SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मावश्यक-हारिभद्रीयवृत्तिः इदानीं मनःपर्यायज्ञानं, लब्धिनिरूपणायां तत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चकक्रमायातमभिधित्सुराह मणपज्जवनाणं पुण जणमणपरिचिन्तियत्थपायडणं । माणुसखित्तनिबद्धं गुणपश्चाइयं चरित्तवओ॥ ७६ ॥ व्याख्या-'मनःपर्यायज्ञानं ' प्रातनिरूपितशब्दार्थ, पुनःशब्दो विशेषणार्थः, इदं हि रूपिनिवन्धनक्षायोपशमिकप्रत्यक्षादिमाम्येऽपि सति अवधिज्ञानात् स्वाम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह-जायन्त इति जनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः जनमनःपरिचिन्तितश्चासावर्थश्चेति समास तं प्रकट गति प्रकाशयति जनमनःपरिचिन्तितार्थप्रकटनं, मानुषक्षेत्रं-अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धं,न तद्वहिव्येवस्थितप्राणिमनःपरिचिन्तितार्थविषयं प्रवर्तत इत्यर्थः । गुणा:-क्षान्त्यादयः त एष प्रत्ययाः-कारणानि यस्य तद्गुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमभेषध्यादिऋद्धिप्राप्तस्यैवेति गाथार्थः॥७६॥ इदं द्रव्यादिभिर्निरूप्यते-तत्र द्रव्यतो मनःपर्यायज्ञानी अर्धतृतीयद्वीपसमुद्रान्तर्गतमाणिमनोभावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनःपर्यायज्ञानिनमधिकृत्यैवं, अन्यथा जानात्येव न पश्यति, अधवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शन मिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोक्तं चतुर्धा विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासंख्येयभागं भादिमा छग्रस्थस्वामिसाधर्म्यम् . २ भेदवदित्यर्थः ३ योगरूढतया मरा एव स्युः, परं संक्षिपञ्चेन्द्रियग्रहणायैवं व्युत्पादनं. * पागडणं. एण्यमतीतं वा कालं जानाति, भावतस्तु मनोद्रव्यपर्यायान् अनन्तानिति, तत्र साक्षान्मनोद्रव्यपर्यायानेव पश्यति, बाह्याँस्तु तद्विषयभावापन्नाननुमानतो विजानाति, कुतः १, मनसो मूामूलद्रव्यालम्पनत्वात् , छद्मस्थस्य चामूर्तदर्शनविरोधादिति । सत्पदप्ररूपणादयस्तु अवधिज्ञानवदषगन्तव्याः । नानात्वं चानाहारकापर्याप्तको प्रतिपद्यमानी न भवतः, नापीतरौ ॥ उक्तं मनःपर्यायज्ञानं, इदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयवाह अह सव्वदव्वपरिणामभावविपणत्तिकारणमणतं । सासयमप्पडिवाइ एगविहं केवलंनाणं ॥७७॥ व्याख्या-इह मनःपर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धितो लाभतश्च प्राक केवलज्ञानमुपन्यस्तं, अतस्तदर्थोपैदर्शनार्थमथशब्द इति, उक्तं च-“अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु" । सर्वाणि च तानि द्रव्याणि व सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामाः-प्रयोगविम्रसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामाः तेषां भावः सत्ता स्वलक्षणमित्यनान्तरं तस्य विशेषेण जपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः-परिच्छित्तिः, तत्र भेदोपचारात् , तस्या विज्ञप्तेः कारणं विज्ञप्तिकारणं, अत एव सर्वव्यक्षेत्रकालभावविषयं तत. क्षेत्रादीनामपि द्रव्यत्वात नन्तत्वादनन्तं, शश्वद्भवतीति शाश्वतं, तच्च व्यवहारनयादेशादुपचारतः प्रतिपात्यपि भवति, अत आह-प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः । आह-अप्रतिपात्येतावदेवास्तु, शाश्वतमित्येतदयुक्तं, न, मतादर्थोऽयमयशब्दः * केवलं माण. + ज्ञापनं. अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति । 'एकविध ' एकप्रकारं, आवरणाभावात् क्षयस्यैकरूपत्वात् , 'केवलं' मत्यादिनिरपेक्षं 'ज्ञानं ' संवेदनं, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः ॥७७॥ __ इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थ देशनां करोति, तीर्थकरनामफोदयात् , ततश्च ध्वनेः श्रुतरूपत्वात् तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भून्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह केवलणाणेणत्थे गाउं जे तत्थ पण्णवणजोगे । ते भासइ तित्थयरो क्यजोग सुयं हवइ मेसं ॥ ७८ ॥ व्याख्या-इह तीर्थकरः केवलज्ञानेन ' अर्थान् ' धर्मास्तिकायादीन मूर्तामूर्तान अभिलाप्यानभिलाप्यान् ‘ज्ञात्वा' विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् , केवलिनश्च तदभावात् , सर्वशुद्धौ देशशुध्यभावादित्यर्थः । ये 'तत्र' तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः 'तान् भापते' तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपिन सर्वानेव भाषते, अनन्तत्वात, आयुषः परिमितत्वात्, वाचः क्रमवारीत्वाच्च, किं तर्हि !, योग्यानेव गृहीतृशक्त्यपेक्षया यो हि यावतां योग्य इति । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात्, सच श्रुतं भवति शेषं, शेषमित्यप्रधानं, एतदुक्तं भवति-श्रोतॄणां श्रुतग्रन्थानुसारिभाव श्रुतज्ञाननिबन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः । अन्ये त्वेवं पठन्ति-'वयजोगसुयं हवइ तेसिं'स वाग्योगः श्रुतं भवति' तेषां' श्रोतॄणां, भावश्रुतकारणत्वादित्यभिप्रायः । अथवा ' चाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थः ॥ ७८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy