SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ॥२७॥ मावश्यक-हारिभद्रीयवृत्तिः हशिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिक चारित्रम जीकृत्योकं, चारित्रं क्रियेत्यनन्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्या एव विज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता इस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाति, तस्मात् क्रियैव प्रधाना ऐहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम्, 'इति जो उवएसो सो नओ नामति इति' एवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च सम्यक्त्वादौ चतुविधे सामायिके देशविरतिसर्वविरतिसामायिकद्वयमेवेच्छति क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामायिके तु तदर्थमुपादीयमानत्वादप्रधानत्वानेच्छति, गुणभूते चेच्छतीति गाथार्थः ॥ १०५४ ॥ उक्का क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं ज्ञात्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः समाह-किमत्र तत्त्वं १, पक्षद्वयेऽपि युक्तिसम्भवात् , आचार्यः पुनराह-सव्वेसिपि गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह सम्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता।तं सव्वनयविसुद्धं जं चरणगुणहिओ साहू ॥१०५६॥ व्याख्या-सर्वेषामपि मूलनयानाम् , अपिशब्दात् तद्भेदानां च 'नयानां' द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाधार्थः ॥१०५५।। इत्याचार्यहरिभद्रकृतौ शिष्यहितायामावश्यकटीकायां सामायिकाध्ययनं समाप्तम् ॥ सामायिकस्य विवृतिं कृत्वा यदवाप्तमिह मया कुशलम् । तेन खलु सर्वलोको लभतां सामायिक परमम् ॥१॥ यस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरगानसानेकदुःखनाशस्य मोक्षस्य ॥ २॥ ग्रन्थाग्रम् १२३४३॥ आवस्सयपुबद्धं सम्मत्तं ॥ * इति याकिनीमहत्तरासूनुभवविरहश्रीमद्हरिभद्राचार्यविरचितवृत्त्या है कलितं सभाष्यनियुक्तिकमावश्यकपूर्वार्धं समाप्तम् ॥ ॥सामायिकाध्ययनमयः प्रथमो विभागः समाप्तः॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy