________________
॥ २८ ॥
भावश्यक-हारिभद्रीयवृत्तिः माने प्रतिपादिते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदोषायैवेति गाथार्थः ॥ ५३ ॥ उक्त क्षेत्रपरिमाणद्वारं, माम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाहशिबुयायार जहण्णो, वो उक्कोसमायओ किंची। अजहण्णमणुकोसो य खित्तओ णेगसंठाणो ॥५४॥ व्याख्या-'स्तिबुक' उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः । तमेव स्पष्टयन्नाह'वृत्तः' सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य वर्तलत्वात् । तथा उत्कृष्ट आयतः प्रदीर्घः 'किञ्चित' मनाक वहिजीवश्रेणिपरिक्षेपस्य स्वदेहानुवृत्तित्वात् , तथा 'अजघन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्ट इति । चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः ॥ ५४ ॥ एवं तावजघन्येतरावधिसंस्थानमभिहितं, साम्प्रतं विमध्यमावधिसंस्थानाभिधित्सयाऽऽह
तप्पागारे १ पल्लग २ पडहग ३ झल्लरि ४ मुइंग ५ पुप्फ ६ जवे ७।
तिरियमणुएसु ओही, नाणाविहसंठिओ भणिओ ॥५५॥ व्याख्या-'तप्रः' उडुपकः तस्येवाकारो यस्यासौ तप्राकारः, तथा पल्लको नाम लाटदेशे धान्यालयः, आकारग्रहणम
स्मृतस्योपेक्षानहस्वं हि प्रसङ्गत्वं. २ विनेयाना बोधविशेषोत्पादनात् प्रस्तुतेऽवधिमाने. ३ पदैकदेशे पदसमुदायोपचारात् जीवदेहेति, अन्यथा पञ्चमस्यानादेशस्याभ्युपगमापत्तेः, न चैवं स्वदेहेत्यनेन विरोधोऽपि. * मेरहय भवण २ वणयर ३ जोइस कप्पालथाण ५ मोहिस्स । गेविज ६ गुत्तराण ७ य, हुँतागिहो जहासंखं ॥१॥ भवणवहवणयराणं उई बहुओ अहोऽवसेसाणं। नास्यजोइसिआणं, तिरिअंभोरालिओ चित्तो ॥२॥ (भाष्यकृरकृते अव्याख्याते). नवर्तते, तस्येवाकारो यस्यासौ पल्लकाकारः, एवमाकार शब्दः प्रत्येकमभिसंबन्धनीयः इति, पटह एव पटहकः-आतोद्यविशेषः, तथा चविनद्धा विस्तीर्णवलयाकारा झल्लरी आतोद्यविशेषः एव, तथा ऊर्ध्वायतोऽधो विस्तीर्ण उपरि च तनुः, मृदङ्गः आतोद्यविशेष एव । 'पु'फेति' 'सूचनात्सूत्र' इतिकृत्वा पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, 'यव' इति यवनालकः, स च कन्याचोलकोऽभिधीयते, अयं भावार्थ:-तप्राकारादिरवधिर्यवनालकाकारपर्यन्तो यथा. मंख्यं नारकभवनपतिव्यन्तरज्योतिष्ककल्पोपपन्नकल्पातीतग्रैवेयकानुत्तरसुराणां सर्वकालनियतोऽवसेयः, तिर्यग्नराणां भेदेन नानाविधाभिधानाद्, आह च-तिर्यश्चश्च मनुष्याश्च तिर्यग्मनुष्याः तेषामवधिः नानाविधसंस्थानसंस्थितो--नानाविधमंस्थितः, संस्थानशब्दलोपात् , स्वयंभूरमणजलधिनिवासिमत्स्यगणवत्, अपितु तत्रापि वलयं निषिद्धं मत्स्यसंस्थानतया, अवधिस्तु तदाकारोऽपीति 'भणितः' उक्तः अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, अयं च भवनव्यन्तराणां ऊ बहुर्भवति, अवशेषाणां तु सुराणामधो, ज्योतिष्कनारकाणां तु तिर्यक्, विचित्रस्तु नरतिरश्चामिति गाथार्थः ॥५५॥ उक्त संस्थानद्वारं, साम्प्रतमानुगामुकद्वारार्थप्रचिकटयिषयेदमाहअणुगामिओ उ ओही, नेरइयाणं तहेव देवाणं । अणुगामी' अणणुगामी, मीसो य मणुस्सतरिच्छे ॥५६॥ ___ व्याख्या-अनुगमनशील आनुगामुकः, लोचनवद्, तुशब्दस्त्वेवकारार्थः, स चावधारणे, आनुगामुक एव अवधिः, केषामित्यत आह-नरान् कायन्तीति नरकाः-नारकाश्रयाः तेषु भवा नारका इति, तेषां नारकाणां, तथैव' आनुगामुक
* आ.. + अ. । अणुगामि. | अनु. एव, दीव्यन्तीति देवास्तेषामिति । तथा आनुगामुकः, अननुगमनशीलोऽननुगामुकः स्थितप्रदीपवत्, तथा एकदेशानुगमनशीलो मिश्रः, देशान्तरगतपुरुषैकलोचनोपघातवत् , चशब्दः समुच्चयार्थः, मिश्रश्च, मनुष्याश्च तिर्यश्चश्च मनुष्यतिर्यश्चस्तेषु • मनुष्यतिर्यक्षु योऽवधिः स एवंविधस्त्रिविध इति गाथार्थः ॥ ५६ ॥ व्याख्यातमानुगामुकद्वारं, इदानीमवस्थितद्वारावयवार्थप्रतिपादनाय गाथाद्वयमाह
खित्तस्स अवठ्ठाणं, तित्तीसं सागरा उ कालेणं । वे भिण्णमुहुत्तो, पजवलंभे य सत्तह ॥५७॥
अहाइ अवट्ठाणं, छावट्ठी सागरा उ कालेणं । । उक्कोसगं तु एयं. इक्को समओ जहणणेणं ॥५८॥ प्रथमगाथाव्याख्या-अवस्थितिरवस्थानं तद् अवधेराधारोपयोगलब्धितश्चिन्त्यते, तत्र क्षेत्रमस्याधार इतिकृत्वा क्षेत्रस्य संबन्धि तावदवस्थानमुच्यते-तत्राविचलितः सन् 'त्रयस्त्रिंशत्सागराः' इति त्रयस्त्रिंशत्सागरोपमाण्यवतिष्ठते अनुत्तरसुराणां, तुशब्दस्त्वेवकारार्थः, स चावधारणे, त्रयस्त्रिंशदेव, ‘कालेनेति' कालतः कालमधिकृत्य 'अर्थाद्विभक्तिपरिणामः । तथा 'दवे' इति द्रवति गच्छति ताँस्तान् पर्यायानिति द्रव्यं तस्मिन् द्रव्ये-द्रव्यविषयं उपयोगावस्थानमवधेः, भिन्नश्चासौ मुहूर्त्तश्चेति समासः, अवनं अवः परि अवः पर्यवः तस्य लाभः पर्यवलाभः तस्मिंश्च पर्यवलाभे च-पर्यवप्राप्ती चावधेरुपयोगावस्थानं सप्ताष्टौ वा समया इति । अन्ये तु व्याचक्षते-पर्यायेषु सप्त, गुणेषु अष्टेति, सहवर्तिनो गुणाः शुक्लत्वादयः,क्रमवर्तिनःपर्यायानवपुराणादयः,यथोत्तरं च द्रव्यगुणपर्यायाणांसूक्ष्मत्वात् स्तोकोपयोगताइति गाथार्थः॥५७॥
उक्तमानुगामुकद्वारमधुनाऽवस्थितद्वारमाह * नानु०. + स एवावधि०. । उकोसओ उ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org