SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॥ १९ ॥ मावश्यक हारिभद्रीयवृत्तिः नारकामरभवे सति अवश्यं भवतीतिकृत्वा भवप्रत्ययास्ता इति गाथार्थः ॥ २५ ॥ साम्प्रतं सामान्यरूपतया उद्दिष्टानां अवधिप्रकृतीनां वाचः क्रमवर्त्तित्वाद् आयुषश्चाल्पत्वात् यथावद्भेदेन प्रतिपादन सामर्थ्यमात्मनोऽपश्यन्नाह सूत्रकारःकस्तो मे बण्डं, सती ओहिस्स सम्बपयडीओ ? । चउदसविहनिक्खेवं, इडीपत्ते य वोच्छामि ॥ २६ ॥ व्याख्या -- कुतो ? 'मे' मम, वर्णयितुं शक्तिः अवधेः सर्वप्रकृतीः ?, आयुषः परिमितत्वाद वाचः क्रमवृत्तित्वाच्च तथापि विनेयगणानुग्रहार्थ, चतुर्दशविधश्वासौ निक्षेपश्चेति समासः, तं अवधेः संबन्धिनं, आमर्षोषध्यादिलक्षणा प्राप्ता ऋद्धिस्ते प्राप्तर्षयः तांश्च, इह गाथाभङ्गभयाङ्ग्यत्ययः, अन्यथा निष्ठान्तस्य पूर्वनिपात एव भवति बहुव्रीहाविति चशब्दः समुवयार्थ', 'वक्ष्ये' अभिधास्य इति गाथार्थः ॥ २६ ॥ यदुक्तं ''चतुर्दश विधनिक्षेपं वक्ष्ये' इति, तं प्रतिपादयंस्तावद्दारगाथाद्वयमाहओही १ खितपरिमाणे, २ संठाणे ३ आणुगामिए ४ । अबहिए ५ चले ६ तिब्वमन्द ७ पडिवाउत्पयाह ८ अ ||२७|| नाण ९ दंसण १० बिभंगे ११, देसे १२ खिले १३ गई १४ अ । इडीपत्ताणुओगे य, एमेआ पडिवसिओ ॥ २८ ॥ व्याख्या - तत्र अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु समुचितत्वात् पञ्चदशं । अन्ये त्वाचार्या अवधिरित्येतत्पदं परित्यज्य आनुगामुकमनानुगामुकराहितं अर्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, यस्मात् नावधिः प्रकृतिः, किं तर्हि !, अवधेरेष प्रकृतयः चिन्त्यन्ते यतश्च प्रकृतीनामेव चतुर्दशधा निक्षेप उक्त इति । पक्षम्रयेऽपि अवि १ कारणकारणे कारणत्वोपचारात, प्रयोजनं तु सतुदयमान्तरीयकताज्ञापनं, अन्यथासिद्धत्वं स्ववश्यकृसत्यानाश्र. २ संखाईभाभो खलु ओहीनाणरस सम्बपयडीओ' सि पूर्वार्धेन. ३ षड्विंशतितमगाथायां 'इस बिहनिक्लेवं इडीपत्ते य' इत्यत्र चस्मोकसमुच्चयार्थत्वा शब्दसमुच्चयनं. * गए ४ + इ रोध इति । तत्र 'अवधिरिति' अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, तथा अवधिशब्दो द्विरावर्त्त्यते इति व्याख्यातमिति । तथा 'क्षेत्रपरिमाण' इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति । अथवा "अर्थाद्विभक्तिपरिणाम' इति द्वितीयैवेयं, ततश्च अवधेर्जघन्यमध्यमोत्कृष्टभेदभिन्नं क्षेत्रप्रमाणं वक्तव्यं । तथा संस्थानमषधेर्व क व्यम् | 'आनुगामुक इति द्वारं' अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः, एकारान्तः शब्दः प्रथमान्त इतिकृत्या, यथा 'करे आगच्छs' ( उत्तरा० अ० १२ गा० ६ ) इत्यादि । तथा अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं अप्रतिपतितः सनुपयोगतो लब्धितश्चावस्थितो भवति । तथा चलोऽवधिर्वक्तव्यः, चलोऽनवस्थितः, स च वर्धमानः क्षीयमाणो वा भवति । तथा 'तीव्रमन्दाविति द्वारं' तीव्रो मन्दो मध्यमश्वावधिर्षतव्यः, तत्र तीव्रो विशुद्धः, मन्दश्चाविशुद्ध:, तीव्रमन्दस्तूभयप्रकृतिरिति । 'प्रतिपातोत्पादाविति द्वारं' एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादाववधेर्वक्तव्यौ ॥ २७ ॥ द्वितीयगाथा व्याख्या - तथा 'ज्ञानदर्शन विभङ्गा' वक्तव्याः, किमत्र ज्ञानं ? किं वा दर्शनं १ को वा विभङ्गः ? परस्परतश्चामीषां अल्पबहुत्वं चिन्त्यमिति । तथा 'देशद्वारं' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम् । 'क्षेत्रद्वार' क्षेत्रविषयोsवधिर्वक्तव्यः, संबद्धा संबद्ध संख्येया संख्येयापान्तराललक्षणक्षेत्रावधिद्वारेणेत्यर्थः । 'गतिरिति च ' अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, ततश्च गत्यादि च द्वारजालमवधौ वक्तव्यमिति । तथा प्राप्तदनुयोगश्च कर्त्तव्यः, अनु १ सावध्यादीनीत्यत्र व्याख्यातमर्थतः, ततखाग्रेसमेषु भवधिपदयोजना, टिप्पन के अम्बे त्वाचार्या इत्यत्रेतिभ्याख्यातं अम्र वाssवृतिस्तथा च प्रथमान्तता प्रकृतिस्थे क्षेत्रपरिमाणादौ योज्यतयेति च २ प्रतिपत्तिरित्यर्थः, अभ्यमतापेक्षयाऽदः, व्याक्यानं चातः तम्मतसरकं. * अर्थवशात् ५-६ योगोऽन्वाख्यानं, एवमनेन प्रकारेण 'एता' अनन्तरोक्ताः 'प्रतिपत्तयः' प्रतिपादनानि प्रतिपत्तयः परिच्छित्तय इत्यथ., ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्त इति गाधाद्वयसमुदायार्थः ॥ २८ ॥ साम्प्रतमनन्तरोक्तद्वारगाथाद्वयाद्यद्वारव्याचिख्यासयेदमाह- नामं ठवणादविए, खिते काले भवे य भाषे य । एसो खलु निक्लेवो ओहिस्सा होइ सन्तविहो । २९ ॥ व्याख्या - तत्र नाम पूर्व निरूपितं, नाम च तदवधिश्च नामावधिः यस्याषधिरिति नाम क्रियते, यथा मर्यादायाः । तथा स्थापना चासाववधिश्व स्थापनावधिः, अक्षादिविन्यासः । अथवा अवधिरेव च यदभिधानं वचनपर्यायः स नामावधिः, स्थापनावधिर्यः खलु आकारविशेषः तत्तद्रव्यक्षेत्रस्वामिनामिति । तथा द्रव्येऽवधिर्द्रव्यावधिः, द्रन्यालम्बन इत्यर्थः । अथवाऽयं एकारान्तः शब्दः प्रथमान्त इतिकृत्वा द्रव्यमेवावधिर्द्रव्यावधिः, भावावधिकारणं द्रव्यमित्यर्थः, यत्पद्यमानस्योपकारकं शरीरादि तदवधिकारणत्वाद् द्रव्यावधिः । तथा क्षेत्रेऽवधिः क्षेत्रावधिः, अथवा यत्र क्षेत्रेऽवधिरुत्पद्यते तदेवावधेः कारणत्वात् क्षेत्रावधिः, प्रतिपाद्यते वा । तथा कालेऽवधिः, कालावधिः अथवा यस्मिन् काले अवधिरुत्पद्यते कथ्यते वा स कालावधिः, भवनं भवः, स च नारकादिलक्षणः, तस्मिन् भवेऽवधिर्भवावधिः । भावः क्षायोपशमिकादिः द्रव्यपर्याय वा तस्मिन्नवधिः भावावधिः, चशब्दौ समुच्चयार्थी, 'एषः' अनन्तरव्यावर्णितः, खलुशब्दः एवका १ अवधिर्यत्र क्षेत्रे व्याख्यायते स क्षेत्रावभिरित्यर्थः * अवधेरेव १५ + तद्र० १-२-३ + भाषावधेः का० ५ ० वध्यधिकरणत्वात् एवं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy