________________
॥२१॥ मावश्यक-हारिभद्रीयवृत्तिः पर्यन्तेन भ्राम्यते, सा च असंख्येयान् अलोके लोकमात्रान् क्षेत्रविभागान् व्यामोति, एतावदवधिक्षेत्रं उत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तदा पश्यति न त्वलोके द्रष्टव्यमस्ति इति गाथार्थः ॥३१॥ एवं तावजघन्यमुत्कृष्टं चावधिक्षेत्रमभिहितं, इदानीं विमध्यमप्रतिपिपादयिषया एतावत्क्षेत्रोपलम्भे चैतावत्कालोपलम्भः, तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रदर्शनाय चेदं गाथाचतुष्टयं जगाद शास्त्रकारःअंगुलमावलियाणं, भागमसंखिज्ज दोसु संखिजा । अंगुलमावलिअंतो, आवलिआ अंगुलपुहुतं ॥ ३२॥ हत्थंमि मुहत्तन्तो, दिवसंतो गाउयंमि बोडव्यो । जोयण दिवसपुहुत्तं, पक्खन्तो पण्णवीसाओ ॥ ३३ ॥ भरहंमि अन्द्रमासो, जंबूदीवंमि साहिओ मासो । वासं च मणुअलोए, वासपुहुत्तं च रुयगंमि ॥ ३४ ॥ संखिज्जंमि उ काले, दीवसमुद्दावि हुंति संखिज्जा । कालंमि असंखिजे, दीवसमुदा उ भइयव्वा ॥ ३५ ॥
प्रथमगाथाव्याख्या-'अङ्गुलं' क्षेत्राधिकारात प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच उच्छ्याङ्गुलमित्येके, 'आवलिका' असं. ख्येयसमयसंघातोपलक्षितः कालः, उक्तं च-"असंखिजाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलियत्ति वुच्चति' अङ्गुलं चावलिका च अङ्गुलावलिके तयोरङ्गुलावलिकयोः, 'भार्ग' अंशं असंख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवतिक्षेत्रमङ्गलासंख्येयभागमात्रं पश्यन् कालतः आवलिकाया असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति, क्षेत्रकालदर्शनं
रूपिविषयवादवधेरलोके च तारशदव्याभावादसंभवाभिधानतादोषनिराकरणायाह.२ लोके तु सूक्ष्मसूक्ष्मतरादिवस्तुदर्शनेन सामर्थ्यवृद्धिः (विशेषावश्यके गाथा ६०६)३ स्वाऐक्षितजघन्यमध्यमोत्कृष्टत्वात्. ४ असंख्येयानां समयानां समुदयसमितिसमागमेन सैकाऽऽवलिकेत्युच्यते (अनुयोगद्वारवृत्तिः ४३०प०) ५ क्षेत्रकालयोररूपित्वादयधेन रूपिविषयत्वादाह. चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्तिनः पश्यति, न तु क्षेत्रकालौ, मूर्त्तद्रव्यालम्बनत्वात्तस्येति । एवं सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा 'द्वयोः' अङ्गुलावलिकयोः संख्येयौ भागौ पश्यति, अङ्गलसंख्येयभागमात्रं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः, तथा अङ्गुलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नोमावलिकामित्यर्थः, तथा कालतः आवलिकां पश्यन् क्षेत्रतोऽङ्गुलपृथक्त्वं पश्यति, पृथक्वं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः ॥ ३२ ॥ द्वितीयगाथाव्याख्या-'हस्ते' इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्त्तान्तः पश्यति, भिन्नं मुहूर्त्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः . पश्यतीत्युच्यते, तथा कालतो 'दिवसान्तो' भिन्नं दिवसं पश्यन् क्षेत्रतोगव्यूत इति गव्यूतविषयो बोद्धव्यः, तथा योजनविषयः
