SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मापापक-हारिभद्रीपतिः वार्थः, पुनः कथितं तच्छृणोति, श्रुत्वा गृह्णाति, गृहीत्वा चेहते पर्यालोचयी किमिदमित्थं उत अन्यथेति, पशब्दा समुच्चयार्थः, अपिशब्दात् पर्यालोचयन् किश्चित् स्वबुख्याऽपि उत्प्रेक्षते, 'तत' तदनन्तरं 'अपोहते च' एवमेतत् यदादिष्टमाचार्येणेति, पुनस्तमर्थमागृहीतं धारयति, करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्कानुष्ठानमपि च श्रुतप्राप्तिहेतुर्भवत्येव, तदावरणकर्मक्षयोपशमादिनिमित्तत्वात्तस्येति । अथवा यचदाज्ञापयति गुरुः तत् सम्यगनुग्रहं मन्यमानः श्री. तुमिच्छति शुश्रूषति, पूर्वसंदिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः तत् सम्यक् शृणोति, शेषं पूर्ववदिति गाथार्थः ॥ २२ ॥ बुद्धिगुणा व्याख्याताः, तत्र शुिश्रूषतीत्युक्तं, इदानीं श्रवणविधिप्रतिपादनायाह___ मूअं हुंकारं वा, वाढकारपडिपुच्छवीमंसा । ततो पसंगपारायणं च परिणि सत्तमए ॥ २३ ॥ व्याख्या-'मूकमिति' मूकं शृणुयात्, एतदुक्तं भवति-प्रथमश्रयणे संयतगात्रः तूष्णीं खल्वासीत, तथा द्वितीये हुङ्कारं च दद्यात् , वन्दनं कुर्यादित्यर्थः, तृतीये 'बाढत्कारं कुर्यात् , /बाढमेवमेतत् नान्यथेति, चतुर्थश्रवणे तु गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् कथमेतदिति, पञ्चमे तु मीमांसां कुर्यात् , मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत्, ततः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवति-गुरुवदनुभाषत एव सप्तमश्रवण इत्ययं गाथार्थः॥२शाएवं तावच्छयणविधिरुक्का,इदानी व्याख्यानविधिमभिधित्सुराहसुत्तत्थोखलु पढमो,पीओ निज्जुतिमीसओमणिओतइओपनिरवसेसो,एस विही भणिअअणुओगे॥२॥ - ------------------------ * तत्तत् २-1-५ + शुभूपते ५ शुभूपत इत्युक्तं ५ + चाहार 1-1-11 वाकारं 1-२'चाडकर - मेवैतत् ५ = प्रसपारगमनं ४ मीसीमो - व्याख्या-सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एष केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमानप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशम्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एष प्रथमोऽनुयोगः कार्यः, मा भूत् प्राथमिकविनेयानां मतिसंमोहः, 'द्वितीयः' अनुयोगः सूत्रस्पर्शिकनियुकिमिश्रका कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च 'तृतीयश्च निरवशेषः' प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषः, कार्य इति, स एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थः, भणितः प्रतिपादितः जिनादिभिः, क?, सूत्रस्य निजेन अभिधेयेन सार्ध अनुकूलो योगः अनुयोगः सूत्रव्याख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषय इति, अयं गाथार्थः ॥ २४ ॥ समाप्तं श्रुतज्ञानम् ॥ उक्तकारेण श्रुतज्ञानस्वरूपमभिहितं, साम्प्रतं प्रागभिहितेप्रस्तावमवधिज्ञानमुपदर्शयन्नाहसंखाई आओ खलु, ओहीनाणस्स सव्वपयडीओ।काओ भवपञ्चइया, खओवसमिआओ काओऽवि ॥२५॥ व्याख्या-संख्यानं संख्या तामतीताः संख्यातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तर्मपि भवति, ततश्चानन्ता अपि, तथा च खलुशब्दो विशेषणार्थः, किं विशिनष्टि १-क्षेत्रकालाख्यप्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्य पोदात निक्षेपनियुक्त्योः कथञ्चिवचित्प्रतिपादनसंभवात्. २ नूतनशिष्याणां प्रपक्षितज्ञानां बालानां. ३ टीकाचूादिरूपः, प्रथमे संहितापदबक्षणा मध्ये पदार्थपदविग्रहचालनाप्रत्यवस्थानादिरूपः तृतीयस्मिस्तु भांपत्तिप्रभृतिगम्य इत्यर्थः । सर्वश्रुतप्रतिग्यास्यानाशक्यस्वेन चतुर्दाविधानिक्षेपवर्णमप्रतिज्ञातरूपेण, ५ स्थित्यादिसाधम्यरूपं. ६ संख्यानमपेक्ष्य सामान्ये वा नपुंसकं.. सतोरप्यनन्तयोरनयोविधिज्ञानविषयापेक्षयाऽदः कर्तव्यः + स्पर्शक०२-४-५ सूत्रार्थण्या० १ सूत्रान्वा०२-४-५ ज्ञेयापेक्षया चानन्ता इति, 'अवधिज्ञानस्य' प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा अंशा इति पर्यायाः, एतदुक्तं भवति-यस्मादवधेः लोकक्षेत्रासंख्येयभागादारभ्य प्रदेशवृद्ध्या असंख्येयलोकपरिमाण उत्कृष्टं आलम्बनतया क्षेत्रमुक्तं, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृद्ध्या खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण उक्तः, ज्ञेयभेदाच्च ज्ञानभेद इत्यतः संख्यातीताः तत्प्रकृतयः इति, तथा तैजसवाग्द्रव्यापान्तरालवय॑नन्तप्रेदेशकाद द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्त्तद्रव्याणि उत्कृष्टं विषयपरिमाणमुक्तं, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः पुिद्गलास्तिकायं तत्पर्यायाँश्चाङ्गीकृत्य ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये 'काश्चन' अन्यतमा: 'भवप्रत्यया' भवन्ति अस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः-कारणं यासा ताः भवप्रत्ययाः, पक्षिणां गगनगमनवत् , ताश्च नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिवृत्ताः क्षायो ताश्च तिर्य इनराणामिति । आह–क्षायोपशमिके भावेऽवधिज्ञानं प्रतिपादितं, नारकादिभवश्च औदयिका, स कथं तासां प्रत्ययो भवतीति, अत्रोच्यते, ता अपि क्षयोपशमनिबन्धना एव, किंतु असावेव क्षयोपशमः तस्मि लोकशब्देन पञ्चास्तिकायस्य क्षेत्रशब्देन चानन्ताकाशस्य बोधसंभवादुक्तं लोकक्षेत्रेति. लोक एवारम्भाद्वा २ एतावतो लोकक्षेत्रस्यासंभवादुक्तं क्षेत्रेति सामाम्येन, सामर्थ्यापेक्षं चेन तु तावति क्षेत्रे श्यं, विहाय लोकं जीवपुद्रलयोरनवस्थानात, फलं लोके सूक्ष्मसूक्ष्मतरार्थज्ञानं. ३ उत्कर्षतः प्रतिबध्यमसंख्येयान् , न तु कदाचनाप्यनम्तान् 'नाणन्ते पेच्छह कयाइ' सि भाष्योक्तेः, जघन्यतस्तु संख्येयानसख्येयांश्च प्रतिद्रव्यं जामाति, परं वक्ष्यमाणत्वाविना नोक्तं ५ भवप्रत्ययावधिप्रकृतयः * .वर्तिनोऽनम्त०५+ प्रदेशिका -३-५ कार्यास्तस..भेदे च १-२-४-५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy