SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ मावश्यक-हारिभद्रीयवृशिः वन्तस्तु विवक्षितकाले प्रतिपद्यमाना भवन्ति, न तु पूर्वप्रतिपन्ना इति । निश्चयनयमतं तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमाना अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठाकालयोरभेदात्, मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, तस्य च भावयतेरेवोत्पत्तेः, केवलिनां तृभयाभाव इति । मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्सिक्रियाकाले मत्याद्यज्ञानाभावात्, क्रियाकालनिष्ठाकालयोश्चाभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् ९ । इदानीं 'दर्शनद्वारं', तद्दर्शनं चतुर्विधं, चक्षुरचक्षुरवधिकेवलभेदभिन्नं, तत्र चक्षुर्दर्शनिनः अचक्षुर्दर्शनिनश्चै,किमुक्तं भवति?-दर्शनलब्धिसम्पन्ना न तु दर्शनोपयोगिन इति 'सबाओ लद्धीओ सागारोवओगोवउत्तस्स उर्पज्जई' इति वचनात्, पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिस्तु पूर्वप्रतिपन्ना एवे, न तु प्रतिपद्यमानाः , केवलदर्शनिनस्तूभयविकली इति १० । 'संयत इति द्वारं', संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति ११ । 'उपयोगद्वार' स च द्विधा-साकारोऽनाकारश्च, तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारो विशेषेति. २ ज्ञानज्ञानिनोरभेदात् भाभिनिवोधिकज्ञानवन्त इति योध्यम्. ३ साकारानाकारयोः उपयोगयोगपद्याभावात् किम्बित्यादि. ४ एतदुपयोगवन्तः, न चाहताऽत एव कब्धिचिन्ता पूर्ववत्. ५ इटावधारणार्थत्वादेवकारस्य प्रतिपद्यमानानां निवेधायैषः, नतु मिथ्यारववता भवधिदर्शनम्यवच्छेदाय, यदा सदासु तद्वतामवश्यंभावात्. साकारोपयोगोपयुक्तानामेव मतिज्ञानस्योत्पत्तेः . 'नीमि र छामस्थिए नाणे' इति सिद्धान्तमङ्गीकृस्प. * नास्तीवम् ५-६ + अस्पद्यते ।-३-३-५-६. पयोगिनस्तु पूर्वप्रतिपन्ना एव न प्रतिपद्यमानकाः । १२ अधुना आहारकद्वारं', आहारकाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया विवक्षितकाल इति, अनाहारकास्तु अपान्तरालगतौ पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानका इति १३ । तथा 'भाषक इतिद्वार', तत्र भाषालब्धिसंपन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा पूर्वप्रति पन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भजनीया इति, तल्लब्धिशून्याश्चोभयविकला इति १४ । 'परीत्त इति द्वारं, तत्र परीत्ताः प्रत्येकशरीरिणः, ते पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, साधारणास्तु उभयविकला इति १५ ! 'पर्याप्तक इति द्वारं', तत्र षनिराहारादिपर्याप्तिभिर्ये पर्याप्तास्ते पर्याप्तकाः, ते पूर्वप्रतिपक्षा नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानास्तु भजनीया इति, अपर्याप्तकास्तु षट्पर्याप्यपेक्षया पूर्वप्रतिपन्नाः संभवन्ति, न वितरे १६ । 'सूक्ष्म इति द्वार', तत्र सूक्ष्माः खलूभयविकलाः, बादरास्तु पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु विवक्षितकाले भाज्या इति १७ । तथा 'संज्ञिद्वार' तत्रेह दीर्घकालिक्युपदेशेन संज्ञिनः प्रतिगृह्यन्ते, ते च बादरवद्वक्तव्याः, असंज्ञिनस्तु पूर्वप्रतिपन्नाः संभवन्ति, न वितर इति १८ । 'भव इति द्वारं', तत्र भवसिद्धिकाः संज्ञिवद्वक्तव्याः, अभवसिद्धिकास्तूभयशून्या इति १९ । 'चरम इति द्वार', चरमो भवो भविष्यति यस्यासौ अभेदोपचाराचरम इति, तत्र इत्थंभूताः चरमाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु भाज्याः, अचरमास्तूभयविकलाः, उत्तरार्ध तु व्याख्या संज्ञिपञ्चेन्द्रियाणां षण्णां पर्याप्तीना संभवात् , सन्न चावश्यंभावात्तस्त्र. २ प्रतिपद्यमानकाः ३ भव्या इस्यर्थः ४ जातिभव्यच्यवच्छेदः फलं द्वारपार्थक्यस्य. ५ भाभिणिबोहियनाणं मग्गिजइ एसु ठाणेसु' ति तृतीयगायोत्सरार्थलक्षणं. * तेषां २. तमेव । कृता सत्पदप्ररूपणेति, साम्प्रतं आभिनिबोधिकजीवद्रव्यप्रमाणमुच्यते-तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले कदाचिद् भवन्ति कदाचिन्नेति, यदि भवन्ति जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागप्रदेशराशितुल्या इति, पूर्वप्रतिपन्नास्तु जघन्यतः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टतस्तु एभ्यो विशेपाधिका इति । उक्तं द्रव्यप्रमाणं, इदानीं 'क्षेत्रद्वारं', तत्र नानाजीवान् एकजीवं चाङ्गीकृत्य क्षेत्रमुच्यते, तत्र सर्व एवाभिनिबोधिकज्ञानिनो लोकस्य असंख्येयभागे वर्त्तन्ते, एकजीवस्तु ईलिकागत्या गच्छन्नूर्ध्व अनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु वर्त्तते, तेभ्यो वाऽऽगच्छन्निति, अधस्तु षष्ठी पृथ्वी गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु सप्तंभागेषु इति, नातः परमधः क्षेत्रमस्ति, यस्मात् सम्यग्दृष्टेः अधः सप्तमनरकगमनं प्रतिषिद्धमिति, आह-अधः सप्तमनरकपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् आगच्छतः पञ्चसप्तभागाधिकक्षेत्रसंभव इति, अत्रोच्यते, एतदप्ययुक्तं, सप्तमनरकात् सम्यग्दृष्टेरागमनत्योप्यभावात् , कथम् ?, यस्मात् तत उद्धृतास्तिर्यवेवागच्छन्तीति प्रतिपादितं, अमरनारकाश्च सम्यग्दृष्टयो मनुष्येष्वेव, इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः । 'स्पर्शनाद्वारं' इदानीं, इह यत्रावगाहस्तत् क्षेत्रमुच्यते, स्पर्शना तु १ यद्यपि द्वादशयोजनाम्यलोकमुशन्ति तथापि न्यूनता तावती न विवक्षिताऽत्रापेति. २ अधोलोकस्य सप्त भागान् कृत्वेदमुक्त, पूर्व चतुर्दश लोकभागा भत्र स्वधोलोकभागा इत्यत्र विवव मानं, भाष्यकारादिभिस्त्वत्रापि पञ्च चतुर्दशभागाः प्रत्यपादिषत. ३ सिद्धान्तकर्मग्रन्थोभयमतेनापि वान्तसम्यक्त्वानामेव सप्तमनरकगमनाभ्युपगमात्. ४ गमनविषयशङ्काया अयुक्तता अपिना, यद्वा तरक्षेत्रसंभवायोग्यता सम्यग्दृष्टेरागमनायोग्यता चेति ध्वनयितुं. ५ अधिकक्षेत्रस्य परिग्रहोऽपिना. * स्वेतेभ्यो २-४ स्तु तेभ्यो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy