SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥ २६ ॥ आवश्यक हारिभद्रीयवृत्तिः याह-उपमानं उपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं, एतदुक्तं भवति - उत्कृष्टावधिक्षेत्रोपमानं, 'अग्निजीवाः प्रागभिहिता एवेति, आह- 'रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, यत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाधायां 'एकप्रदेशावगाढं' इत्यादि परमावधेर्द्रव्यपरिमाणमुक्तं, इह तु 'रुपगतं लभते सर्व' इति क्षेत्रकालद्वयविशेषणं, एतदुक्तं भवति- रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सर्पिण्यत्र सर्पिणीलक्षणं क्षेत्रकालद्वयं लभते, न केवलं, अरूपित्वात्तस्यै, रूपिद्रव्यनिबन्धनत्वाश्वावधिज्ञानस्येति गाथार्थः ॥ ४५ ॥ एवं तावत् पुरुषनधिकृत्य क्षायोपशमिकः खलु अनेकप्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य प्रतिपिपादयिषुराह आहारतेयलं भो, उक्को सेणं तिरिक्खजोणीसु । गाउय जहण्णमोही, नरएस उ जोयणुकोसो ॥ ४६ ॥ व्याख्या - तत्राहारते जोग्रहणाद् औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहारश्च तेजश्च आहारतेजसी तयोलभि इति समासः लाभः प्राप्तिः परिच्छित्तिरित्यनर्थान्तरं, इदमत्र हृदयं - तिर्यग्योनिषु योनियोनिमतामभेदोपचारात् तिर्यग्योनिकसत्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परिच्छेद्यतया विज्ञेया इति । इदानीं भवप्रत्ययावधिस्वरूपमुच्यते स च सुरनारकाणामेव भवति, १ उत्तरः २ नास्मादन्यत् रूपगतमिति नियमनायेत्येवंरूपः ३ विधिनियमयोर्विधिरेव ज्यायान् इति न्यायमपेक्ष्य विधेर्बलीयस्त्वाख्यानायाह--अथवेत्यादि. ४ अरूपित्वात् रूपिविष यश्चावधिरिति च निर्णीतमनेकशः ५ क्षेत्रकालद्वयल. ६ मनुष्यान् इत्यर्थः, परमोहिनाणविओ, केवलमं तो मुहुतमित्तेणेति ( वि० ६८९ ) वचनात् परमावधेश अन्तर्मुहूर्तात्केवलोत्पत्तिः, केवलं च नरगतावेव ७ चारित्रतपभादिगुणहेतुत्वात्. * य २-४-९. तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह— क्षेत्रतो 'गव्यूतं' परिच्छिनत्ति जघन्येनावधिः, क ? - नरान् कान्तीति नरकाः, के गे रे शब्दे इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः, आश्रयाश्रयिणोरभेदोपचारात्, नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं भवति - नारकाधारो योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः ॥ ४६ ॥ एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतं रत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिधित्सुराह— तारि गाउयाई, अजुट्ठाई तिगांउया चेव । अड्डाइजा दुण्णि य, दिवडुमेगं च निरंएसु ॥ ४७ ॥ व्याख्या -तत्र नरका इति नारकालयाः, ते च सप्तपृथिव्याधारत्वेन सप्तधा भिद्यन्ते तत्र रत्नप्रभाद्याधारनरकेषु यथामंख्यमुत्कृष्टे तर भेदभिन्नावधेः क्षेत्रपरिमाणमिदं - 'नरकेषु' इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते, तत्र रत्न - प्रभाधारनरके उत्कृष्टावधिक्षेत्रं चत्वारि गव्यूतानि जघन्यावधेरर्धचतुर्थानि, अर्ध चतुर्थस्य येषु तान्यंर्धचतुर्थानि एवं शर्कराप्रभाधारनरके परमविधिक्षेत्रमानं अर्धचतुर्थानि इतॆरावधिक्षेत्रमानं तु त्रिगव्यूतं, त्रीणि गव्यूतानि त्रिगव्यूतं, एवं १ आधारभेदादाधेयभेदात् सप्त पृथिव्य आधारो येषां ते तथा तत्वेनेति समासः २ तास्य्यात्तव्यपदेश इतिन्यायात्. ३ व्यधिकरणबहुव्रीहेरपि दर्शनात् अन्यथाऽर्धनत्वारीतिभावान ४ उत्कृष्टेति ५ जघन्येति. * तिगाउयं + नरपसु । अजुडाईयाहू जहण्णयं अगाउयंताई । जं गाउअंति भणिअं तंविअ कोहणं ॥ १ ॥ [ भाग्यगाथाऽब्याख्याता च ]. सर्वत्र योज्यं यावन्महातमः प्रभाधारनरके उत्कृष्टावधिक्षेत्रं गव्यूतं, जघन्यावधिक्षेत्रं चार्धगव्यूतमिति, रत्नप्रभाधारनरक इत्यादी जात्यपेक्षमेकवचनं, अनिर्दिष्टस्यापि नवरं पदार्थगमनिका, अर्ध तृतीयस्य अर्धतृतीयानि, द्वे च, अधिकम यस्मिन् तद् अध्यर्धम् । आह - कुतः पुनरिदं ?, सामान्येन प्रतिपृथिव्याधारन रकं उत्कृष्टमत्रधिक्षेत्रमुक्तं 'यत्वारि गव्यूतानि' इत्यादि, अर्धगव्यूतोनें जघन्यमित्यवसीयते ?, उच्यते, सूत्रात्, तथा चोक्तं - " रयेणष्पभापुढ विनेरइयाणं भंते ! harयं वित्तं ओहिणा जाणंति पासंति ?, गोयमा ! जहण्णेणं अजुडाई गाउयाई उक्कोसेणं चत्तारि, एवं जाव महातमपुढ विरइया / णं ? गोयमा ! जहण्णेणं अद्धगाउयं उक्कोसेणं गाउयं", आह- यद्येवं 'गा' ऊ जहण्णमोही णरएसु तु' ( ४६ ) इत्येतद्व्याहते, अत्रोच्यते, उत्कृष्टजघन्यापेक्षया तदभिधानाददोषः, इदमत्र हृदयम् — उत्कृष्टानामेव सप्तानामपि रलप्रभाद्यवधीनां || गव्यूतक्षेत्र परिच्छित्तिकृत् अवधिर्जघन्य इत्यलं प्रसङ्गेनेति गाथार्थः ॥ ४७ ॥ एवं नारकसंबन्धिनो भवप्रत्य यावधेः स्वरूपमभिधायेदानीं विबुधसंबन्धिनः प्रतिपिपादयिषुरिदं गाथा'त्रयं जगाद - सक्कीसाणा पढमं दुःखं च सर्णकुमारमाहिंदा । तच्चं च बंभलंतग, सुक्कसहस्सारय चउत्थीं ॥ ४८ ॥ १ नरकेष्वितिपदव्याख्याने स्वनिरूपितपदे. २ तद्वृत्तिधर्मवत्तामपेक्ष्येति. ३ आश्रित्येति शेषः ४ स्वस्वोत्कृष्टापेक्षया. ५ रत्नाप्रभापृथ्वीनैरथिका भदन्त ! कियत् क्षेत्रमवधिना जानन्ति पश्यन्ति ?, गौतम ! जघन्येनार्ध तृतीयानि गव्यूतानि उत्कृष्टेन चत्वारि, एवं यावन्महातमः प्रभा पृथ्वीनैरयिकाणां १ गौतम ! जघन्येनार्धगम्यूतं उत्कृष्टेन गम्यूतं. ६ विरुध्यते इति . ७ विशेषणं भवेत्यादेः, तच्च देवसंबन्धिव्यवच्छेदाय. ८ भवप्रत्ययावधेः स्वरूपमिति. * परमावधेः. + अतिदिष्ट० 1 नारकं णं पुच्छा. § गाउयंतं. गाडय० ॥ स गध्यू०. ६ त्रितयं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy