________________
॥३१॥ भावश्यक-हारिभद्रीयवृत्तिः सर्वतः पश्यन्ति आहोश्विदेशत इति, अतस्तव्यवच्छेदार्थमाह-पश्यन्ति सर्वत एव । आह-यद्येवं पश्यन्ति सर्वतः' इत्ये. तावदेवास्तु, अवधेरबाह्या भवन्तीति नियतावधित्वख्यापनार्थमनर्थक, न, नियतावधित्वस्यैव विशेषणार्थत्वादस्य, अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीतिज्ञापनार्थत्वाददुष्टं । आह-ननु नारकदेवानां भवप्रत्ययावधिग्रह णात् तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्यागमादेव नियतावधित्वं सिद्धमिति, अत्रोच्यते, नियतावधित्वे सिद्धे. ऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थमवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्टं । आह-यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्य 'निष्ठत्वात् , केवलेन सुतरां संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोष इति, अलं विस्तरेण, शेषं पूर्ववदिति गाथार्थः ॥ ६६ ॥ एवं देशद्वारावयवार्थमभिधायेदानी क्षेत्रद्वार 'विवपूर्षुराह__ संखिनमसंखिजो, पुरिसमषाहाइ खित्तओ ओही। संबद्धमसंबद्धो, लोगमलोगे य संबद्धो ॥ ६७॥
व्याख्या-तत्र संबद्धश्चासंबद्धश्च अवधिर्भवति, किमुक्तं भवति?-कश्चिद् द्रष्टरि संबद्धो भवति, प्रदीपप्रभावत् , कश्चिञ्च असंबद्धो भवति, विप्रकृष्टतमोव्याकुलदेशप्रदीपदर्शनवत् । तत्र यस्तावदसंबद्धः असौ संख्येयः असंख्येयो वा । पूर्णः सुखदुःखानामिति पुरुषः, पुरि शयनाद्वा पुरुष इति । पुरुषादबाधा, अबाधनमबाधा अन्तरालमित्यों,
* •ति, किमुक्तं भवति ?-सदाऽवधेरवाया भवन्ति. नियतावधय इत्यर्थः । माह. + त्याच्यनष्टरवाद. विवरीपु. कवित्वसं० ॥ अतिविप्र. पुरुषस्यांबाधा पुरुषाबाधा तया पुरुषाबाधया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अर्थ भावार्थ:-असंबद्धोऽवधिः क्षेत्रतः संख्ययो भवति असंख्येयो वा, योजनापेक्षयेति, एवं संबद्धोऽपि । एवमवधिः स्वतन्त्रः पर्यालोचितः, इदानीमबाधया चिन्त्यते-अत्र चतुर्भङ्गिका, तत्र संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरं असंख्येयोऽवधिः, असंख्येयमन्तरं संख्येयोऽवधिः, असंख्येयमन्तरमसंख्येयोऽवधिरिति चत्वारोऽपि विकल्पाः संभवन्ति, संबद्धेतु विकल्पाभावः। तथा 'लोके' चतर्दशरज्ज्वात्मके पञ्चास्तिकायवति, ' अलोके च' केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोके अलोके च संबद्धः, कथम् ?-पुरुष संबद्धो लोके च-लोकप्रमाणावधिः, पुरुषे न लोके-देशतोऽभ्यन्तरावधिः, न पुरुषे लोके-शुन्यो भङ्गः, न लोके न पुरुष-बाह्यावधिा, इयं भावना-लोकाभ्यन्तरः पुरुष संबद्धोऽसंबद्धो वा भवति, यस्त लोके संबद्धः स नियमारपुरुषे संबद्ध इति, अतो भगनतुष्टयं तृतीयभङ्गशून्यमिति, अलोकसंबद्धस्त्वात्मसंबद्ध एव भवतीति गाथार्थः ॥ ६७ ॥ इदानी गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह
गइनेरइयाईया, हिट्ठा जह वणिया तहेव इहं । इड्डी एसा वणिज इति तो सेसियाओऽवि ॥१८॥ व्याख्या-तत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परिगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणाविभयः द्रव्यप्रमाणादयश्च, ते यथा अधस्तान्मतिश्रुतयोः 'वर्णिताः' उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयम्इह ये मतिं प्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपकश्रेण्य.
नेदं प्रस्यन्तरे. न्तर्गताः सन्त इति, तथा मनःपर्यायैज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्तरालगत्यादाविति, शक्तिमधिकृत्येति भावार्थः । पूर्वप्रतिपन्नास्तु त एव ये मतेः विकलेन्द्रियासंज्ञिशून्या इति, उत्तमवधिज्ञानमिति । तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूर्तद्रव्याणि जानाति पश्यति, क्षेत्रतस्त्वादेशेनासंख्येयं क्षेत्रं, एवं कालमपि, भावतस्त्वनन्तान् भावानिति । तत्र ऋद्धि विशेष 'एषः ' अवधिः 'व्यावर्ण्यते' गीयते अतः तत्सामान्यात शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थः॥ ६८॥ तत्र शेषर्द्धिविशेषस्वरूपप्रतिपादनायाहआमोसहि विप्पोसहि खेलोसहि जल्लंमोसही चेव । संभिन्नसोउिज्जुमइ, सवोसहि चेव बोडव्यो ॥ ६९ ।। चारणआसीविस केवली य मणनाणिणो य पुव्वधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवा य ॥७॥
प्रथमगाथाव्याख्या-आमर्शनमामर्शः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामौषधिः-साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ इत्यर्थः, लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति, एवं विखेलजल्लेष्वपि योजना कर्त
अवध्युत्पादमन्तरेणैतदुत्पादान्मनःपर्यायज्ञानिनोऽवधेः प्रतिपद्यमानकाः २ प्राच्यनरतिर्यग्भवान्स्यसमयादनन्तरं सुरनारकायुरुदयादेवं व्यपदेशः ये अप्रतिपतितसम्यक्त्वास्तिर्यग्मनुष्येभ्यो देवनारका जायन्ते ते ' इतिहेमचन्द्रपादाः ३ विकलेन्द्रियाणां असंज्ञिनां च सास्वादनसम्यक्त्वान्मतिश्रुतयोः पूर्वप्रतिपश्चता स्यात् , परमवधेस्तु न. ४ उपचारेण. ५ रोगापनयनबुज्येतिम० श्रीहेमचन्द्रपादाः ६ मूत्रपुरीषयोरवयवो विपुदुच्यते, भन्ये वाहुः-विद् उचारः प्रेति प्रश्रवणमिति, म. श्रीहेमचन्द्रपादाः (विपौषधिः) * विकल्पे वि० + ओसही । सो य उजु० सोउ उज्ज. बोद्धवा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org