________________
॥ २७ ॥
arretes-हारिभद्रीयवृत्तिः
आणपाणयकप्पे, देवा पासंति पंचमिं पुढंवीं । तं चेव आरणचुय ओहीनाणेण पासंति ॥ ४९ ॥ छट्ठि हिट्टिममज्झिमगेविजा सत्तमिं च उवरिल्ला । संभिण्णलोगनालिं, पासंति अणुतरा देवा ॥ ५० ॥ तत्र प्रथम गाथा व्याख्या - शक्रश्चेशानश्च शकेशानौ तत्र 'शशादाविति' शकेशानोपलक्षिताः सौधर्मेशान कल्पनिवासिनो देवाः सामानिकादयः परिगृह्यन्ते, ते ह्य्वधिना प्रथमां रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति, तथा 'द्वितीयां च' पृथिवीमित्यनुवर्त्तते, 'सनत्कुमारमाहेन्द्राविति' सनत्कुमारमाहेन्द्र देवाधिपोपलक्षिताः तत्कल्पनिवासिनस्त्रिदशा एव सामानिकादयो गृह्यन्ते, ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति, तथा तृतीयां च पृथिवीं ब्रह्मलोकलान्तकदेवेशोपलक्षिताः तत्कल्पनिवासिनो विबुधाः सामानिकादयः पश्यन्ति तथा शुक्रसहस्रार सुनाथपलक्षिताः खल्वन्येऽपि तत्कल्पनिवासिनो देवाश्चतुर्थी पृथिवीं पश्यन्तीति गाथार्थः ॥ ४८ ॥ द्वितीयगाथा व्याख्यायते - आनतप्राणतयोः कल्पयोः संबन्धिनो देवाः पश्यन्ति पञ्चमीं पृथ्वीं, तामेव आरणाच्युतयोः सम्बन्धिनो देवा अबधिज्ञानेन पश्यन्ति, स्वरूप केथनमेवेदं, विमलतैरां बहुतरां चेति गाथार्थः ॥ ४९ ॥ तृतीयगाथा व्याख्यायते--लोकपुरुषग्रीवास्थाने भवानि मैत्रेयकानि (णि) विमानानि, तत्र अधस्त्यमध्यमग्रैवेयकनिवासिनो देवा अधस्त्यमध्यममैवेयकाः, ते हि पृथिवीं तमोऽभिधानामवधिना पश्यन्तीति योगः, तथा सप्तमीं च पृथिवीमुपरितनयैवेयकनिवासिन इति, तथा 'संभिन्नलोकनाडी' चतुर्दशरज्ज्यात्मिकां कन्यकाचोलकसंस्थानामवधिना पश्यन्ति, अनुत्तरविमानवासिनोऽनुत्तराः, तत्र एके
१ इन्द्राणी कल्पेनोक्तः २ व्यवच्छेद्याभात्रात् पूर्वयोरेतां यावद्दर्शनोक्तेश्व. ३ प्रतिपादनं यद्भेदेन तत्फलं * पुढविं. + भाघ० । आध. न्द्रियादयोऽपि भवन्ति तद्व्यवच्छेदार्थमाह – 'देवाः' । एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थः ॥ ५० ॥ एवमधो वैमानिकावधिक्षेत्रप्रमाणं प्रतिपाद्य साम्प्रतं तिर्यगूर्ध्वं च तदेवं दर्शयन्नाह
एएसिमसंखिज्जा, तिरियं दीवा य सागरा चैव । बहुअअरं उबरिमगा, उहुं सगकप्पथूभाई ॥ ५१ ॥
व्याख्या- 'एतेषां' शक्रांदीनां संख्यायन्त इति संख्येयाः न संख्येया असंख्येयाः, तिर्यगू, द्वीपाश्च - जम्बूद्वीपादयः, सागराश्च स्वणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात् - असंख्येयद्वीपोदधिमानात् क्षेत्रात् बहुतरं, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्य शेषः, तथा ऊर्ध्वं स्वकल्पस्तूपाद्येव यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गायार्थः ॥ ५१ ॥ इत्थं वैमानिकानां अवधि क्षेत्र मानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाह -
संखेज्जजोयणा खलु देवाणं अडसागरे ऊणे । तेण परमसंखेजा, जहण्णयं पंचवीसं तु ॥ ५२ ॥ व्याख्या - संख्येयानि च तानि योजनानि चेति विग्रहः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, अस्य चोभयथा संबन्धमुपदर्शयिष्यामः ‘देवानां' ' अर्धसागरे' इति अर्धसागरोपमे न्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति । अर्धसागरोपमन्यून एव आयुषि सति, 'ततः परं' अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं
१ प्रमाणमवधेः २ शक्राद्युपलक्षितानां तत्तत्कल्पवासिसामानिका दीनामित्युक्तमेव प्राकू. उ व सकप० + पण्णवीसं. वैमानिकवर्जदेवानां सामान्यत इति । विशेषर्तस्तु ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषादव सेयमिति । तथा जघन्यकमधिक्षेत्रं देवानामिति वर्त्तते, 'पञ्चविंशतिः' तुशब्दस्यैवकारार्थत्वात् पञ्चविंशतिरेष योजनानि, एतच्च दशवर्षसहस्रस्थितीनामवसेयं, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रम सेयमिति वैमानिकानां तु जधन्यमङ्गुला संख्येयभागमात्रमवधिक्षेत्रं तच्चोपपातकाले परभवसंबन्धिनमेवधिमधिकृत्येति, उत्कृष्टमुक्तमेव 'संभिण्ण लोगर्नालिं, पासंति अणुत्तरा देवा' (५१) इत्यलमतिविस्तरेणेति गाथार्थः ॥ ५२ ॥ साम्प्रतमयमेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्प्रदर्शयन्नाह -
कोसो मणुपसुं, मणुस्सतिरिएसु य जहण्णो यं । उक्कोस लोगमित्तो, पडिवाइ| परं अपडिवाई ॥ ५३ ॥ व्याख्या - द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु तथा मनुष्याश्च तिर्यश्चश्च मनुष्यतिर्यञ्चः तेषु मनुष्यतिर्यक्षु च जघन्यः, चशब्द एवकारार्थः, तस्य चैवं प्रयोगः - मनुष्यतिर्यक्ष्वेव जघन्यो, न नारकसुरेषु तत्र उत्कृष्टो लोकमात्र एव अवधिः, प्रतिपतितुं शीलमस्येति प्रतिपाती, ततः परमप्रतिपात्येव, लोकमात्रदाववधि
१ प्राक् प्रतिपादितत्वाद्वैमानिकानामधेर्नात्र तदधिकारः २ तत्र चतुर्णामपि निकायानां तत्र वैमानिकानां पृथगभिधानाभावात् ३ द्वितीयपादात्. ४ तेषां जघन्येतर स्थित्योरर्धसागरोपमात् न्यूनत्वात् ५ तथा च देवानां सर्वजघन्यावधिनिषेधेऽपि न क्षतिः, भवप्रत्ययावधेः पश्चाद्भावात् तस्य चोक्तमानत्वात. ६ वैमानिकावधि अनुत्तरोपपातिका धेरैवोत्कृष्टत्वात् केवलमेतन्निर्दिष्टं. ७ भवगुणप्रत्ययसाधारणोऽवधिरिति, ८ भिण्णलोगनादि पासंति अणुत्तरा देव इति सूत्रेण सइबहुअगणिजीआ इत्यनेन च * कृत्य + तान्दर्श० + तेरिच्छिएसु य जहणो. पडिवाई. " जघन्यतः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org