SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥ १७ ॥ आवश्यक - हारिभद्रीयवृत्तिः ऊससिअं नीसमिअं, निच्छूढं खासिअं च छीअं च । णीसिंघियमणुसारं, अणक्खरं छेलियाई ॥ २० ॥ व्याख्या—उच्छ्रसनं उच्छ्रसितं भावे निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं निष्ठीवनं निष्ठयूतं, काशनं काशितं. शब्दः समुच्चयार्थः, क्षवणं क्षुतं चशब्दः समुच्चयार्थ एव, अस्य च व्यवहितः संबन्धः, कथम् ! सेण्टितं चानक्षरश्रुतमिति वक्ष्यामः, निःसिंङ्घनं निःसिङ्घितं, अनुस्वारवदनुस्वारं, अनक्षरमपि यदनुस्वारवदुच्चार्यते हुङ्कारकरणादिवत् तत् 'अनक्षरमिति' एतदुच्छ्रेसितादि अनक्षरश्रुतमिति, सेण्टनं सेण्टितं तत्सेण्टितं च अनक्षरश्रुतमिति । इह चोच्छसितादि द्रव्यश्रुतमात्रं, ध्वनिमात्रैत्वात्, अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् । आह-- यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते, ? येनोच्वसिताद्येवोच्यते इति, अत्रोच्यते, रूदय, अधवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्य उच्छसिताद्येव श्रुतमुच्यते, न चेष्टा, तेदभावादिति, अनुस्वारादयस्तु अर्थगमकत्वादेव श्रुतमिति गाथार्थः ॥ २० ॥ मनक्षरश्रुतद्वारं, इदानीं 'संज्ञिद्वारं' तत्र संज्ञीति कः शब्दार्थः !, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी, सच त्रिविधः -- दीर्घकालिक हेतुवाददृष्टिवादोपदेशाद्, यथा नन्द्यध्येयेने तथैव द्रष्टव्यः, ततश्च संज्ञिनः श्रुतं संशिश्रुतं, १ श्रादिना सरकारपूस्काराचाः २ घटपटादिवद्वाच्यवाचकभावतया न परिणामीति मात्रग्रहणं. ३ सूचकत्वात् ४ करचरणादिक्रियाया अपि विवक्षितार्थसूचकत्वादाह. ५ श्रुतोपयुक्तस्य. ६ श्रवणव्यवहार रूपया शास्त्रश्लोकप्रसिद्धया ७ रूठी विशेषाग्रहे आह— अथवेत्यादि. ८ निरर्थकार्थशून्य निरासेन ९ श्रवणलक्षणान्वर्थस्याभावान् १० आदिमा सेण्टितसीस्काराचा, उच्छुसितादीनामव्यक्तत्वात् अनक्षरत्वमनुस्वारादीनां वर्णावयवस्याद्विशेषदर्शनाय चेदम ११ यथोत्तर विशुद्धक्रमोसनेन ज्ञापितमाह 'सणिति असणिसि य, ससुर का लिभोवपुसेणं' ( वि० ५२६ ) १२ ( नदीवृत्ति: ३८१ १० ) १३ दीर्घका लिकीसंशया. • णीसंघिय० + २-३-४ निःसङ्घनं २-४ | अक्षरमपि श्रुतज्ञानो० तथा असंज्ञिनः श्रुतं असंज्ञिश्रुतमिति । तथा 'सम्यक् श्रुतं' अङ्गानङ्गप्रविष्टं आचारावश्यकादि । तथा 'मियां श्रुतं' पुरारामायणभारतादि, सर्वमेव वा दर्शनपरिग्रहविशेषात् सम्यक् श्रुतमितरद्वा इति । तथा 'साद्यमनाद्यं सपर्यवसितम पर्यवसितं ' 'नयानुसारतोऽवसेयं, तत्र द्रव्यास्तिकनयादेशात् अनाद्यपर्यवसितं में, नित्यत्वात्, अस्तिकायवत् । पर्यायास्तनयादेशात् सादि सपर्यवसितं च अनित्यत्वात्, नारकादिपर्यायवत् । अथवा द्रव्यादिचतुष्टयात् साधनाद्यादि अवगन्तव्यं, यथा नन्द्यध्ययने इति, खलुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः संबन्धः, सप्तैव 'एते' श्रुतपक्षाः सप्रतिपक्षाः, न पक्षान्तरमस्ति, संतोऽत्रैवान्तर्भावात् । तथा र्गमा अस्य विद्यन्ते इति गभिकं तच्च प्रायोवृत्त्या दृष्टिषादः । तथा गाथाद्यसमानग्रन्थं अगमिकं तच प्रायः कालिकं । तथा अङ्गप्रविष्टं गणधरकृतं आचारादि, अनङ्गप्रविष्टं तु स्थविरकृतं आवश्यकोदि, गाथाशेषमवधारणप्रयोगं दर्शयता व्याख्यातमेवेति गाथार्थः ॥ २० ॥ सत्प्ररूप १ स्वाभाविक सम्यक्स्वेतरत्वासंभवादाह, अन्त्यपूर्वचतुष्कं दशमस्य चरमभागश्च स्याज्य एव 'चउदसपुस्लि सम्मसुयं अभिष्णदासपुस्लि सम्मसुर्य' तिमन्दीवचनात् २ सम्यग्मिथ्यादर्शनवजीवस्वीकारेण भेदात्. ३ सम्यग्दर्श निनाम् ४ श्रुतवतो जीवद्रव्यस्य नित्यत्वात्, द्रव्यमेव चासौ मनुते. ५ पर्या या प्रतिक्षणं क्षयभावात् पर्यायसात्रापेक्षी चासौ. ६ ( नम्दीवृत्तिः ३९४ ५० ) एकपुरुषभरतादि क्षेत्रोत्सर्पिण्यवसर्पिणीजिनभाषितभावप्ररूपणा आश्रित्य सादिसपर्यवसितं नानापुरुषमहावि देहनो उत्सर्पिण्य वसर्पिणीक्षायोपशमिकामाश्रित्य ध्वन्यथा. ७ पर्यायादेः ८ किचिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योच्चारणं गमः ९ ' स्थविरास्तु भद्रबाहु स्वाम्यादयस्तः कृत मावश्यक निर्युनत्यादिकमनङ्गप्रविष्टं' (विशेषा० ५५० वृत्तौ ) १० 'सत्तवि एए सपविक्खा' इत्येकानविंशगाथास कं. ११ स्खलुशब्दब्याख्याने, अपिस्तु सप्तानामपि प्रतिपक्षग्रहार्थः स्फुट एव. * मिध्यात्वश्रुतं २ + तु ३ + ० नुसारितो ० ३ - ४ | सायं २-३-४-५ णादि मतिज्ञानवदायोज्यं । प्रतिपादितं श्रुतज्ञानमर्थतः, साम्प्रतं विषयद्वारेण निरूप्यते तच्चतुर्विधं - द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याणि जानीते न तु पश्यति, एवं क्षेत्रादिष्वपि द्रष्टव्यं । इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्तत्वात् पराधीनं यतः अतः विनेयानुग्रहार्थ यो यथा चास्य लाभः तं तथा दर्शयन्नाह - आगमसत्थरगहणं, जं बुद्धिगुणेहि अट्ठहिं दिहं । बिंति सुयनाणलंभं, तं पुत्र्वविसारया धीरा ॥ २१ ॥ व्याख्या - आगमनं आगमः, आङः अभिविधिमर्यादार्थत्वाद् अभिविधिना मर्यादया वा गमः परिच्छेद आगमः, स च केवलमत्यवधिमनः पर्यायलक्षणोऽपि भवति अतस्तद्व्यवच्छित्त्यर्थमाह-शिष्यतेऽनेनेति शास्त्रं श्रुतं, आगमग्रहणं तु षष्टितन्त्रादिकशास्त्र व्यवच्छेदार्थ, तेषामनागमत्वात्, सम्यक्परिच्छेदात्मकत्वाभावादित्यर्थः, शास्त्रतया च रूढत्वात्, ततश्च आगमश्चासौ शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिर्ग्रहणं, यहुद्धिगुणैः वक्ष्यमाणलक्षणैः करणभूतैः अष्टभिः, दृष्टं, ब्रुवते, श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं, तदेव ग्रहणं, ब्रुवते, के ?, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा विपश्चितः, धीरा व्रतानुपालने स्थिरा इत्ययं गाथार्थः ॥ २१ ॥ बुद्धिगुणैरष्टभिरित्युक्तं, ते चाभी - सुस्ससह पडिपुच्छर, सुणेइ गिण्हइ य ईहए 'वावि । तत्तो अपोहए या धारेइ करेइ वा सम्मं ॥ २२ ॥ व्याख्या - विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति, पुनः पृच्छति प्रतिपृच्छति तच्छ्रुतमशङ्कितं करोतीति भा १ तत्स्वरूपतद्भेदस्वरूपसत्प्ररूपणादिद्वाराति देशव्याख्यानेन. * प्ररूप्यते २-३ + वास्य २ + ०हि विदिट्ठं १-२-४-५ | वीरा ३ आवि ३६ वा १-२ - ४ - ५ $ शुश्रूषते ५ || पुनः पुनः ३-४ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy