________________
॥ ३२० ॥
आवश्यक हारिभद्रीयवृत्तिः जावदवधारणंमि जीवणमवि पाणधारणे भणिअं । आपाणधारणाओ पावनिवित्ती इहं अत्थो । १०४२ ॥
व्याख्या - यावद् इत्ययं शब्दोऽवधारणे वर्तते, जीवनमपि प्राणधारणे भणितं, 'जीव प्राणधारण' इति वचनात्, ततश्चाप्राणधारणात् - प्र. णधारणं यावत् पापनिवृत्तिरित्यर्थः, परतस्तु न विधिर्नापि प्रतिषेधो, विधावाशंसादोषप्रसङ्गात् प्रतिषेधे तु सुरादित्पन्नस्य भङ्गप्रसङ्गादिति गाथार्थः || १०४२ ॥ इह च जीवनं जीव इति क्रियाशब्दोऽयं, न जीवतीति जीव आत्मपदार्थः, जीवनं तु प्राणधारणं, जीवनं जीवितं चेत्येकोऽर्थः, तत्र जीवितं दशधा वर्तते, तदेव तावदादौ निरूपयन्नाह
नाम १ वा २ दविए ३ ओहे ४ भव ५ तन्भवे अ ६ भोगे अ ७ । संजम ८ जस ९ कित्सीजीविअं च १० तं भण्णई दसहा ॥। १०४३ ।।
व्याख्या - नामजीवितं स्थापनाजीवितं द्रव्यजीवितम् ओघजीवितं भवजीवितं तद्भवजीवितं भोगजीवितं च तथा संयमजीवितं यशोजीवितं कीर्तिजीवितं च तद्भण्यते दशधेति गाथासमासार्थः ॥ १०४३ ॥ अवयवार्थे तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याचिख्यासयाऽऽह
दवे सचिताई ३ आउअसद्दव्वया भवे आहे ४ । नेरइयाईण भवे ५ तन्भव तस्थेव उववन्ती ६ ॥ १८९ ॥ ( भा० )
व्याख्या- 'द्रव्य' इति द्वारपरामर्शः, द्रव्यजीवितं सच्चित्तादि, आदिशब्दान्मिश्राचित्तपरिग्रहः, इह च कारणे कार्योपचाराद् येन द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायतं तस्य तथा तद्द्रव्यजीवितमिति, * द्विपदादिद्रव्यस्य चान्ये, उक्तं द्रव्यजीवितं, 'आउयसद्दवया भत्रे आहे'त्ति आयुरिति प्रदेशकर्म तद्रव्यसहचरितं जीवस्य प्राणधारणं सदैव संसारे भवेदोष इति द्वारपरामर्शः ओघजीवितं, सामान्य जीवितमित्यर्थः, इदं चाङ्गीकृत्य यदि परं सिद्धा मृताः, न पुनरम्ये कदाचन इत्युक्त मोघजीवितं, 'रइयाईण भवेत्ति . नारकादीनामिति, आदिशब्दात् तिर्यङ्नरामर परिग्रहः, भव इति द्वारपरामर्श, स्वभवे स्थितिर्भवजीवितमिति, उक्तं भवजीवितं, 'तब्भव तत्थेव उवयति'ति तस्मिन् भवे जीवितम् तद्भवजीवितं इदं चौदारिकशरीरिणामेव भवति, यत आह-तत्रैवोपपत्तिः, तत्रैवोपपात इत्यर्थः, भवश्च तदायुष्कबन्धस्य प्रथमसमयादारभ्य यावश्चरमसमयानुभवः, स चौदारिकशरीरिणां तिर्यङ्मनुष्याणां तद्भवोपपत्तिमागतानां तद्भवजीवितं भवति, ननु च भवजीवितमनन्तरं चतुर्द्धा वर्णितं नारकादिगतिसमापन्नानां यावस्था, तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वैव भवस्थितिः यथास्वमबाधासहिता भवजीवितम्, इह तु तद्भवजीविते आबाधोनिका कर्मस्थितिः, तद्भवोदयात् प्रभृति कर्मनिषेकः तद्भवजीवितमिति महान् विशेषः, तत् किमर्थमौदारिकाणामेव?, उच्यते ?, तेषां हि गर्भकालव्यवहितं योनिनिःसरणं जन्मोध्यते, तेन च गर्भकालेन सहैव तद्भवजीवितं, वैक्रियशरीरिणां तूपपातादेव कालान्तराव्यवहितं जन्मेति जीवितं स्वावाधाकालसहितमितिकृत्वा तद्भवजीवितमौदारिकाणामेव सुप्रतिपादमिति, तेषां चेदं स्वकायस्थित्यनुसारतो विज्ञेयमिति गाथार्थः ॥ १८९ ॥ उक्तं तद्भवजीवितं,
भोमि किमाई ७ संजमजीअं तु संजयजणस्स ८ । जस ९ किती अ भगवओ १०संजमनरजीव अहिगारो१०४४ व्याख्या-भोगंमित्ति द्वारपरामर्शः, भोगजीवितं च चक्रवर्त्यादीनाम्, आदिशब्दाद्बलदेववासुदेवादिपरिग्रहः, उक्तं च * पारदादिव्यावस्थेस्यम्ये.
भोगजीवितं, 'संजमजीयं तु संजयजणस्स'त्ति संयमजीवितं तु 'संयतजनस्य' साधुलोकस्य उक्तं संयमजीवितं, 'जसकित्ती य भगवओ'ति यशोजीवितं भगवतो महावीरस्य, कीर्तिजीवितमपि तस्यैव, अयं चानयोर्विशेषः - दानपुण्यफला कीर्त्तिः, पराक्रमकृतं यशः' इति, अन्येत्विदमेकमेवाभिदधति, असंयमजीवितं चाविरतिगतं संयमप्रतिपक्षतो गृह्णन्तीति, 'संजमनरजीव अहिगारो' त्ति-संयमनरजीवितेनेहाधिकार इति गाथार्थः ।। १०४४ ॥ यावज्जीवता चेह 'जीव प्राणधारण' इत्यस्याव्ययीभाव समासे 'यावदवधारण' ( पा० २-१-८ ) इत्यनेन निर्वृत्ते भावप्रत्यय उत्पादिते यावज्जीवं भावः षष्ठ्या अव्ययादाः ( पा० २-४-८२ ) इति सुपलुक्, तस्य 'भावस्वतला ( पा० ५-१-११९ ) विति तलि स्त्रीलिङ्गता यावज्जीवता तया यावज्जीवतया, तत्रालाक्षणिकवर्णलोपात् 'जावज्जीवाए' इति सिद्धम्, अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहिः, यावज्जीवो यस्यां सा यावज्जीवा तयेत्यलं प्रसङ्गेन, तिस्रो विधा यस्य योगस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, तं त्रिविधं योगं, त्रिविधेनैव करणेन, करणे तृतीयेति, मनसा वाचा कायेन चेति, अत्र मनःप्रभृतीनां पूर्व स्वरूपं दर्शितमेवेति न प्रतन्यते, नवरं भावार्थ उच्यते - तत्र 'त्रिविधं त्रिविधेने 'त्यत्रानन्तरस्य करणस्य विवरणसूत्रमेवेदं यदुत - मनसा वाचा कायेनेति, तस्य च करणस्य कर्म प्रत्याख्येयो योगस्तमपि सूत्र एव विवृणोति न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि- नानुमन्येऽहमिति । अत्राऽऽह- -किं पुनः कारणमुद्देशक्रममतिलक्ष्य व्यत्यासेन निर्देशः कृत इति, अत्रोच्यते, योगस्य करणतन्त्रो (तो)पदेशनार्थं, तथाहि — योगः करणवश एव, कग्णानां भावे योगस्यापि भावादभावे चाभावादिति. करणाना
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International