________________
पावश्यक-नारिभद्रीयवृत्तिः
॥२३॥ तथा चोदाहरणमत्र-इह भरतक्षेत्रे मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, स च तासां गवमतिबाहुल्यात् सहस्रादिसंख्यामितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपांश्चके, तेऽपि च परस्परसंमिलितासु तासु गोष्वात्मीयाः सम्यगजानानाः सन्तोऽकलहयन् , तांश्च परस्परतो विवदमानानुपलभ्य असौ तेषामव्यामोहाथै अधिकरेणव्यवच्छित्तये च रक्तशुक्लकृष्णकर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वैर्गणाः खल्वयस्थापितवान् इत्येष दृष्टान्तः, अयमर्थोपनयः-इह गोपतिकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्यो गोरुपसदृशं पुद्गलास्तिकायं परमाण्वादिवर्गणावि. भागेन निरूपितवानिति अलं प्रसङ्गेन, पदार्थः प्रतिपाधते-तत्र औदारिकग्रहणाद् औदारिकशरीरग्रहणयोग्या वर्गणाः परिगृहीताः, ताश्चैवमवगन्तव्याः-इह वर्गणाः सामान्यतश्चतुर्विधा भवन्ति, तद्यथा-द्रव्यतः क्षेत्रतः कालतः भावतश्च, तत्र द्रव्यत एकप्रदेशिकानां यावदनन्तप्रदेशिकानां, क्षेत्रत एकप्रदेशावगाढानां यावदसंख्येयप्रदेशावगाढानां, कालत एकसमयस्थितीनां यावदसंख्येयसमयस्थितीनां, भाषतस्तावत् परिस्थूरन्यायमङ्गीकृत्य कृष्णानां यावत् शुक्लानां ५ सुरभिगन्धानां दुरभिगन्धानां चा, तिक्तरसानां यावन्मधुररसानां ५, मृदूनां यावद्र्क्षाणां ८ गुरुलघूनामगुरुलघूनां च, एवभेता द्रव्यवर्गणाद्या वर्गणाश्चतुर्विधा भवन्ति, प्रकृतोपयोगः प्रदर्श्यते-तत्र परमाणूनामेका वर्गणा, एवं विंप्रदेशिकानामप्येका, एवमेकैकपरमाणुवृख्या संख्येयप्रदेशिकानां संख्येया वर्गणा असंख्येयप्रदेशिकानां चासंख्येयाः ततोऽनन्त
गाः २ कलहः ३ समुदायान्. . कुचिकर्णधमपतिः ५ गोरूपाणि धेनवः अवयवे समुदायोपचारात् प्रकरणाद्वा. . परमाणूनामपि प्रकृष्टदेशरवान. ८ लोकाकाशेऽवगाहनात् तस्य चैतावरप्रमाणत्वात्. ९ अनन्तसमयान् यावदवस्थानाभावात्. । स्वस्वस्थान एकगुणादिनाऽनन्तभेदयत्वात् प्रत्येकं. * द्वित्रि० प्रदेशिकानां अनन्ताः खल्वग्रहणयोग्या विलय ततश्च विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणयोग्याः खल्वनन्ता एवेति, ता अपि चोलकय प्रदेशवृख्या प्रवर्धमानास्ततस्तस्यैवाग्रहणयोग्या अनन्ता इति, ताश्च प्रभूतद्रव्यनिवृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाच्च औदारिकस्याग्रहणयोग्या इति, वैक्रियस्यापि चाल्पपरमाणुनिसत्वात् बादरपरिणामयुक्तत्वाच्चाग्रहणयोग्या एष ता इति, पुनः प्रदेशवृद्ध्या प्रवर्धमानाः खल्वनन्ता एवोल्लङ्य तथापरिणामयुक्ता वैक्रियग्रहणयोग्या भवन्ति, ता अपिच प्रदेश वृद्ध्या प्रवर्धमाना अनन्ता एवेति तावद् यावद् ऐकादिप्रचुरपरमाणुनिर्वृत्तत्वात् सूक्ष्मपरिणामयुक्तत्वाश्च वैक्रियस्याग्रहणयोग्या भवन्ति, एवं प्रदेशवृद्ध्या प्रवर्धमानाः खल्वग्रहणयोग्या अप्यनन्ता एवेति, ताश्चाहारकस्य अल्पपरमाणुनिवृत्तत्वाद् बादरपरिणामोपेतत्वाच अग्रहणयोग्या एवेति, एयमाहारकस्य तैजसस्य भाषायाः
