SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ॥ ३९ ॥ मावश्यक हारिभद्रीयवृत्तिः मस्य समत्रतारः, एवं परोभयसमयप्रतिपादकाध्ययनानामपि, यतः सर्वमेव सम्यग्दृष्टिपरिगृहीतं परसमयसंबन्ध्यपि सम्यक् श्रुतमेत्र, तस्य स्वसमयोपकारकत्वादिति । इदानीमर्थाधिकारः स चाध्ययनसमुदायार्थः, स्वममयवक्तव्यतैकदेशः, स च सर्वमावद्ययोगविरतिरूपः । इदानीं समवतारः, स च लाघवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव । उक्त उपक्रमः, इदानीं निक्षेपः, स च त्रिधा - ओघनिष्पन्नो १ नामनिष्पन्नः २ सूत्रालापक निष्पन्नश्चेति ३ । तत्र ओघो नाम यत् सामान्यं शास्त्राभिधानं, तश्चेह चतुर्विधमध्ययनादि, पुनः प्रत्येकं नामादिचतुर्भेदमनुयोगद्वारानुसारतः प्रपशेनाभिधाय भावाध्ययनाक्षीणादिषु सामायिकमायोज्यं । नामनिष्पन्ने निक्षेपे सामायिकं तच्च नामादिचतुर्विधं, इदं च निरुक्तिद्वारे सूत्रस्पर्शिक निर्युक्तौ च प्रपश्चेन वक्ष्यामः, आह-यदि तदिह नाम अवसरप्राप्तं किमिति निरुक्तया - दावस्य स्वरूपप्रतिपादनं, तत्र चेत्स्वरूपाभिधानमस्य हन्त इहोपन्यासः किमिति, अत्रोच्यते, इह निक्षेपद्वारे निक्षेपमात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येति, आह-- इत्थमपि निरुक्तिद्वारे एव सामायिकव्याख्यानतः किं पुनः सूत्रेऽभिधीयते इति उच्यते, तत्र हि सूत्रालापकव्याख्यानं, न तु नाम्नः, निरुक्तौ तु निक्षेपद्वारन्यस्तं सामायिकमित्यध्ययनाभिधानं निरूप्यते, अलं ' प्रपश्चेन, उक्तो नामनिष्पन्नो निक्षेप', इदानीं सूत्रालापक निष्पन्नस्य निक्षेपस्यावसरः, स प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् १, सूत्राभावात्, असति च सूत्रे कस्यालापकनिक्षेप इति, अतोऽस्ति इतः तृतीय १ आदिनाऽक्षीणायक्षपणाग्रहणं 'अन्यणं अक्षीणं आभो झवणा य पत्तेयं' ति वचनात् २ उपोद्घातनिर्युक्तौ ३ इतः परं. *० कारित्वात्. + सावध ० + प्रसङ्गेन. मनुयोगद्वारमनुगमाख्यं, तत्रैव निक्षेप्स्यामः । आह - यदि प्राप्तावसरोऽप्यसांविह न निक्षिप्यते किमित्युपन्यस्य ते इति, उच्यते, निक्षेपसामान्यात् इह प्रदर्श्यत एव न तु प्रतन्यते इति । इदानीमनुगमावसरः, स च द्विधा-निर्युक्तयनुगमः सूत्रानुगमश्च निर्गुक्तयनुगमस्त्रिप्रकारः, तद्यथा - निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त नुगमश्चेति, तत्र निक्षेपनिर्युक्तयनुगमोऽनुगत एव यदधो नामादिन्यासान्वाख्यान मुक्तमिति । इदानीमुपोद्घातनिर्युक्तयनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षण इति, अस्य च महार्थत्वान्मा भूद्विन इति आरम्भे मङ्गलमुच्यते । आह- ननु मङ्गलं प्रागेवोक्तं, भूयः किं तेन ?, अथ कृतमङ्गलैरपि पुनरभिधीयते, इत्थं तर्हि प्रतिद्वारं प्रत्यध्ययनं प्रतिसूत्रं च वक्तव्यमिति । अत्राह