SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भावश्यक हारिभद्रीयवृत्तिः ॥४१॥ इन्द्रचक्रवर्तिप्रभृतयः तैर्महितः-पूजितः तं, तीरं 'अस्य वर्तमानकालावस्थायिनः तीर्थस्य इति गाथार्थः ॥ ८१॥ एवं तावदर्थवक्तुर्मङ्गालार्थ वन्दनमभिहितं, इदानीं सूत्रकत्तंप्रभृतीनामपि पूज्यत्वात् वन्दनमाह इकारसवि गणहरे पवायए पवयणस्स बंदामि । सव्वं गणहरवंसं वायगवंसं पवयणं च ॥ ८२॥ व्याख्या-'एकादश' इति संख्यावाचकः शब्दः, 'अपिः' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान , प्रकर्षेण प्रधाना आदौ वा वाचकाः प्रवाचकाः तान्, कस्य -'प्रवचनस्य' आगमस्येत्यर्थः, किं-वंदामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्व' निरवशेष, गणधरा:-आचार्यास्तेषां वंश:-प्रवाहस्तं, तथा वाचका-उपाध्यायास्तेषां वंशस्तं, तथा 'प्रवचनं च' आगमं च, वन्द इति योगः। आह-इह वंशद्वयस्य प्रवचनस्य च कथं बन्यतेति, उच्यते, यथा अर्थवक्ता अर्हन् वन्द्यः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतं, तवंशोs. प्यानयनद्वारेणोपकारित्वात् वन्ध एवेति, प्रवचनं तु साक्षात्स्यैवोपकारित्वादेव पन्धमिति गाथार्थः ॥ ८२ ॥ इदानी प्रकृतमुपदर्शयन्नाहते बंदिऊण सिरसा अस्थपुरत्तस्स तेहि कहियस्स । सुयनाणस्स भगवओ निजुसिं कित्तइस्सामि ॥ ८॥ व्याख्या-'तान्' अनन्तरोक्तान् तीर्थकरादीन् 'वन्दित्वा' प्रणम्य 'शिरसा' उत्तमान, किम् -नियुकिं कीर्तयिष्ये, कस्य ?-'अर्थपृथक्त्यस्य' तत्र श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् तदोषः पृथक्त्वं च अर्थश्च पृथक्त्वं चेति एकब चान् णिज उभयपदभावात्. २ तदेव पृथक्त्वमिति विशे० मलपगिरीबाचीच. * पन्दे. भावः, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृथुत्वं श्रुतविशेषणमेव तस्य, 'तैः' तीर्थकरगणधरादिभिः 'कथितस्य' प्रतिपादितस्य, कस्य -श्रुतज्ञानस्य भगवतः, स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजनं नियुक्तिः तां 'कीर्तयिष्ये' प्रतिपादयिष्ये इति गाथार्थः ॥ ८३ ॥ आह-किमशेषश्रुतज्ञानस्य १, न, किं तर्हि , श्रुतविशेषाणामावश्यकादीनामिति, अत एवाह आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे । सूपगडे निजुसिं वुष्यामि तहा दसाणं च ॥ ८४॥ कप्पस्स य निजुक्ति ववहारस्सेव परमणिउणस्स । सरिअपण्णत्तीए बुच्छ इसिभासिआणं च ॥ ८५॥ एतेसिं निर्सि बुच्छामि अहं जिणोवएसेणं । आहरणहेउकारणपयनिवहमिण समासेणं ॥८६॥ मासां गमनिका आवश्यकस्य दशवैकालिकस्य तथोत्तराध्ययनाचारयोः समुदायशब्दानामघयषे वृत्तिदर्शनातू यथा भीमसेनः सेन इति उत्तराध्य इति उत्तराध्ययनमबसेय, अथवाऽध्ययनमध्याय:, उत्तराध्यायाचारयो, सूत्रकृतविषयां नियुक्ति वक्ष्ये, तथा दशानां च संबन्धिनीमिति गाथार्थः ॥ ८४ ॥ तथा कल्पस्य च नियुक्तिं व्यवहारस्य च परमनिपु. णस्य, तत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं स्वयंसकत्वात् , तथा च न मन्वादिप्रणीतव्यवहारवयंसकोऽयं, "सब पइण्णा खुषवहारा" इति वचनात्, तथा सूर्यप्रशतेः वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां नियुक्ति, क्रियाभिधानं चानेकशः प्रन्थान्तरविषयत्वात् समासध्यासरूपत्वाच शाखारम्भस्य अष्टमेवेति गाथार्थः॥ ८५॥ एतेषां' श्रुतविशे संज्ञाऽप्येषा श्रुतस्येति वि.. पाणां, नियुकिं वक्ष्ये अहं जिनोपदेशेन, न तु स्वमनीषिकयैव, आहरणहेतुकारणपदनिवहां एतां समासेन, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं दृष्टान्त इतियावत्, साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः, हेतुमुलहस्य प्रथम दृष्टान्ताभिधान न्यायमदर्शनार्थ-कृषि तुमनभिधाय दृष्टान्त एवोच्यते इति, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युः पष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवत् , तथा क्वचिद्धेतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमबः विशिष्टचिहोपलब्ध्यन्यथानुपपत्ते, तथा चाभ्यधायि नियुक्तिकारेण-"जिणयणं सिद्धं चेव भण्णई करैथवी उदाहरणं । आसज उ सोयारं हेऊधि कहंचिय भणेजा ॥१॥ इत्यादि" । कारणमुपपत्तिमात्र, यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधप्रकर्षात् , नात्र आविदङ्गानादिलोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, तत्राहरणार्थाभिधायक पदमाहरणपदं, एवमन्यत्रापि भावनीयं । आहरणं च हेतुश्च कारणं च आहरणहेतुकारणानि तेषां पदानि आहरणहेतुकारणपदानि तेषां निवहः-संघातो यस्यां नियुक्तौ सा तथाविधा तां 'एतां' वक्ष्यमाणलक्षणां अथवा प्रस्तुतां 'समासेन' संक्षेपेणेति व्याख्यातं गाथात्रयमिति ॥८६॥ तत्र 'यथोद्देशस्तथा निर्देश' इति न्यायात् आदावधिकृताऽऽवश्यकाधाध्यियनसामायिकाल्योपोदूधातनियुक्तिमभिधित्सुराह__ सामाइयनिजुतिं वुच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुवीए ॥ ८७॥ व्याख्या-सामायिकस्य नियुकिः सामायिकनियुक्तिः तां 'वक्ष्ये' अभिधास्ये, उप-सामीप्येन देशिता उपदेशिता तां, १ जिनवच सिबमेव भण्यते कुत्रापि उदाहरणम् । नासाथ तु श्रोतारं हेतुमपि चितू भणेत् ॥१॥ * कहिंवि. + तथा तत्रोदा०. अिध्ययन.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy