौ स्ववि. वक्षासूचकं वाक्यमिति, 'एभिः कारणैः' अनन्तरोक्तहेतुभूतैः 'जीवितं' इति अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव 'जीय'ति
प्राकृतशैल्या 'कृतं' रचितं गणधरैः, अथवा जीतमिति अवश्यं गणधरैः कर्त्तव्यमेवेति, तन्नामकर्मोदयादिति गाथार्थः ॥९१॥ .. आह-तीर्थकरभापितान्येव सूत्र, गणधरसूत्रीकरणे तु को विशेष इति, उच्यते, स हि भगवान् विशिष्टमतिसंपन्नगणधरापेक्षया प्रभूतार्थमर्थमात्र स्वल्पमेव अभिधते, न वितरजनसाधारणं ग्रन्थराशिमिति, अत आह
थं भासह अरहा सत्तं गंथंति गणहरा निउणं । सासणस्स हियद्वाए तओ मुस्सं पवत्तह॥९२॥ गाथेयं प्रायो निगदसिद्धैव, चालना प्रत्यवस्थानमात्रं त्वभिधीयते-कश्चिदाह-अर्थोऽनभिलाप्यः, तस्य अशब्दरू
* शक्यं. + दातुं. * मत एवाह । एतदेवाह. + तिथं. चालन.. रूपत्वात् , अतस्तं कथमसौ भाषत इति, उच्यते, शब्द एव अर्थप्रत्यायनकार्यत्वाद् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, 'निपुणं' सूक्ष्म बह्वर्थ च, नियतगुणं वा निगुणं, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा 'गणहरा निपुणा निगुणा वा' ॥ ९२॥ आह-शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थे, गणभृतोऽपिच शब्दात्मकमेव श्रुतं अशान्ति, कः खल्वत्र विशेष इति, उच्यते, गाथा संबन्धाभिधान एव विहितोत्तरत्वात् यत्किञ्चिदेतत् । आह-तत्पुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति, उच्यतेसामाइयमाईयं सुयनाणं जाव बिन्दुसाराओ। तस्सवि सारो चरणं सारो घरणस्स निव्वाणं ॥९३ ॥
व्याख्या-सामायिकमादौ यस्य तत्सामायिकादि, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं 'यावद्विन्दुसाराद्' इति बिन्दुसारं यावत् बिन्दुसारपर्यन्तमित्यर्थः, यावच्छब्दादेव तु ध्यनेकद्वादशभेदं, 'तस्यापि श्रुतज्ञानस्य 'सारः' फलं प्रधानतरं वा, चारश्चरणं भावे ल्युट्प्रत्ययः, चर्यते वा अनेनेति चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्तते, अपि. शब्दात् सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, चरणस्यैव ज्ञानरहितस्यापि स्याद, अनिष्टं चैतत्, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वार्थे अ०१सू०१) इति वचनात् , इह त्वनन्तरफलत्वाचरणस्य तदुपलब्धिनिमित्तत्वाच्चै श्रुतस्य निर्वाणहेतुत्वसामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्थमुपन्यास इति, अलं विस्तरेण, 'सार' फलं 'चरणस्य'
१ अत्थप्पञ्चायणफलंमित्ति (विशे. ११२०) इति कार्यशब्दोऽत्र फलार्थकः. २ शैलेझ्यवस्थारूपधरणावाप्लेरनन्तरं मोक्षावाप्तः, क्षायिकज्ञानप्राप्तेरनन्तरं तुन, देशोनपूर्वकोटीविहरणादुस्कृष्टतो दर्शन तु चतुर्थेऽपि, न च तदनन्तरमपि तदाप्तिः. ३ ज्ञानस्य फलं विरतिरिति पढमं नाणं तो दया इत्यादिवचनात्
गाथार्थसंबन्धा.. संयमतपोरूपस्य, निवृतिनिर्वाणं-अशेषकर्मरोगापगमेन जीवस्य स्वरूपेऽवस्थानं मुक्तिपदमितियावत्, इहापि नियमतः शैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि च निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात् , अत उक्तं-सारश्चरणस्य निर्वाणं इति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः ॥ ९३ ॥ तथा चाह नियुक्तिकारःसुअनाणंमिवि जीवो वहतो सो न पाउणइ मोक्खं । जो तवसंजममइए जोए न चएइ वोढुं जे ॥९४ ॥
गमनिका-'श्रुतज्ञाने अपि' इति अपिशब्दान्मत्यादिष्वपि जीवो वर्तमानः सन् न प्रामोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह-यस्तपःसंयमात्मकान् योगान्न शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति वा, प्रयोगश्च-'न ज्ञानमेव ईप्सितार्थप्रापकं, सक्रियाविरहात्, स्वदेशप्राप्त्यभिलाषिगमनक्रियाशून्यमार्गज्ञज्ञानवत् , सौत्रो वा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिक्संप्रापकपवनक्रियाशून्यपोतवत्, 'जे" इति पादपूरणे, 'इजेिराः पादपूरणे' इति वचनात् ॥ ९४ ॥ तथा चाहजह छेयलद्धनिजामओवि वाणियगइच्छियं भूमि । वारण विणा पोओ न चएइ महण्णवं तरिखं ॥१५॥ तह नाणलद्धनिजामओवि सिद्धिवसहिं न पाउणइ। निउणोवि जीवपोओ तवसंजममारुअवितणो ॥१६॥ * च. + नेतः परम्. + ए०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org