आनापानयोर्मनसः कर्मणश्च अयोग्ययोग्यायोग्यानां वर्गणानां प्रदेशकृत्युपेतानामनन्तानां त्रयं त्रयमायोजनीयं । आहकथं पुनरिदं एकैकस्यौदारिकादेवयं त्रयं गम्यत इति, उच्यते, तैजसभाषाद्रव्यान्तरवर्युभयायोग्यद्रव्यावधिगोधराभिधानात् । 'अथ' अयं द्रव्यवर्गणानां क्रमः, तत्र वर्गणा धर्मो राशिरिसि. पर्यायाः, तथा 'विपर्यासतो' विपर्यासेन 'क्षेत्रे' इति क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, एतदुक्तं भवति–एकप्रदेशावगाहिनां परमाणूनां स्कन्धानां चैका वर्गणा, तथा द्विप्रदेशावगाहिनां स्कन्धानामेव द्वितीया वर्गणा, एवमेकैकप्रदेशवृक्या संख्येयप्रदेशावगाहिनां संख्येया असंख्येयप्रदे
द्वितीयाबहुवचनं, एताश्चौदारिकस्यैवायोग्या इति. २ औदारिकपरिणमनयोग्यतास्पेति. ३ औदारिकशरीरतया परिणमनीयाः * वर्धमानाः २-४ + अतिप्रचुर. 1 .युक्तत्वात् भानपानयोः ५ तथा सं०-५-६. शावगाहिनां चासंख्येयाः, ताश्च प्रदेशप्रदेशोत्तराः खल्वसंख्येया विलय कर्मणो योग्यानामसंख्येया वर्गणा भवन्ति, पुनः
वृद्ध्या तस्यैवायोग्यानां असंख्येया इति, अयोग्यत्वं चाल्पपरमाणुनिषत्तत्वात् प्रभूतप्रदेशावगाहित्वाच्च, मनोद्रव्या. दीनामप्येवमेवायोग्ययोग्यायोग्यलक्षणं त्रयं त्रयमायोजनीयमिति। एवं सर्वत्र भावना कार्या, 'परं परं सूक्ष्म' 'प्रदेशतोऽसंख्येयगुणं' (प्राक्तैजसात् ) इति ( तत्त्वार्थे अ० २ सूत्रे ३८-३९) वचनात् , कालतो भावतश्च वर्गणा दिग्मात्रतो देर्शिता एवेति गाथार्थः ॥ ३९ ॥ द्वितीयगाथाव्याख्या-तत्रानन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः, साम्प्रतं प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदान्ते-क्रियत इति कर्म, कर्मण उपरि कर्मोपरि, भुवेति-ध्रुववर्गणा अनन्ता भवन्ति, ध्रुववर्गणा इति ध्रुवा नित्याः सर्वकालावस्थायिन्य इति भावार्थः, 'इतरा' इति प्रदेशवृख्या ततोऽनन्ता एवाध्रुववर्गणा अनन्ता भवन्ति, 'अध्रुवा' इति अशाश्वत्यः, कदाचिन्न सन्त्यपीत्यर्थः, ततः 'शून्या' इति सूचनात्सूत्रमितिकृत्वा शून्यान्तरवर्गणाः परिगृह्यन्ते, शून्यान्यन्तराणि यासां ताः शून्यान्तराः शून्यान्तराश्च ता वर्गणाश्चेति समासः, एतदुक्तं भवति–एकोत्तरवृख्या व्यवहितान्तरा इति, ता अपि चानन्ता एव, तथा 'इतरेति' इतरग्रहणादश परिगृह्यन्ते, न शून्यानि अन्तराणि यासां ता अशून्यान्तराः, अशून्यान्तराश्च ता वर्गणाश्चेति विग्रहः, अशून्यान्तरवगेणा अव्यवहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्ध्या खल्वनन्ता एव भवन्ति, ततः 'चतुरिति' चतन्नः ध्रुवाश्च
योरभिधानं प्रसकात्. २ मष्टानां वर्गणानामन्ये तद्भावात्. ३ सूत्रं सूचनकृदिति सूत्रलक्षणात्. ५ तस्यायुटिसंभवे सत्येव मित्रवर्गणारम्भः, बन्यता किनिर्णादिपरिणामवैचित्रयं तदारम्भे कारणम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org