SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ॥ १६ ॥ आवश्यक हारिभद्रीयवृत्तिः यथा घटेंपट' इति' 'व्या/घहस्ती' इत्येवमादयः एते' चानन्ता इति, तत्रापि एकैकैः अनन्तपर्यायः, स्वपरपर्यायापेक्षया इति । आह-संख्येयानां अकारादीनां कथं पुनरनन्ताः संयोगा इति, अत्रोच्यते, अभिधेयस्य पुद्गलास्तिकायादेरनन्तत्वात् भिन्न'च्च, अभिधेयभेदे च अभिधानभेदसिद्ध्या अनन्तसंयोगसिद्धिरिति, अभिधेयभेदानन्त्यं च यथा - परमाणुः, द्विप्रदेशिको, यावद् अनन्तप्रदेशिक इत्यादि, तथैकत्रापि च अनेकाभिधानप्रवृत्तेः अभिधेयधर्मभेदा यथा - परमाणुः, निरंशो, निष्प्रदेशः, निर्भेदः, निरवयव इत्यादि, न चैते सर्वथैकाभिधेयवाचका ध्वनय इति, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात्, इत्येवं सर्वद्रव्यपर्यायेषु आयोजनीयमिति, तथा च सूत्रेऽप्युक्तं - "अणंता गमा अनंता पज्जवीं" अमुमेवार्थ चेतस्यारोप्याह – 'एतावत्यः' इयत्परिमाणाः प्रवृत्तिनिमित्तत्वात् इत्येवं सर्वप्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्या १ मलयगिरीयायां वृत्तौ 'घटः पट इत्यादि व्याघ्रः स्त्रीत्येवमादि' इति । अत्राद्य उदाहरणे स्वरान्तरितः संयोगः द्वितीयस्मिंस्तु स्वरानन्तरित इति दृष्टान्तद्वयं. २ संयोगाः ३ संयोगः ४ 'जे लभइ केवलो से सवण्णसहिओ व पज्जवेऽथाशे । से तहस सपजाया, सेसा परपजवा सङ्के ॥ ४७८ ॥ चायसर आयबिसेसणाइणा तस्स जमुवनंति । सधणमिवासंबद्धं भवन्ति तो पजवा तस्स ॥ ४८० ॥ इति ( विशेषावश्यकवचनात् ). ५ द्विपञ्चाशतः ६ पदार्थशब्देन जगामाभिधानवदभिश्रत्वे संयोगबहुस्वाभावादाह. ७ अन्यथा अभिधेयस्वरूपाख्यानानुपपत्तेः, अनेकार्थस्थले सांकेतिकस्थलेऽपिच न न भिन्नान्यभिधानानि. ८ विशिष्टैकशब्देनानेका भिधेयाभिधान विचारमाश्रित्य एकस्मिन्नपि वा वाध्येऽनम्ताभिधानाभ्युपगमनायैकत्रेत्यादि. ९ सूक्ष्मत्वसूक्ष्मायोगिरवापर परमाणु संयोगही नस्याबिना शिध्वावयवामारब्धत्वादिना प्रवृत्तिः शब्दानामेषामत्र. १० इह गमा अर्थगमा गृह्यन्ते, अर्थगमा नामार्थपरिच्छेदास्ते चानन्ताः इति नदीवृत्तौ + घटः पटः १-२-४-५ + इत्यादि २-४ ↓ व्याघ्रो १६ व्याघ्र श्री ४.१ विभिन्नत्वात् २-४-५ ६ धर्मभेद १-२-३-४. इति गाथार्थः ॥ १७ ॥ इदानीं सामान्यतयोपदर्शितानां अनन्तानां श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाह कस्तो मे वणे, सत्ती सुयणाणसव्वपयडीओ ? । चउदसविहनिक्लेवं, सुयनाणे आणि वोच्छामि ॥ १८ ॥ व्याख्या-कुतो ?, नैव प्रतिपादयितुं, 'मे' मम 'वर्णयितुं' प्रतिपादयितुं 'शक्तिः' सामर्थ्य, काः १ - प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञान सर्वप्रकृतय इति समासः, ताः कुतो मे वर्णयितुं शक्तिः ?, कथं न शक्तिः १, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च- " तेऽविय मईविसेसे, सुयणाण अंतरे जाणं” ताँश्चोत्कृष्टतः श्रुतधरोऽपि अभिलाप्यानपि सर्वान् न भाषते, तेषामनन्तत्वात् आयुषः परिमितत्वात् वाचः क्रमवृत्तित्वाच्चेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेपं' निक्षेपणं निक्षेपो-नामादिविन्यासः, चतुर्दशविधश्चासौ निक्षेपश्चेति विग्रहस्तं 'श्रुतज्ञाने' श्रुतज्ञानविषयं चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तत्र श्रुतज्ञाने सम्यक् श्रुते, श्रुताज्ञाने असंज्ञिमिथ्या श्रुते, उभयश्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, 'वक्ष्ये' अभिधास्ये इति गाथार्थः ॥ १८ ॥ साम्प्रतं चतुर्दशविध श्रुतनिक्षेप स्वरूपोपदर्शनायाह १ (विशेषावश्यके १४३ ) तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि २ असंज्ञिनां वक्ष्यमाणत्वेऽपि नियमाभावात्संज्ञिनां सम्यक् श्रुतस्य न तद्ब्रहणं. ३ एकस्य परस्पर विरुद्ध धर्माश्रयत्वाभावादाह - दर्शनेत्यादि, दर्शनशब्दश्वात्र श्रद्धानार्थः ४ नामस्थापनाद्रव्याणामनादरः अप्रधानत्वादिनाऽग्रे वक्ष्य माणग्वाद्वा श्रुतस्कन्धे भावश्रुते ये भेदाश्रतुवंश तदपेक्षया चात्र चतुर्दशविधनिक्षेपेति, अधिकारावतरणिकैपेति च स्वरूपेति, अक्षरसंज्ञयादिद्वाराणां च नात एवं पृथक् सूत्राणि + नास्तीदं १-२-४-५ * चतुर्दशनिक्षेप० २. अक्खर सण्णी सम्मं, साईयं खलु सपज्जवसिअं च । गमियं अंगपविद्धं, सत्तवि एए सपडिवक्खा ॥ १९ ॥ व्याख्या - तत्र 'अक्षरश्रुतद्वारं' इह 'सूचनात्सूत्रं' इतिकृत्वा सर्वद्वारेषु श्रुतशब्दो द्रष्टव्य इति । तत्र अक्षरमिति, किंमुक्तं भवति ? - 'क्षर संचलने' न क्षरतीत्यक्षरं तच्च ज्ञानं चेतनेत्यर्थः, न यस्मादिदमनुपयोगेऽपि प्रच्यवत इति भावार्थ:. इत्थंभूतभावाक्षर कारणत्वाद् अकारादिकमप्यक्षरमभिधीयते, अथवा अर्थान् क्षरति न च क्षीयते इत्यक्षरं तच्च समासतस्त्रिविधं तद्यथा-संज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति, संज्ञाक्षरं तत्र अक्षराकारविशेषः, यथा घटिकासंस्थानो धकारः, कुरुण्टि कासंस्थानश्वकार इत्यादि, तच्च ब्राह्म्यादिलिपीविधानादनेकविधं । तथा व्यञ्जनाक्षरं, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरं तच्चेह सर्वमेव भाष्यमाणं अकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छन्दस्य, तथा योऽक्षरोपलम्भः तत् लब्ध्यक्षरं तच्च ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तदाव रणक्षयोपशमो वा । अत्र च संज्ञाक्षरं व्यञ्जनाक्षरं च द्रव्याक्षरमुक्तं, श्रुतज्ञानाख्यभावाक्षरकारणत्वात्, लब्ध्यक्षरं तु भावाक्षरं विज्ञानात्मकत्वादिति । तत्र अक्षरश्रुतमिति अक्षरात्मकं श्रुतं अक्षरश्रुतं द्रव्याक्षराण्यधिकृत्य, अथवा अक्षैरं च तत् श्रुतं च अक्षरश्रुतं, भावाक्षरमङ्गीकृत्य ॥ १९ ॥ उक्तमक्षरश्रुतं इदानीमनक्षर श्रुतस्वरूपाभिधित्सयाह १ भाय्यमाणशब्दस्यैव व्यञ्जनाक्षरत्वादाह- अर्थाभीत्यादि, प्रत्येकं विभिन्नाक्षराणामर्थाभिव्यञ्जकत्वाभावात् २ यक्षराणि संशान्य अनोभयरूपाण्याश्रित्य ३ न क्षरतीत्यादिन्युत्पश्या चेतनामाश्रित्य + प्रच्यवतीति २-४ इत्थंभूतो. ३. भावार्थ० २-४ ९ कुरण्टिसं० १-२ - ४ कुरण्टिकासं० २ १] वरणकर्म० १-२-३-४. Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy