________________
॥१५॥ भाषश्यक-हारिभद्रीयवृत्तिः ततोऽतिरिक्ता अवगन्तव्या, यथेह परमाणोरेकप्रदेश क्षेत्रं सप्तप्रदेशा च स्पर्शनेति । तथा 'कालद्वारं', तत्रोपयोगमङ्गीकृत्य एकस्यानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतश्च, तथा तल्लब्धिमङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्तमेव, उत्कृष्टतस्तु पक्षष्टिसागरोपमाण्यधिकानीति, वारद्वयं विजयादिषु गतस्य अच्युते वा वारत्रयमिति, नरभवकाला भ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थः, नानाजीवापेक्षया तु सर्वकाल एवेति, न यस्मादाभिनिबोधिकलब्धिमच्छून्यो लोक इति । इदानीं 'अन्तरद्वारं', तत्रैकजीवमङ्गीकृत्य आभिनिबोधिकस्यान्तरं जघन्येनान्तर्मुहूर्त, कथम् ?, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरणकर्मक्षयोपशमाद् अन्तर्मुहूर्तमात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशातनाप्रचुरस्य परित्यागे सति अपार्धपुद्गलपरावर्त्त इति, उक्तं च----"तित्थगरपवयणसुयं, आयरियं गणहरं महिड्डीयं । आसौदितो बहुसो, अणंतसंसारिओ होई ॥१॥" तथा नानाजीवानपेक्ष्य अन्तराऽभाव इति । 'भाग इति द्वारं' तत्र मतिज्ञानिनःशेषज्ञानिनामज्ञानिनां चानन्तभागे वर्तन्ते इति । 'भावद्वारं' इदानीं, तत्र मतिज्ञानिनः क्षायोपशमिके भावे वर्तन्ते, मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् । तथा 'अल्पबहुत्वद्वारं', तत्राभिनिवोधिकज्ञानिनां प्रतिपद्यमानपूर्वप्रतिपन्नापेक्षया अल्पबहुत्व विभागोऽयमिति, तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमा
अधिकेति. २ चत्वारो विकसका द्वाधिोदिको एकश्वावगाहस्थानमिति सप्तपदेशा स्पर्शना. ३ 'अनेकाभिनियोधिकजीबानामपीदमेवोपयोगकालमान, केवलमिदमन्तर्मुहूर्तमपि वृहत्तरमवसेयं' इति विशेषावश्यकवृत्तौ. ४ तीर्थकरं प्रवचनं श्रुतं आचार्य गणधरं महर्दिकम् (आमीषध्यादिलब्धिमन्तं)। भाशातयन् बहुशः अनन्तसंसारिको भवति ॥ १॥ ५ भागद्वारास्पार्थक्यशापनाय. * धारा० १-२-३-१-६. + मासादेतो. २-४. नकाः, पूर्वप्रतिपन्नास्तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, तथोत्कृष्टपदिनस्तु एतेभ्योऽपि विशेषाधिका इति गाथावयवार्थः ॥ १५ ॥ साम्प्रतं यथाव्यावर्णितमतिभेदसंख्याप्रदर्शनद्वारेणोपसंहारमाह
आभिणिषोहियनाणे, अट्ठावीसह हवन्ति पयडीओ। अस्यै गर्मनिका-'आभिनिबोधिकज्ञाने अष्टाविंशतिः भवन्ति प्रकृतयः' प्रकृतयो भेदा इत्यनर्थान्तरं, कथम् ?, इह व्यञ्जनावग्रहः चतुर्विधः, तस्य मनोनयनवर्जेन्द्रियसंभवात् , अर्थावग्रहस्तु पोढा, तस्य सर्वेन्द्रिये संभवात् , एवं ईहावायधारणा अपि प्रत्येकं षड्भेदा एव मन्तव्या इति, एवं संकलिता अष्टाविंशतिर्भेदा भवन्ति । आह-पागू अवग्रहादिनिरूपणायां 'अत्थाणं उग्गहण' इत्यादावेताः प्रकृतयः प्रदर्शिता एव, किमिति पुनः प्रदर्श्यन्ते !, उच्यते, तत्र सूत्रे संख्यानियमेन नोक्ताः, इह तु संख्यानियमेन प्रतिपादनादविरोध इति । इदं च मतिज्ञानं चतुर्विधं-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि धर्मास्तिकायादीनि जानीते, न विशेषादे
गाथार्धस्य उपसंहारवाक्यस्य वा. २ संक्षिप्ता विवृतिः. ३ प्राग्वन् मनस इन्द्रियता. ४ गाथा (३). ५ तृतीयगाथास्पे. ६ अतग्रहादीनां संख्याभेदं प्रत्येकं विधाय न प्रतिपादिताः, व्यञ्जनार्थाभ्यामवग्रहस्य अर्थावनइहावायधारणानां च यथावदिन्द्रियादिभेदेन सूत्रे प्रतिपादनाभावात्. . 'आदेसोत्ति पगारो ओघादेसेण सनदशाईति (४०३) विशेषावश्यकवचनात् द्रव्यसामाम्येन. ८ न सर्वैर्विशेषैरित्यर्थः, कियां पुनः पर्यायाणामधिगमात्. * नयनमनो-२-४-५. शत इति, एवं क्षेत्रतो लोकालोकं, कालतः सर्वकालं, भावतस्तु औदयिकादीन् पञ्च भावानिति, सर्वभावानां चानन्तभार्गमिति । उक्तं प्रतिज्ञानं, इदानीं अवसरप्राप्तं श्रुतज्ञानं प्रतिपिपादयिषुराह
सुयणाणे पयडीओ, वित्थरओ आवि वोच्छामि ॥१६॥ व्याख्या-श्रुतज्ञानं पूर्व व्युत्पादितं तस्मिन् , प्रकृतयो भेदा अंशा इति पर्यायाः, ताः, 'विस्तरतः' प्रपञ्चेन, चशब्दात् संक्षेपतश्च, अपिशब्दः संभावने, अवधिप्रकृतीश्च 'वक्ष्ये' अभिधास्ये ॥ १६ ॥ इदानीं ता एव श्रुतप्रकृतीः प्रदर्शयन्नाह
पत्तेयमक्खराइं, अक्खरसंजोग जत्तिआ लोए । एवइया पयडीओ, सुयनाणे हुँति णायया ॥१७॥ व्याख्या-एकमेकं प्रति प्रत्येक, अक्षराण्यकारादीनि अनेकभेदानि, यथा अकारः सानुनासिको निरनुनासिकश्च, पुनरे
बधा-हस्वः दीर्घः प्लुतश्च, पुनरेकैकस्त्रिधैव-उदात्तःअनुदात्तः स्वरितश्च, इत्येवमकारः अष्टादशभेदः, इत्येवमन्येष्वपि इकारादिषु यथासंभवं भेदजालं वक्तव्यमिति । तथा अक्षराणां संयोगा अक्षरसंयोगाः संयोगाश्च द्यादयः यावन्तो लोके
धर्मास्तिकायादीनामाधार आयोऽन्य इतरथा. २ अतीतानागतवर्तमानरूपम्. ३ क्षेत्रादिष्वपि सामान्यादेशेनेस्यनुवर्तनीय, 'भावओ गं भाभिणियोहिअनाणी आएसेणं सच्चे भावे जाणइत्ति श्रीनन्दीसूत्रगतं वाक्यमालम्ब्येदम्. ४ सर्वभावबोधेन सर्वज्ञत्वापत्तिर्या तद्वारणाय, 'मतिश्रुतयोनिबन्धः सर्वद्रव्येध्वसर्वपर्यायेषु' इति तत्त्वार्थे अ० १ सूत्रम् २७ आलम्ब्येदं, सर्वपर्यायाणामनन्तभागं बुध्यते मतिज्ञानी, ज्ञानज्ञानिनोः कथञ्चिदभेदादेवं ज्ञानिद्वारा ज्ञानभेदानां कथनं. ५ लवणे दीर्घाभावं सम्ध्यक्षराणां इस्वाभावं व्यअनानां इस्वायभावं चावेक्ष्य. * पूर्वव्युत्पादितं १-२-५-५. + नेदम् २-४.
। भक्षरसंयोगा ... Jain Education International For Private & Personal Use Only
www.jainelibrary.org