________________
॥२०॥
भावश्यक-हारिभद्रीयवृत्तिः रार्थः, स चावधारणे, एष एव, नान्यः, निक्षेपणं निक्षेपः, अवधर्भवति 'सप्तविधः' सप्तप्रकार इति गाथार्थः ॥२९॥ इदानी क्षेत्रपरिमाणाख्यद्वितीयद्वारावयवार्थाभिधित्सयाहजावइया तिसमयाहारगस्स सुहमरस पणगजीवस्स । ओगाहणा जहण्णा, ओहीखितं जहणणं तु ॥३०॥
व्याख्या-तत्र क्षेत्रपरिमाणं जघन्यमध्यमोत्कृष्टभेदभिन्नं भवति, यतश्च प्रायो जघन्यमादी अतस्तदेव तावत्प्रतिपाधते-'यावती यत्परिमाणा, बीन्समयान् आहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मः तस्य, पनकश्चासौ जीवश्च पनकजीव वनस्पतिविशेष इत्यर्थः, तस्य, अवगाहन्ति यस्यां प्राणिनः सा अवगाहना तनुरित्यर्थः, 'जघन्या' सर्वस्तोका, अवधेः क्षेत्र अवधिक्षेत्रं, 'जघन्य' सर्वस्तोक, तुशब्द एषकारार्थः, स चावधारणे, तस्य चैव प्रयोगःअवधेः क्षेत्रं जघन्यमेतावदेवेति गाथाक्षरार्थः । अत्र च संप्रदायसमधिगम्योऽयमर्थःयोजनसहस्रमानो मत्स्यो मृत्वा खकायदेशे यः । उत्पद्यते हि सूक्ष्मः, पनकत्वेनेह स प्रायः॥१॥ संहरा चाचसमये, स.यामं करोति च प्रतरम् । संख्यातीताख्याङ्गल विभागवाहुल्यमानं तु॥२॥ स्वकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि वितीयसमये, संहत्य करोत्यसौ सूचिम् ॥३॥ संख्यातीताख्यागुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपथुत्वदैया, तृतीयसमये तु संहत्य ॥४॥
भायामस्तु प्रमाणं स्थावित्युक्ते हस्य रूपप्रमाणसंकोचकृतिस्तथाचालासंख्यभागवाहल्योक्तिन विरोधावहा. . तिर्यक. ३ मध्वाधः । यरूपा विस्तृतिः प्रभुत्वं. * भिधिस्सुराह २-१ + पावरपरि..वाहरूप. बी -- उत्पद्यते च पनका, खदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तत्वावगाहमा यावती भवति ॥५॥ ताबजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम्पभिः कुलकम __ अत्र कश्चिदाह-किमिति महामरस्यः ? किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः १ त्रिसमयाहारकत्वं पा कल्प्यत इति , अत्रोच्यते, स एव हि महामत्स्य: त्रिभिः समयैरात्मानं संक्षिपन् प्रयतविशेषात् . सूक्ष्माघगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्च अतिसूक्ष्मः चतुर्थादिषु चातिस्थूरा त्रिसमयाहारक एव च तयोग्य इत्यतस्तन हणमिति । अन्ये तु व्याचक्षते-त्रिसमयाहारक इति, आयामविष्कम्भसंहारसमययं सूषिसंहरणोत्पादसमयश्चेत्येते प्रया समयाः, विप्रहाभावाचाहारक एतेषु, इत्यत उत्पादसमय एष त्रिसमयाहारकः सूक्ष्मः पनकजीषो जपन्यावगाहनश्च, अतस्तस्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतचायुक्तं, त्रिसमयाहारकत्वस्य पनकजीविशेषणत्वात्, मत्स्यायामषिष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसङ्गात् इति, अलं प्रसङ्गेनेति गाथार्थः ॥३०॥ एवं तावत् जघन्यमवधिक्षेत्रमुक्त, इदानी उत्कृष्टमभिधातुकाम आहसवयहुअगणिजीवा, निरन्तरं जसियं भरिबासु । विसं सव्वदिसागं, परमोही वित्त निद्दिडो॥ ३१ ।।
व्याख्या-सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न भूतभविष्ययः, नापि शेषजीवेभ्यः, कुतः !, असंभवात् , अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबहग्निजीवाः, 'निरन्तरं' इति क्रिया
* भरिजसु १-४-५ विशेषणं 'यावत्' यावत्परिमाणं 'भृतवन्तो' व्याप्तवन्तः 'क्षेत्रं' आकाशं, एतदुरुं भवति-नैरन्तर्येण विशिष्टसूचीरचनया यावत् भृतवन्त इति । भूतकालनिर्देशश्च अजितस्वामिकाल एव प्रायः सर्धबहवोऽनलजीवा भवन्ति अस्यामवसर्पिण्यां इत्यस्यार्थस्य ख्यापनार्थः, इदं चानन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह–'सर्वदिक्कं' अनेन सूचीपरिभ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावधिः, क्षेत्र' अनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः,प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत्क्षेत्रमित्युक्तं भवति। अथवा सर्वबह्वग्निजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिक्कं एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः । इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबह्वमिजीवा बादराः प्रायोऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषबाहुल्यात्, सूक्ष्माश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति । तेषां च स्वबुद्ध्या पोढाऽवस्थानं कल्प्यते-एकैकक्षेत्रप्रदेश एकैकजीवावगाहनया सर्वतश्चतुरस्रो धनः प्रथम, स एव जीवः स्वावगाहनया द्वितीयं, एवं प्रतरोऽपि द्विभेदः, श्रेण्यपि द्विभेदा, तत्र आद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्थाल्पत्वात् कचित्समयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीर
अनिशरीरावगाहनारचनया. २ रूपान्तरेण. ३ भन्न पक्षे अनलजीवमितक्षेत्रस्थितद्रव्यपरिच्छेदशक्तिः मनुष्यार्थपरं पुरुषपद. ५ अनन्तानन्ता. स्ववसर्पिणीषु कमिश्रिदेव द्वितीयतीर्थकरकाले एते, तदानींतना एवोत्कृष्टा बादरा प्रायाः, बादरजीवमाने क्षिप्यन्त इति.. एकैकसिन्पदेशे एकैकजीवस्थापनेनेत्यर्थः, शारीरहारेत्यर्थः १ भसंख्याकाशप्रदेशानन्तरेणावगाहनाऽभावात् इतिमझधारिहेमचन्द्रपादाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org