क्षेत्रतोऽवधिःकालतो दिवसपृथक्त्वं पश्यति, तथा, पंक्षान्तो भिन्नं पक्षं पश्यन् कालता क्षेत्रतः पञ्चविंशति योजनानि पश्यतीति द्वितीयगाथार्थः॥३३॥ तृतीयगाथा व्याख्यायते-'भरते' इति भरतक्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूद्वीपविपये चावधौ साधिकोमासः, वर्षच मनुष्यलोकविषयेऽवधौ इति.मनुष्यलोकःखल्वर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं च
उपचाराभावेऽनिष्टतां दर्शयति इतः तस्येतीत्यन्तेन. २ विवक्षितेति. विवक्षितक्षेत्रस्थितद्रव्यपर्यायान्, कालज्ञानव्याग्थ्यानायेदम्. ४ अवधेः प्रत्यक्षवान् न साक्षात्पश्यतीति. ५ म्यूनां समयादिना. ६ अन्यत्र द्वितीयान्तं पदमिति कर्मतोपपत्तिः, अत्र तु सप्तम्यन्तत्वातप्रमाणक्षेत्रस्थितद्रव्यदर्शनसमाऽव धिन इत्युपचारहेतुः, अग्रेऽपीरशे स्थले. ७ अर्धमासशब्दस्य प्रथमान्तत्वात् नात्रोपचारेण व्याण्यानं हस्त इस्पत्रेव, किन्तु सतिसप्तम्यन्ततया. ८ आ मानुषो. तरात् , मनुष्याणां गमागमेऽपि रुचकादिषु न ते तजन्मादिस्थानं. * पक्षान्तः १-२ रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाधार्थः॥३४॥चतुर्थगाथा व्याख्यायते-संख्यायत इति संख्येयः,सच संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि?-संख्येयो वर्षसहस्रात्परतोऽभिगृह्यते इति, तस्मिन् संख्येये, 'काले' कलनं कालः तस्मिन् काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया,द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति संख्ययाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपीति, तथा काले असंख्येये पल्योपमादिलक्षणेऽवधिविषये सति, तस्यैव असंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्राश्च 'भक्तव्या' विकल्पयितव्याः, कदाचिदसंख्येया एव, यदा इह कस्यचिन्मनुष्यस्य असंख्येयद्वीपसमुद्र विषयोऽवधिरुत्पद्यते इति, कदाचिन्महान्तः संख्ययाः कदाचिद् ऐकः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधेः विज्ञेयः स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा, योजनापेक्षया च सर्वपक्षेषु असंख्येयमेव क्षेत्रमिति गाथार्थः ॥३५॥ एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्ध्या कालवृद्धिरनियता कालवृद्ध्या च क्षेत्रवृद्धिः प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यद्बद्धौ यस्य वृद्धिर्भवति यस्य वा न भवति अमुमर्थमभिधित्सुराहकाले चउण्ह वुड्डी, कालो भइयवु खित्तवुड्डीए । बुड्डीइ दवपज्जव, भइयव्वा खित्तकाला उ ॥ ३६ ॥
अनुयोगद्वारसूत्राभिप्रायेणैकादशे तय॑भिप्रायेण तु प्रयोदशे. २ यावत् शीर्षप्रहेलिकेति ज्ञेयं, अत एव संख्यायत इति संख्येय इति व्युत्पत्तिः, संव्यवहार्या च तावत्येव संख्या. ३ अभ्यन्तरावध्यपेक्षया ४ तिर्यग्लोकमध्यभागगताः ५ असंख्येययोजनविस्तृतः ६ स्वयम्भूरमणादेः . अतिविस्तृतत्वात्तस्य, ८ आत्मभ्यसंबबूस्वात्. ९न द्वीपसमुद्रापेक्षयेति. १० नियतेति शेषः, क्षेत्रस्य प्रदेशानुसारेण वृद्धी कालस्य न समयानुसारेण वृद्धिः,अङ्गुलमात्रे नमःखण्डेऽसंख्येयोत्सर्पिण्यवसर्पिणीभावात् , अन तु न विरोध इति नियता वृद्धिः, भत एव परिस्थरेति प्राविमध्यमेति च भणने संगतिः, यथावत्तया क्षेत्रकालवृद्धिब्याध्यभावात् चतुणो समप्रमाणमाश्रित्येति वा. * तमर्थ० ५-६ + भड्या ४.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org