SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ॥४०॥ भावश्यक-हारिभद्रीपवृत्तिः प्राणातिपातादिकारणपूर्वकत्वात् , तस्य च तद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात् , प्रागुपात्तस्य च विशिष्टक्रियास. व्यपेक्षाध्यवसायजन्यस्य तत्प्रत्येनीकक्रियासहगताध्यवसायसः क्षयोपपत्त, तरक्षयाभावे च भावतो भवतरणानुपपत्तेरिति । भावतीर्थे तु नोआगमतः संघः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक-"तित्थं भंते ! तिथं ! तिस्थकरे तित्या, गोयमा! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउचण्णो समणसंघो, पढमगणहरो वा "। तरिता तु तद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयं करणभावापन्नं तरणं, तरणीयो भवोदधिरिति । अथवा-पङ्कादाहपिपासा. नामपहारं करोति यत् । तद्धर्मसाधनं तथ्यं, तीर्थमित्युच्यते बुधैः ॥१॥ पङ्कस्तावत् पापं, दाहः कषायाः, पिपासा विषयेच्छा, एतेषामपहरणसमर्थ यदित्यर्थः, अथवा सुखावतारं सुखोत्तारं १ सुखावतारं दुरुत्तारं २ दुःखावतारं सुखो तारं ३ दुःखावतारं दुरुत्तार ४ मिति' द्रव्यभावतीर्थं द्रष्टव्यं, तच्च संरजस्कशाक्यबोटिकसाधुसंबन्धि विज्ञेयं, अलं प्रसङ्गेन । तथा भगः-समप्रैश्वर्यादिलक्षणः, उक्तं च-"ऐश्वर्यस्य समप्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयतस्य, पण्णां भग इतना ॥१॥" ततश्च समप्रैश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति तान् भगवतः । आह-तीर्थकरा मान्तरम. सभ्यन्तरमकस.प्राणातिपातादिकात्. ४ मिथ्यात्वाविकक्षण.५ सम्यग्दर्शनानुसारिणी. भाम्तरकर्मममक्षयाभावे. • तत्वतः भवतारणा० . तरथाइमयं सरस्त्राणं ॥ १... ॥ तचणियाणं वीर्य विसयसुहकुसस्थभावणाणिनं तवं च बोरियाणं चरिमं जहणं सिबर्फ mom (विशे.) तीर्थ भदन्त ! तीर्थ तीर्थकरस्तीर्थम्, गौतम! भईन् तावनियमातीर्थकरः तीर्थ पुनः चतुवर्णः श्रमणसहः प्रथमगणधरो वा । सैषाः "दिगम्बराः नसाधवः । भभिश्या.+ तक्षयाभावतो. + भवता. जमितीस्वं. निस्यनेनैव 'भगवत' इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तराषलम्बि. परिकल्पिततीर्थकरतिरस्कारपरत्वादस्येति, तथा च न तेऽविकलभगवन्तः, तान् भगवतो, वन्द इति क्रिया सर्वत्र योज्या। तथा परे-शत्रवः, ते च क्रोधाद्याः, आक्रमणमाक्रमः-पराजयः तदुच्छेद इतियावत्, परेषामाक्रमः पराक्रमा, सोऽनुत्तर:-अनन्यसहशो येषां ते तथाविधाः । आह-ये खलु ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगयोगाभावात् , ततश्च 'अनुत्तरपराक्रमान्' इत्येतदतिरिच्यते इति, अत्रोच्यते, अनादिशुद्धैश्वर्या दिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रमत्वमन्तरेणैव कैश्चित् हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यत इति, उक्तं च-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पते। ऐश्वर्यं चैव धर्मध, सहसिद्धं चतुष्टयम् ॥१॥” इत्यादि, अकात्मवादव्यवच्छेदार्थ वा । अमितं-अपरिमितं ज्ञेयानन्तत्वात् केवलं, अमितं ज्ञानं एषामित्यमितज्ञानिनः । आह-येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिपरिक्षयोत्तरकालभाविस्वाद अमितज्ञानस्येति, उच्यते, सत्यमेतत् , किं तु क्लेशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वात् उपन्यास इति, तथा चाहुरेके-" सर्व पश्यतु वा मा वा, इष्टमथं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ? ॥१॥ इत्यादि", स्वसिद्धान्तप्रसिद्धच्छास्थवीतरागव्यवच्छेदार्थ वा । तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान तीर्णान् , तीर्खा च भवौघं 'सुगतिगतिगतान्' तत्र सर्वज्ञत्वात्सर्वदर्शित्वाञ्च निरुपमसुखभागिनः सुगतयः-सिद्धाः, तेषां अविकलभगवत इति. * सिद्धेश्व०+- विक्षयो. गतिः सुगतिगतिः, अनेन तिर्यनरनारकामरगतिव्यवच्छेदेन पञ्चमीमोक्षगतिमाह, तां गताः प्राप्ताः तान् , अनेन चावाप्ताणिमाद्यष्टविधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्वप्रतिपादनपरनयवादव्यवच्छेदमाह, तथा च केचिदाहुः“अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदस्तरम् ॥१॥ इत्यादि" तथा सिद्धः तस्या एव सुगतेः पन्थाः सिद्धिपथः तस्य प्रधाना देशकाः तद्बीजभूतसामायिकादिप्रतिपादकत्वात् प्रदेशकाः, अनेन त्वनवद्यानेकसत्त्वोपकारकतीर्थकरनामकर्मविपाकपरिणामवत् तत्स्वरूपमेवाह , तान् 'वन्दे' अभिवादये इति गाथार्थः ॥८॥ एवं तावदविशेषेण ऋषभादीनां मङ्गलार्थ वन्दनमुक्तं, इदानीं आसन्नोपकारित्वात् वर्तमानतीर्थाधिपतेः अखिलश्रुतज्ञा. नार्थप्रदर्शकस्य वर्धमानस्वामिनो वन्दनमाहवंदामि महाभाग, महामुणिं महायसं महावीरं । अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स ॥८॥ व्याख्या-तत्र वन्दामीत्यादि दीपकं अशेषोत्तरपदानुयायि द्रष्टव्यं । तत्र भागः-अचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागः तं, तथा मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात् , महाँश्चासौ मुनिश्च महामुनिः तं, त्रैलोक्यव्यापित्वात् महद्यशोऽस्येति महायशाः तं, 'महावीरं' इत्यभिधानं, अथवा 'शूर वीर विक्रान्तौ' इति कायादिशत्रुजयान्महाविक्रान्तो महावीरः, अत्यन्तानुरक्तकेवलामलश्रिया विराजत इति वा वीरः, उक्कं च-"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥" अमराश्च नराश्च अमरनरास्तेषां राजानः मयं महोपकारकं च वन्दे (विशे० वृत्तौ ) * कर. + अनन्यानुरक. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy