SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ भावश्यक-हारिभद्रीयवृत्तिः व्याख्या-'काले' अवधिज्ञानगोचरे, वर्धमान इति गम्यते, 'चतुर्णा द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात्, कालस्तु 'भक्तव्यः' विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां. कदाचिद्वर्धते कदाचिन्नेति. कतःक्षेत्रस्य सूक्ष्मत्वात् कालस्य च परिस्थूरत्वादिति, द्रव्यपर्यायौ तु वर्धते, सप्तम्यन्तता चास्य “ऐ होति अयारन्ते, पयंमि विइयाए बहुसु पुंलिङ्गे । तइयाइसु छठीसत्तमीण एगमि महिलस्थे ॥१॥" अस्मालक्षणात् सिध्यति, एवमन्यत्रापि प्राकतशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां 'भक्तव्यौ' विकल्पनीयो क्षेत्रकालावेव, तुशब्दस्य एवकारार्थत्वात्. कदाचिदनयोवृद्धिर्भवति कदाचिन्नति, द्रव्यपर्याययोः सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया- वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्यं, द्रव्यात् पर्यायाणां सूक्ष्मतरत्वात् अक्रमवर्तिनामपि च वृद्धिसंभवात् कालवृद्ध्यभावो भावनीय इति गाथार्थः ॥३६ ॥ अत्र कश्चिदाह-जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोः अलावलिका संख्येयभागोप देवदत्ते भुक्ते सर्व कुटुम्ब भुक्तमितिवत् , अन्यथा त्रयाणामित्यनिधेयं स्यात् , कालवृद्धयनुसारेण द्रष्यादिवृद्धिदर्शनाय चैवमभिधानं स्यात्. २ भजधानुर्हि सिद्धान्ते विकल्पार्थेऽपि भजनेत्यादिवत्. ३ अवधिगोचरस्य, ४ नृतीयकवचनादिन्यवच्छेदार्थम्. ५ एत् भवति अकारान्ते पदे द्वितीयायां बहुषु पुंलिडे। तृतीयादिषु षष्ठीसप्तम्योरेकस्मिन् महिलाथे (पुंलिङ्गे द्वितीयाबहुवचनान्ते पदे अकारान्तस्यैत् भवति, स्त्रीलिङ्गे च तृतीयादिपु षष्ठीसप्तम्योपैकवचने एकारो भवति सर्वत्र)६ गाथारूपात् सूत्रात्. रीत्या. ८ लुप्तविभक्त्यन्तता मूले. ९ द्रव्यपर्याययोः संवेधाय. १० स्पर्शरसादीनां तत्पर्यायाणां वैकगुणादीनां, गुणानां पर्यायस्वानायुक्तमक्रमवर्तिपर्यायवं, नयौ चात एव द्रव्यपर्यायाथिकावेव. ११ पर्यायवृद्धौ न कालवृद्धिरिति समर्थनाय. १२ अंगुल वलियाणमित्यादिना दीवस. मुद्दा उ भइयचा इत्यन्तेन विमध्यमत्वेन प्रतिपादितयोः * सिद्धेत्येव. लक्षितयोः परस्परतः प्रदेशसमयसंख्यया परिस्थरसूक्ष्मत्वे सति कियता भागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसंख्येयभागादेः कालाद् असंख्येयगुणं क्षेत्रं, कुत एतत् ?, अत आह सुहुमो य होइ कालो, तत्तो सुहमयरं हवइ वित्तं । अङ्गुलसेढीमित्ते, ओसप्पिणीओ असंखेजा ॥ ३७॥ व्याख्या-'सूक्ष्मः' श्लक्ष्णश्चै, भवति कालः, यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि ततः' कालात् , सूक्ष्मतरं भवति क्षेत्रं, कुतः ?, यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः, तीर्थकृद्भिः प्रतिपादिताः, एतदुक्तं भवति-अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशाग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थः॥ ३७ ॥ उक्तमवधेर्जघन्यादिभेदभिन्न क्षेत्रपरिमाणं, क्षेत्रं चावधिगोचरद्रव्याधारद्वारेणैवार्वधेरिति व्यपदिश्यते, अतः क्षेत्रस्य द्रव्यावधिकत्वात् तदभिधानानन्तरमेव अवधिपरिच्छेदयोग्यद्रव्याभिधित्सयाऽऽह तेआभासाव्वाण, अन्तरा इत्थ लहइ पढवओ। गुरुलहुअअगुरुलहुअं, तंपि अ तेणेव निहाइ ॥ ३८॥ व्याख्या-अवधिश्च जघन्यमध्यमोत्कृष्टभेदभिन्नः, तत्र तावजघन्यावधिपरिच्छेदयोग्यमेवादावभिधीयते-तैजसं च भाषा च तैजसभाषे तयोव्याणि तैजसभाषाद्रव्याणि तेषामिति समासः, 'अन्तरात्' इति 'अर्थाद्विभक्तिपरिणामः' विधेयस्य. २ चकारो वाक्यभेदकमोपदर्शनार्थः ( इति मलय गिरिपादाः) ३ वक्ष्यमाणमसंख्येयावसर्पिणीमानम्. ४ एकप्रमाणाङ्गुलमान श्रेणिरूपे नभःसण्डे ( नन्दीवृत्तिः १६६ ५०) ५ प्रदेशसंख्यानं. ६ साक्षाद्दर्शनाभावादुपचारेणेत्यर्थः ७ मर्यादार्थोऽवधिः ८ द्रव्यमिति. * अन्तरे ५-६ अन्तरे, अथवा 'अन्तरे' इति पाठान्तरमेव, एतदुक्तं भवति-तैजसवाग्द्रव्याणामन्तर इत्यन्तराले अत्रे तदयोग्यमन्य ' पश्यति, कोऽसावित्यत आह-'प्रस्थापकः' प्रस्थापको नाम अवधिज्ञानप्रारम्भकः, किंविशिष्टं तदिति अत आह–'गुरुलधगुरुलघु' गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, एतदुक्तं भवति-गुरुलघुपयायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं चागुरुलघु इति । तत्र यत्तैजसद्रव्यासन्नं तद्गुरुलघु, यत्पुनर्भाषाद्रव्यासन्नं तदगुरुलघु, 'तदपि च' अवधिज्ञानं प्रच्यवमानं सत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवतीत्यर्थः । तत्र अपिशब्दात् यत्प्रतिपाति तत्रायं क्रमो, न पुनरवधिज्ञानं प्रतिपात्येव भवतीत्यर्थः, चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-तदेवावधिज्ञानमेवं प्रच्यवते, न शेषज्ञानानीति गाथार्थः ॥ ३८ ॥ आह-कियत्प्रदेशं तद् द्रव्यं, यत् तैजसभाषाद्रव्याणामपान्तरालवर्ति जघन्यावधिप्रमेयमित्याशङ्कय तद्धि परमाण्वादिक्रमोपचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाहओरालविउब्वाहारतेअभासाणपाणमणकम्मे । अह व्यवग्गणाणं, कमो विवज्जासओ खित्ते ॥ ३९ ॥ कम्मोवरिं धुवेयरसुण्णेयरवग्गणा अणंताओ। चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो॥४०॥ प्रथमगाथाव्याख्या-आह-औदारिकादिशरीरप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते इति,उच्यते, विनेयानामग्यामोहाध, मध्यार्थोऽबान्तरः २ मध्यभागे तैजसभाषयोः. ३ तजसभाषयोः ४ समुच्चयाय. ५ हीयमानम्. अवविः • तैजसभाषाऽयोग्यम्यान्तदर्शनानन्तरप्रच्युतिरूपेण. ८ मत्यादीनि. * प्रव्यवत इत्यर्थः २-५ + •णुपाण. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy