________________
मावावक-हारिभद्रीपवृत्तिः ततो मिगावती पजोयस्स उदयणकुमार णिक्खेवगणिक्खितं काऊण पबइआ, पजोअस्सवि अह अंगारवईपमुहाओ देवीओ पवइयाओ, ताणिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, एतं पसंगेण भणिअं, एत्थ इट्टगपरंपरएण अहि यारो, एस दषपरंपरओ॥ ८७॥ साम्प्रतं नियुक्तिशब्दस्वरूपाभिधानायेदमाहणिजुत्ता ते अत्था जं बडा तेण होइ णिजुत्ती । तहविय इच्छाइ विभासिउं सुत्सपरिवाडी ॥ ८८॥
व्याख्या-निश्चयेन सर्वाधिक्येन आदौ वा युक्ता नियुक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्या निर्युक्ता एव सूत्रे, 'यद्' यस्मात् 'बद्धाः' सम्यग् अवस्थापिता योजिता इतियावत्, तेनेयं नियुक्ति निर्युक्तानां युक्तिनियुक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य लोपः क्रियते, उष्टमुखी कन्येति यथा, नियुकार्थव्याख्या नियुक्तिरितिहृदयं । आह-सूत्रे सम्यक् निर्युक्ता एवार्थाः पुनश्चेहेषां योजनं किमर्थं १, उच्यते, सूत्रे निर्युकानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः । तथापि च सूत्रे निर्युकानपि सता एषयति-इषु इच्छायामित्यस्य ण्यन्तस्य लट् इति तिप्-शप-गुणायादेशेषु कृतेषु एषयति, विविध भाषितुं विभाषितुं, का ?-'सूत्रपरिपाटी' सूत्रपद्धतिरिति, एतदुक्तं भवति-अप्रतिबुध्यमाने श्रोतरि गुरुं तदनुग्रहार्थ सूत्रपरिपाव्येव विभाषितुमेषयति-इच्छत इच्छत मां प्रतिपादयितुमित्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरं, शिष्य एव गुरूंसनपद्धतिमनवबुध्यमानः प्रवर्तयति-इच्छत इच्छत मम
ततो सगावती प्रद्योत उदयनकुमारस निक्षेपनिक्षितं कृत्वा प्रत्रजिता, प्रद्योतस्याप्यष्टौ भारवतीप्रमुखाः देयः प्रबजिताः, सानि पञ्च चौरशतानि सेन गत्वा संबोधितानि । एतत् प्रसोन भणितं, मन्त्र इटकापरम्परकेणाधिकारः, एष व्रम्पपरम्परकः ॥ भावा सुयपरिवाडी सुभोवएसोऽयं (वि.) श्रुतस्य विधिरिति तदृत्तिः. * साध्वाधिक +०१ सूत्रे. सूत्रनि.सूत्रेऽनि. नेदम्. ६० वा. ||०मबुध्य.. व्याख्यातुं सूत्रपरिपाटीमिति, व्याख्या च नियुक्तिरिति, अतः पुनर्योजनमित्थमदोषायैवेति, अलं विस्तरेण, गमनिकामात्रमेवैतदिति गाथार्थः॥ ८८॥ यदुकं 'अर्थपृथक्स्वस्य तैः कथितस्येति' तीर्थकरगणधरैः, इदानीं तेषामेव शीलादिसंपरसमन्वितत्वप्रतिपादनायाहतवनियमनाणरुक्खं आरूढो केवली अमियनाणी । तो मुया नाणहि भवियजणवियोहणट्ठाए ॥ ८९॥ तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभासियाई गंति तओ पवयणट्ठा ॥९॥
प्रथमगाथाण्याख्या-रूपकमिदं द्रष्टम्यं, तत्र वृक्षो विधा-द्रव्यतो भावतश्च, द्रव्यवृक्षः कल्पतरुः, यथा तमारुह्य कचित् तस्कुसुमानां गम्पादिगुणसमन्वितानां संचयं कृत्वा तदधोभागसेविनां पुरुषाणां तदारोहणासमर्थानां अनुकम्पया कुसुमानि विसृजति, तेऽपिच भूपातरजोगुण्डनभयात् विमलविस्तीर्णपटेषु प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुञ्जानाः सुखमामुवन्ति, एवं भाववृक्षेऽप्यायोज्यं । तपश्च नियमच ज्ञानं च तपोनियमज्ञानानि तान्येव पक्षस, तत्र अनशनादिबाह्या. भ्यन्तरभेदभिन्नं तपः, नियमस्तु इन्द्रियनोइन्द्रियभेदभिन्ना, तत्र श्रोत्रादीनां संयमनमिन्द्रियनियमः क्रोधादीनां तु नोइन्द्रियनियम इति, ज्ञान-केवलं संपूर्ण गृह्यते, इत्यरूपं वृक्षं आरूढः, सत्र ज्ञानस्य संपूर्णासंपूर्णरूपत्वात् संपूर्णताख्यापनायाह-संपूर्ण केवलं अस्यास्तीति केवली, असावपि चतुर्विधः-श्रुतसम्यक्स्वचारित्रक्षायिकज्ञानभेदात्, अथवा श्रुतावधिमनःपर्यायकेवलज्ञानभेदात्, अतः श्रुतादिकेवलव्यवपिछत्तये सर्वज्ञावरोधार्थमाह-अमितज्ञानी, 'ततो' वृक्षात
* इत्थंभूतं. + बोधा. मुश्चति 'ज्ञानवृष्टिं' इति कारणे कार्योपचारात् शब्दवृष्टिं, किमर्थं ?-भव्याश्च ते जनाश्च भव्यजनाः तेषां विबोधनं तदर्थ तन्निमित्तमितियावत् । आह-कृतकृत्यस्य सतस्तविकथनमनर्थक, प्रयोजनविरहात्, सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाश्च भव्यानामेव विबोधनमनुपपन्न, अभव्याविबोधने असर्वज्ञस्वावीतरागस्वप्रसङ्गादिति, अत्रोच्यते, प्रथमपक्षे तावत् सर्वथा कृतकृत्यत्वं नाभ्युपगम्यते, भगवतः तीर्थकरनामकर्मविपाकानुभावात् , तस्य च धर्मदेशनादिप्रकारेणैवानुभूता, द्वितीयपक्षे तु त्रैलोक्यगुरोर्धर्मदेशनक्रिया विभिन्न स्वभावेषु प्राणिषु तत्स्वाभाब्यात् वियोधाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत्, उक्कं च वौदिमुख्येन-वद्वाक्यतोऽपि केषाश्चिदबोध इति मेऽद्भुतम् । भानोमरीचयः कस्य, नाम नालोकहेतवः ॥१॥ न चाद्भुतमुलूकस्य, प्रकृत्या क्लिष्टचेतसः। स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः॥२॥ इत्यादि" यथा वा सुवैद्यः साध्यमसाध्यं व्याधि चिकित्समान: प्रत्याचक्षाणश्च नातज्ज्ञः न च रागद्वेषवान् , एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्ज्ञो न च रागद्वेषवानिति अलं प्रसङ्गेनेति गाथार्थः॥ ८९॥ द्वितीयगाथाब्याख्या--'ता' इति तां ज्ञानकुसुमवृष्टिं, बुद्धिमयेनबुख्यात्मकेन, बुद्धिरेवारमा यस्यासौ बुद्ध्यात्मकस्तेन, केन ?-पटेन, 'गणधरा' प्रागुक्ताः 'ग्रहीतुं' आदातुं 'निरवशेषां' संपूर्णी ज्ञानकुसुमवृष्टिं, बीजादिबुद्धित्वाद्गणधराणां, ततः किं कुर्वन्ति ?-भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, ग्रनन्ति विचित्रकुसुममालावत्, किमर्थमि. त्याह-प्रगतं प्रशस्तं प्रधानमादौ वा वचनं प्रवचनं-द्वादशाईगणिपिटकं तदर्थ, कथमिदं भवेदितियावत्, प्रवक्तीति
श्रीमजिः सिद्धसेन दिवाकरपाद्वात्रिंशिकायामिति प्रसिद्धि:. .स्तस्कथन.. .भाषकरवात् भवात्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org