________________
मावश्यक-हारिभद्रीयदृत्तिः व्याख्या-सावद्ययोगविरतः, कथमित्याह-त्रिविधं त्रिविधेन व्युत्सृज्य पापं न तु सापेक्ष एवेत्यर्थः, पाठान्तरं वा सावधयोगविरतः सन् त्रिविधं त्रिविधेन व्युत्सृजति पापमेध्यं, 'सामायिकादौ'सामायिकारम्भसमये एषोऽनुगमः परिसमाप्तः, अथवा सामायिकादौ सूत्र इति, आदिशब्दात् सर्वमित्याद्यवयवपरिग्रह इति गाथार्थः॥१०५२॥उक्तोऽनुगमः, सम्प्रति नयाः, ते च नैगमसहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवम्भूतभेदभिन्नाः खल्वोधतः सप्त भवन्ति, स्वरूपं चैतेषामधः सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्यान्तर्भावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तथा चाऽऽहविजापरणनएK सेससमोआरणं तु कायव्वं । सामाइअनिजुत्ती सुभासिअस्था परिसमत्ता ॥ १०५३ ॥
व्याख्या-'विजाचरणनएसं'ति विद्याचरणनययोः ज्ञानक्रियानययोरित्यर्थः, 'सेससमोयारण तु काय'ति शेपन यसमवतारः कर्तव्या, तुशब्दो विशेषणार्थः, किं विशिनष्टि -तौ च वक्तव्यौ, सामायिकनियुक्तिः सुभाषितार्थी परिसमाक्षेति पफटार्थमिति गाथार्थः ॥ १०५३ ॥ साम्प्रतं स्वद्वार एव शेषनयान्तर्भावेनाधिकृतमहिमानौ अनन्तरोपन्यस्तगाथागततशब्देन चावश्यवक्तव्यतया विहितौ ज्ञानचरणनयावुच्येते, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकाममिकफलप्राप्तिकारणं, युक्तियुकत्वात् , तथा चाऽऽहनायंमि गिणिहअन्वे अगिहिअचमि व अर्थमि । जइअव्वमेव इअ जो उवएसो सो नओ नामं ॥१०५४॥
व्याख्या-नायमिति ज्ञाते सम्यपरिच्छिन्ने 'गिहियोति ग्रहीतव्ये उपादेये 'अगिव्हियमिति अग्रहीतव्ये अनु पादेये हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोर्शातत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 'अत्यमिति अर्थ ऐहिकामुष्मिके, तत्रैहिकः ग्रहीतव्यः सचन्दनाङ्गनादिः अग्रहीतव्यो विषशखकण्टकादिरूपेक्षणीयस्तृणादिः. आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'जइअवमेव त्ति अनुस्वारलोपाद् यतितव्यम् ‘एवम्' अनेन क्रमेणैहिकामुष्मिकफलप्राप्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयतः कार्य इत्यर्थः, इत्थं चैतदङ्गीकर्तव्यं, सम्यगज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात् , तथा चान्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथाऽऽमुष्मिकफलप्राप्यर्थिनाऽपि ज्ञात एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्-"पढमं गाणं तओ दया, एवं चिइ सबसंजए। अन्नाणी किं काहिति किंवा णाहिति छेय पावगं? ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः-"गीयत्थो य विहारो बितिओगीयस्थमीसओ भणिओ। एत्तो तइयविहारो णाणुण्णाओ जिणवरेहिं ॥१॥"न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यकपन्थानं प्रतिपद्यत इत्यभिप्रायः। एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योकं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजा
प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति । किंवा हास्यति छेकं पापक (वा) ॥१॥२ गीतार्थश्च विहारो द्वितीयो गीतार्थ मिश्रको भणितः । भाभ्यां तृतीयो विहारो नानुज्ञातो जिनवरैः ॥1॥ यते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् । 'इति जो उवएसो सो नयो नाम'ति 'इति' एवमुक्केन न्यायेन यः उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च चतुर्विधे सम्यक्त्वादिसामायिकें सम्यक्त्वसामायिकश्रुतसामायिकद्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरतिसर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वानेच्छति, गुणभूते चेच्छतीति गाथार्थः ॥ १०५४ ॥ उको ज्ञानमयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदं-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्त्यात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'णायंमि गिहियो'त्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्याज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्ष केण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्रात्यर्थिना क्रियैव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितं, यत उक्तम्-"चेइयकुलगणसंघे आयरिआणं च पधयण सुए य । सबेसुवि तेण कयं तवसं. जममुजमतेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोकं, तथा चाऽऽगमः-"सुबहुंपि सुयमहीयं किं काहि चरणविप्पमुक्कस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥"
१ चैत्यकुलगणरांधेषु भाचार्ये प्रवचने भुतेच सर्वेवपि तेन कृतं तपःसंयमे अच्छता ॥1॥२ सुबहपि भुतमधीतं किं करिष्यति विप्रमुरुचरणस्य ।। भन्धख यथा प्रदीसा दीपशतसहनकोव्यपि .. Jain Education International For Private & Personal Use Only
www.jainelibrary.org