________________
॥३४॥
भावश्यक-हारिभद्रीयवृत्तिः सत्पदप्ररूपणायां च गतिमङ्गीकृत्य सिद्धगतौ मनुष्यगतौ च, इन्द्रियद्वारमधिकृत्य नोइन्द्रियातीन्द्रियेषु, एवं त्रस. कायाकाययोः सयोगायोगयोः अवेदकेषु अकषायिषु शुक्लेश्यालेश्ययोः सम्यग्दृष्टिषु केवलज्ञानिषु केवलँदर्शिषु संय
रानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीतनोपरीत्तयोः पर्याप्तनोपर्याप्तयोः बादरनोवादरयोः, संज्ञिषु नोसंजिषु, भव्यनोभव्ययोः, मोक्षप्राप्ति प्रति भवस्थकेवलिनो भव्यता, चरमाचरमयोः, चरमःकेवली अचरमः-सिद्धः भवान्तरप्राप्यभावात् , केवलं द्रष्टव्यमिति । पूर्वप्रतिपन्नप्रतिपद्यमानयोजनाच स्वबुद्ध्या कर्तव्येति । 'द्रव्यप्रमाणं' तु प्रतिपद्यमानानधिकृत्य उत्कृष्टतोऽष्टशतं, पूर्वप्रतिपन्नाः केवलिनस्तु अनन्ताः, 'क्षेत्रं' जघन्यतो लोकस्यासंख्येयभागः, उत्कृष्टतो लोक एव, केवलिसमुद्घातमधिकृत्य, एवं स्पर्शनाऽपि, ‘कालतः' साद्यमपर्यन्तं, 'अन्तरं' नास्त्येव, प्रतिपाताभावात् , ' भागद्वारं' मतिज्ञानवद् द्रष्टव्यं, 'भाव' इति क्षायिके भावे' अल्पबहुत्वं' मतिज्ञानवदेव । उक्तं केवलज्ञानं, तदभिधानाच नन्दी, तदभिधानान्मङ्गलमिति । एवं तावन्मङ्गलस्वरूपाभिधानद्वारा ज्ञानपत्रकमुक्तं, इह तु प्रकृते श्रुतज्ञानेनाधिकारः, तथा च नियुक्तिकारेणाभ्यधायिइत्थं पुण अहिगारो सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविअ अणुओगु पईवदिट्ठन्तो ॥७९॥
गमनिका-अत्र पुनः प्रकृते अधिकारः श्रुतज्ञानेन, यतः श्रुतेनैव 'शेषाणां' मत्यादिज्ञानानां आत्मनोऽपि च 'अनुयोगः ' अन्वाख्यानं, क्रियत इति वाक्यशेषः, स्वपरप्रकाशकत्वालस्य, प्रदीपदृष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः ॥ ७९ ॥
इति पीठिकाविवरणं समाप्तम्. संपताना मोसंयतासंपतानां चेति (वि.) * दर्शनिषु. + एथं. आवश्यके पी. साम्प्रतं मङ्गलसाध्यः प्रकृतोऽनुयोगः प्रदर्यत इति, स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्येति, तथा चोक्तं-'अत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि । आह-नन्वावश्यकस्यानुयोगः प्रकृत एव, पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तगतत्वप्रदशेनार्थत्वाददोपः । आह-यद्यावश्यकस्यानुयोगः, तदावश्यकं कि श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यक श्रुतस्कन्धस्तथाऽध्य यनानि च, शेषास्त्वनादेशा विकल्पा इति । आह-ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितेच, ततश्च किमङ्गमगानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तघ्याख्योऽनियमप्रदर्शनार्थत्वाददोषः, नावश्यं शास्त्रादी नन्धध्ययनार्थकथनं कर्त्तव्यं, अकृते चाशङ्का संभवति । आह–मङ्गलार्थ शास्त्रादाववश्यमेव नन्यभिधानात् कथमनियम इति, अत्रोच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्तव्यमिति, तदकरणे चाशङ्का
भवति । किं च-आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शास्त्रान्तरं च नन्दी, पृथक् श्रुतस्कन्धत्वात् । आह-यघेवमिह आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोर्ग इति, उच्यते, शिष्यानुग्रहार्थ
एकोनविंशतिगाथाध्याख्याने. २ ज्ञानपञ्चक निरूपकप्रकरणतया नन्यध्ययनस्वात्. ३ अङ्गमङ्गानि किमित्याचास्मीया. ४ नोभागमतो भावमङ्गलं हि मन्दी पतः ५ मूलसूत्रापेक्षया मन्दीच्याझ्यानाऽमियमप्रदर्शनाय पक्षान्तरं-कित्या दि. ६ तस्य शामपञ्चकनिरूपणनिपुणप्रकरणस्यानुयोगः * आवश्यका. + यामानि न भवति. 1 . मप्रदर्शनार्थस्वावदोष इति, ६ शङ्कासंभव इति.. न स्वयं नियम इत्यपवादप्रदर्शनार्थ वा, एतदुक्तं भवति-कदाचित्पुरुषाद्यपेक्षया उफ्रमणादि अन्यारम्भेऽपि चान्यदू व्याख्यायत इति, अलं प्रसङ्गेन, तत्र शास्त्राभिधानं 'आवश्यक श्रुतस्कन्ध:, तद्भेदाश्च अध्ययनानि यतः तस्माद् आवश्यकं निक्षेप्तव्यं श्रुतं स्कन्धश्चेति । किं च-किमिदं शास्त्राभिधानं प्रदीपाभिधानवद् यथार्थ आहोश्चित् पलाशाभिधानवद् अयथार्थ उत डित्थाधभिधानवद् अनर्थकमेवेति परीक्ष्यं, यदि च यथार्थ ततस्तदुपादेयं, तत्रैव समुदायार्थपरिसमाप्ठेरित्यतः शास्त्राभिधानमेव तावदालोच्यत इति । तत्र 'आवश्यक 'इति कः शब्दार्थः ?, अवश्यं कर्त्तव्यमावश्यक, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा 'वस निवासे' इति गुणशून्यमात्मानमावासयति गुणैरित्यावासकं, गुणसान्निध्यमात्मनः करोतीति भावार्थः । इदं च मङ्गलवन्नामादिचतुर्भेदभिन्नं, इदं च प्रपञ्चतः सूत्रोदवसेयमिति, उद्देशस्तु तदनुसारेणैव शिष्यानुग्रहायाभिधीयते इति, तत्र नामस्थापने सुज्ञाने एव, द्रव्याषश्क द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः ' अनुपयोगो द्रव्य' मितिकृत्वा, नोआगमतो द्रव्यावश्यकं त्रिविधं-ज्ञशरीरं भव्यशरीरं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च, तदपि त्रिविधं-लौकिकलोकोत्तरकुप्रावच
भावश्यकव्याख्यानारम्भे शास्त्रान्तरल्याख्यानारम्भोऽयुक्त इत्यस्योपदर्शितस्य नियमस्यापवाद इति. २ प्राक नन्दी पश्चादावश्यकमित्यादिक क्रमं परित्यज्य, भपिना क्रमोऽपि पुरुषाथपेक्षया एव. ३ आरब्धस्यापि पुरुषाद्यपेक्षथैव व्याख्येति दर्शनायापि चेति. ४ समप्रशास्त्रवाच्यार्थपरिज्ञानेति. ५ अनुयोगद्वाररूपात तनावश्यकर्निक्षेपाणां सुविस्तृततयाऽभिहितत्वात्. ६ संक्षेपेण स्वरूपाभिधानरूपोऽनोद्देशः . ज्ञशरीरभव्यशरीरख्यतिरिक्तं परामर्शनीयं तच्छब्देन, प्रत्यासत्या. * •पुरुषाचपे. + आहोस्वित्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org