SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 11 30 11 आवश्यक हारिभद्रीयवृत्तिः बाह्यलाभः, अवधि: प्रक्रमात् गम्यते, अस्मिन् बाह्यलाभे सति बाह्यावधिप्राप्तौ सत्यां 'भाग्यो' विकल्पनीयः कोऽसौ ? - उत्पादः प्रतिपात तदुभयगुणश्च एकसमयेनेति सम्बन्धः, किंविषय इति ?, आह-- 'द्रव्य' इति द्रव्यविषयः, एवं क्षेत्र. कालभावविषय इति, अपिशब्दाः पूरणसमुच्चयार्थाः । अयं भावार्थ:- एकस्मिन् समये द्रव्यादौ विषये बाह्यावधेः कदाचिदुत्पादो भवति कदाचिद्व्ययः कदाचिदुभयं दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यतेऽन्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते अन्यत्र प्रध्यवत इति गाथार्थः ॥ ६२ ॥ द्वितीयगाथाव्याख्या - इह द्रष्टुः सर्वतः संबद्धः | प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्यामभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः । तुशब्दो विशेषणार्थः, किं विशिनष्टि :- तच तदुभयं च तदुभयं उत्पातप्रतिपातोभयं नास्त्येकसमयेन, ' द्रव्यादौ विषये इत्यनुवर्त्तते, किं तर्हि १ - उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारार्थत्वात् । अयं भावार्थ:-प्रदीपस्येवोत्पाद एव प्रतिपातो वा " एकसमयेन भवति अभ्यन्तरावधेर्न तूभयं, अप्रदेशावधित्वादेव, न ह्येकस्य एकपर्यायेणोत्पादव्ययौ युगपत्स्यातां अङ्गुल्याकुञ्चनप्रसारणवदिति गाथार्थः ॥ ६३ ॥ प्रतिपादितं प्रतिपातोत्पादद्वारं, इदानीं यदुक्तं ' संखेजे मणोदधे, भागो लोगपलियस्म' ( ४२ ) इत्यादि, तत्र द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानीं द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाताधिकारे प्रतिपादयन्नाह- १ संख्येयो ममोद्रव्यविषयेऽवधौ भागो लोकपल्योपमयोः * अवधेः + तस्मिन् । गुणश्च ० विभा००त्पादः प्रति० समयेनैव. दबाओ असंखिज्जे, संखेजें आवि पज्जवे लहइ । दो पज्जबे दुगुणिए, लहइ य एगाउ दव्वाउ ॥ ६४ ॥ व्याख्या - परमाण्वादिद्रव्यमेकं पश्यन् द्रव्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसंख्येयान संख्येयांश्चापि मध्यमतो लभते प्राप्नोति पश्यती त्यनर्थान्तरं, तथा जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ ' लभते च ' पश्यति च एकस्माद् द्रव्यात्, एतदुक्तं भवति — वर्णगन्धरसस्पर्शानेव प्रतिद्रव्यं पश्यति, न त्वनन्तान्, सामान्यतस्तु द्रव्यानन्तत्वादेव अनन्तान् पश्यतीति गाथार्थः ॥ ६४ ॥ साम्प्रतं युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽह सागारमणागारा, ओहिविभंगा जहण्णगा तुल्ला । उवरिमगेवेज्जेसु उ, परेण ओही असंखियो । ६५ ।। व्याख्या -- तत्र यो विशेषग्राहकः स साकारः, स च ज्ञानमित्युच्यते, यः पुनः सामान्य ग्राहकोऽवधिर्विभङ्गो वा सोऽनाकारः, स च दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गौ जघन्य की तुल्यावेव भवतः, सम्यग्दृष्टेरवधिः, मि. यादृष्टस्तु स एव विभङ्गः, लोकपुरुषग्रीवासंस्थानीयानि ग्रैवेयकाणि विमानानि, उपरिमाणि च तानि ग्रैवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्यार्थे द्रष्टव्यः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमग्रैवेयकेष्वपि अयमेव न्यायो यदुत - साकारानाका अवधिविभङ्गौ जिघन्यादारभ्य तुल्यांविति, न तुत्कृष्टौ ततः ' परेण ' इति परतः अवधिरेव भवति, मिथ्या १ प्रतिद्रव्यं एकस्मिन्वा नानन्तानित्यर्थः २ क्षेत्रकालरूपौ विषयावधिकृत्य परस्परतस्तुख्ये न तु द्रव्यभावविषयौ ( इति मलयगिरिपादाः आवश्यकवृती) * संखिजा + भसंखिजा + असंखिजा | जघन्यकी दृष्टीनां तत्रोपपाताभावात् स च क्षेत्रतः असंख्येयो भवति, योजनापेक्षयेति गाथार्थः ॥ ६५ ॥ इदानीं देशद्वारावयवार्थं प्रचिकटयिषुरिदमाह - 6 देवतित्थंकराय ओहिस्सऽबाहिरा हुंति । पासंति सव्वओ खलु, सेसा देसेण पासंति ॥ ६६ ॥ व्याख्या- ' नारकाः ' प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाश्च देवाश्च तीर्थकराश्वेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः अवधेः ' अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयं -- अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात्, प्रदीपवत्, ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः । तथा पश्यन्ति ' सर्वतः ' सर्वासु दिक्षु विदिक्षु च खलुशब्दोऽप्येवकारार्थः, स चावधारण एव, सर्वास्वेव दिग्विदिश्विति, सर्वत एवेत्यर्थः । आहअवधेबाह्या भवन्तीत्यस्मादेव पश्यन्ति सर्वत इत्यस्य सिद्धत्वात् ' पश्यन्ति सर्वतः' इत्येतदतिरिच्यते इति, अत्रोच्यते, नैतदेवं, अवधेर बाह्यत्वे सत्यपि अभ्यन्तरावधित्वे सत्यपीतिभावः, न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनात्, अवधेर्विचित्रत्वाद्, अतो नातिरिच्यत इति, 'शेषा:' तिर्यङ्नरा 'देशेन ' इत्येकदेशेन पश्यन्ति, अत्रेटतोऽवधारणविधिः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति गाथार्थः ॥ अथवा अन्यथा व्याख्यायते -- नारकदेवतीर्थंकरा अवधेराह्या भवन्तीति, किमुक्तं भवति ? - नियतावधय एव भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, अतः संशयः- किं ते तेन * अत्रेष्टितो० + ०तीर्थंकरा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy