________________
॥२९॥ मावश्यक-हारिभद्रीयवृत्तिः द्वितीयगाथाब्याख्या-इह लब्धितोऽवस्थानं चिन्त्यते-अद्धा-अवधिलब्धिकालः, अत्र अद्धाया:-कालतोऽवस्थानं अवधेर्लब्धिमङ्गीकृत्य तत्र चान्यत्र क्षेत्रादौ 'षट्पष्टिसागरा' इति षट्रषष्टिसागरोपमाणि, तुशब्दस्य विशेषणार्थत्वात मनागधिकानि 'कालेनेति' कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति । जघन्यमवस्थानमाह-तत्र द्रव्यादायका समयो जघन्येनावस्थानमिति, तत्र मनुष्यतिरश्चोऽधिकृत्य सप्रतिपातोपयोग'तो'ऽविरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्ती सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः।। ५८ ॥ एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽहबुड्ढी वा हाणी वा, चउब्धिहा होइ खिसकालाणं । दवेसु होइ दुविहा, छविह पुण पल्लवे होइ ॥५९॥
व्याख्या-तत्र चलो ह्यवधिः वर्धमानः क्षीयमाणो वा भवति, सा च वृद्धि र्हानिर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा-"असंखेजभागवुड्डी वा संखेज्जभागवुडीवा संखेज्जगुणवुड्डी वा असंखेजगुणवुड्डी वा," एवं हानिरपि, न तु अनन्तभागवृद्धिरनन्तगुणवृद्धिा , एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिानिवळ, कथम् ?-अनन्तभागवृद्धि; अनन्तगुणवृद्धिा, एवं हानिरपि, द्रव्यानन्त्यादिति भावार्थः। तथा पडिधा 'पर्याये' इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धि हानिति वर्तते, पर्यायानन्त्यात्, कथम् ?-अनन्त
न केवलं काल इत्यपिशब्दार्थः, भादिना आधारादिग्रहः गुणपर्यायग्रहो वा. २ गुणत उत्पन्नेऽपि जघन्येन समयान्तरे प्रतिपातात् मरणेन. ३ मन्तरसमय इत्यर्थः. ४ असंख्येयभागवृद्धिर्वा संख्येयभागवृद्धिा संख्येयगुणवृद्धिर्वा असंख्येयगुणवृद्धिर्वा (प्रज्ञापनाया) * तत्र. + अन्यत्र च तोपयोगरवे. द्विविधा. भागवृद्धिः असंख्येयभागवृद्धिः संख्येयभागवृद्धिःसंख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानिरपि । आह-क्षेत्रस्यासंख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिरेवास्तु, तथा द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्यायाणामपि अनन्तभागादिवृद्भिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्या. यमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुगलाः परिसंख्यायन्ते, पुद्गलानुवृत्त्या च तत्पर्यायाः, न चात्रैवं, कथम् ?
यस्मात्म्वक्षेत्रादनन्तगुणाः पुदलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिर्हानिर्वा तस्य तथैवाविरुद्धेति, प्रतिनियतविषयत्वात् , विचित्रावधिनिबन्धनाच्चेति गाथार्थः॥५९॥ एवं तावञ्चलद्वारं व्याख्यातम् , इदानीं तीव्रमन्दद्वा रावयवार्थ व्याचिख्यासुरिदमाह
फडा ये असंखिज़ा, संखेज्जा यावि एगजीवस्स । एकप्फडवओगे, नियमा सव्वत्थ उवउत्सो॥६०॥ फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे ॥ ६१ ॥
प्रथमगाथाव्याख्या-इह फडकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफडुकानीव फडकानि, तानि चासंख्येयानि संख्येयानि चैकजीवस्य, तत्रैकफडकोपयोगे सति नियमात् 'सर्वत्र' सर्वैः फडकैरुपयुक्ता भवन्ति, एकोपयोगत्वाजीवस्य, लोचनद्वयोपयोगवद ,प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति । आह-तीव्रमन्दद्वारं प्रक्रान्तं
1 अनम्तभागगुणवृविहानी द्रव्ये, पर्यायषु षट्स्थानगा वृद्धिर्हानिर्वा २ द्वाभ्यां नेत्राभ्यां निरीक्षते नरो युगपत् , न चानेकोपयोगता, तद्भवत्राप्यनेकस्पर्धकै. रुपयोगेऽप्येकदा नानेकोपयोगता, एकनेत्रोपयोगे च उपयोगो द्वयोरेव, युगपदुपयुज्यमानस्वात. ३ उपयोगः कार्य, न च दीप एकया दिशा प्रकाशयति केवलं, किं तु सर्वाभिः स्वपर्याया. + कडाइ । युक्तो भवति. विहाय फडकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फडुको तीनौ, तथेतरौ मन्दौ, उभयस्वभावता च मिश्रस्येति गाथार्थः ॥६०॥ द्वितीयगाथाव्याख्या-फडकानि-पूर्वोक्तानि, तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभयस्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च भवन्ति, तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति । आह-आनुगामकाप्रतिपातिफडकयो का प्रतिविशेषः, अनानुगामुकप्रतिपातिफडुकयोति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामुक तु प्रतिपात्यप्रतिपाति च भवतीति शेषः । तथा प्रतिपतत्येव प्रतिपाति, प्रतिपतितमपि च सत् पुनर्देशान्तरे जायत एवे, नेत्थमनानुगामुकमिति गाथार्थः॥ ६१॥ व्याख्यातं तीव्रमन्दद्वारं, इदानी प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाहबाहिरलंभे भज्जो, दव्वे खित्ते य कालभावे य । उप्पा पडिवाओऽविय,तं उिभयं एगसमएणं ॥ १२॥
अभितरलडीए, उ तदभयं नत्थि एगसमएणं । उप्पा पडिवाओऽविय, एगयरो एगसमएणं ॥ ३॥ _प्रथमगाथाव्याख्या-तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वाँ विच्छिन्नः स बाह्यः तस्य लाभो
विशेषस्पर्धकसनावे तीव्रत्वमवधेरितरथा चेतरत् मध्यमे च मिश्रति कारण तीवादः स्पर्धकान्येवेति तदर्शने न प्रक्रमविरोध इत्यर्थः २ भसंख्येयानां संख्येयानां वोपनानां स्पर्धकानामवस्थानात् क्षेत्रान्तरेऽपि. ३ आनुगामुकादीनि.. ा कैवस्याः भवक्षयात् स्थानापेक्षया भवान्तरेऽवस्थाममा श्रित्य च ५ प्रतिपातिनोऽप्यानुगामुकत्वदर्शनायेदम्. ६ स्पर्धकरूपकारणाभिधानद्वारेण.. अनुकसमुच्चयार्थत्वात् परिमण्डलाकारोऽपि. * तद्विपरीतानि च + विशेषः । तदुभयं चेग०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org