कश्चित् - मङ्गलं हि शास्त्रस्यादौ मध्येऽवसाने चेति प्रतिपादितं तत्रादिमङ्गलमुक्तं, इदानीं मध्यमङ्गलमुच्यते, तन, अनारब्ध एव शास्त्रे कुतो मध्यावकाश इति, स्यादेतत्, चतुरनुयोगद्वारात्मकं यतः शाखं, rasaयोगद्वारद्वये ह्यतिक्रान्ते मध्यमङ्गलं, अत एव चानुयोगद्वाराणां शास्त्राङ्गतेति, नन्वेवमपि इदं शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात्, शास्त्रमध्ये च मध्यमङ्गलावसर इति, तस्माद् यत्किश्चिदेतत् ततश्चायं स्थितपक्षः - इह यदादौ मङ्गलं प्रतिपादितं तदावश्यकादिमङ्गलं, इदं तु नावश्यक मात्र स्य, सर्वानुयोगोपोद्घातनिर्युक्तिस्वात् प्रक्रान्तोपोद्घातस्य, वक्ष्यति च - " आवस्सगस्स दसकालियरस तह उत्तरज्झमायारे । 'सूयगडे निजुत्ती, वोच्छामि तहा दसाणं १ आवश्यक सामायिकादीनां न्यासाख्यानात् निक्षेपस्थाने नाना कीर्त्तनमत्र तु व्याख्यानमिति. २ आवश्यकस्म दावैकालिकस्य तथा उत्तराध्याय आधारे । सूत्रकृते निर्युक्तिं वक्ष्यामि तथा दशाश्रुतस्कन्धस्य च । १ नन्वित्थमपि + स्थितिपक्षः स्थितः पक्षः सुतगडे । निजसिं. च ॥ १ ॥ इत्यादि, तथा " सेसेसुवि अज्झयणेसु, होइ एसेव निज्जुत्सी " चतुर्विंशतिस्तवादिष्विति वक्ष्यति, अतो महार्थत्वात् कथञ्चित् शास्त्रान्तरत्वाच्चास्यारम्भे मङ्गलोपन्यासो युक्त एवेति, आह - सामायिकान्वाख्यानेऽधिकृते को हि दवैकालिकादीनां प्रस्ताव इति, अत्रोच्यते, उपोद्घातसामान्यात्, यतस्तेषामपि प्रायः खल्वयमेवोपोधात इति, अलं + प्रपश्वेन । तच्चेदं मङ्गलम् - तित्थयरे भगवंते, अणुत्तरपरक्कमे अमियनाणी । तिष्णे सुगइगइगए, सिद्धिपहपदेसए वंदे ॥ ८० ॥ गमनिका - तीर्थकरणशीलास्तीर्थकराः तान् वन्द इति योगः, तत्र 'तु प्लवनतरणयोः' इत्यस्य 'पातुविचि सिचिरिचिभ्यस्थगू (उणादौ पा० २ - १७२ ) इति । थक्प्रत्ययेऽनुबन्धलोपे च कृते ' ऋत इद्वा धातोः (पा० ७-१-१००) इति इत्रे रपरत्वे हलि चेति दीर्घत्वे परगमे च तीर्थ इति स्थिते ' डुकृञ् करणे' इत्यस्य ' चरेष्टः' ( पा० ३-२-१६ ) इत्यस्मात् सूत्रात् टप्रत्ययाधिकारेऽनुवर्त्तमाने 'कृञो हेतुताच्छील्यानुलोम्येषु ' ( पा० ३-२-२० ) इतिटप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति भवति । तत्र तीर्यतेऽनेनेति तीर्थ, तच्च नामादिचतुर्भेदभिन्नं, तत्र नोआगमतो द्रव्यतीर्थं नद्यादीनां समो भूभागोऽनपायश्च तत्सिद्धौ तरिता तरणं तरणीयं च सिद्धं पुरुष बाहूडुपनद्यादि, द्रव्यता चास्येत्थं तीर्णस्यापि पुनस्तरणीयभावात्, अनेकान्तिकत्वात्, स्नानविवक्षायां च बाह्यमलापनयनात् आन्तरस्य १ शेषेष्वपि अध्ययनेषु भवत्येचैव निर्युक्तिः (निर्युक्तौ ) २ अनात्यन्तिकत्वात्. * ध्वपि + ०रत्वाच्छाना० । प्रसङ्गेन + ०प्रत्ययोऽनु• ‡ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy