SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ति, अधुना नदी, तत्रामि प्रत्यार निवृत्तिरि यामीत्यवयवप्रस्तावामीति, प्रतिशब्द व्यक्ताया ॥३१९॥ भावश्यक-हारिभद्रीयवृत्तिः एवौपशमिका, कर्मणां क्षयादेव शुभः सर्वः क्षायिकः, शुभाशुभश्च मिश्रः सर्वः क्षायोपशमिका, परिणतिस्वभावः सर्वः शुभाशुभश्च पारिणानिकः एवं व्युत्पत्त्यर्थप्ररूपणां कृत्वा प्रकृतयोजनामुपदर्शयन्नाह-'एत्थ उ'इत्यादि, अत्र तु 'क्षायोपशमिक' इति क्षायोपशमिकभावसर्वेण अधिकारः, अवतार उपयोग इत्यर्थः, 'अशेषसर्वेण च' निरवशेषसर्वेण चेति गाथार्थः ॥ १८८ ॥ व्याख्यातः सौत्रः सर्वावयत्रः, साम्प्रतं सावधावयवव्याचिख्यासयाऽऽहकम्ममवजं जंगरिहिअंति कोहाइणो व चत्तारि। सह तेण जो उ जोगो पञ्चकखाणं इवह तस्स ॥१०३८॥ ___ व्याख्या-'कर्म' अनुष्ठानमवचं भण्यते, किमविशेषेण ?, नेत्याह-'यद् गर्हितम्' इति यन्निन्द्यमित्यर्थः, क्रोधादयो या चत्वारः, अवद्यमिति वर्तते, सर्वावधहेतुत्वात् तेषां कारणे कार्योपचारात्, सह तेन-अवधेन 'यस्तु योग य एव व्यापारः असी सावध इत्युच्यते, 'प्रत्याख्यान' निषेधलक्षणं भवति 'तस्य" सावद्ययोगस्य, पाठान्तरं वा-'कम्मं वजं जं गरहियति इह तु 'वजी वर्जने' इत्यस्य वर्जनीयं वयं त्यजनीयमित्यर्थः, शेषं पूर्ववत्, नवरं सह व]न सवर्व्यः प्राकृते सका रस्य दीर्घादेशात्सावजमिति गाथार्थः॥१०३८॥अधुना योगोऽभिधीयते, स च द्विधा-द्रव्ययोगो भावयोगश्च,तथा चाऽऽहदवे मणवयकाए जोगा दवा दुहाउ भावंमि । जोगा सम्मत्ताई पसत्थ इअरो उ विवरीओ॥१०३९ ॥ व्याख्या-'द्रव्य' इति द्वारपरामर्शः, 'मणवइकाए जोगा दवेति मनोवाकाययोग्यानि द्रव्याणि द्रव्ययोगः, एतदुक्तं भवति--जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि द्रव्ययोग इति, द्रष्याणां वा हरीतक्यादीनां योगो द्रव्ययोगः, 'दुहा उ भावमि'त्ति द्विधैव द्विप्रकार एव, 'भाव' इति भाषविषयः 'जोगो'त्ति योगोऽधिकृतः-प्रशस्तोऽप्रशस्तश्च, तत्र 'सम्मत्ताई पसत्य'त्ति सम्यक्त्वादीनाम् , आदिशब्दाद ज्ञानचरणपरिग्रहा, प्रशस्तः युज्यतेऽनेन करणभूतेनाऽऽस्माऽपवर्गेणेतिकृत्वा, 'इयरो उ विपरीओत्ति इतरस्तु मिथ्यावादियोंगा, 'विपरीत' इत्यप्रशस्तो वर्तते, युज्यतेऽनेनाऽऽत्माऽष्टविन कर्मेणेतिकृत्वाऽयं गाथार्थः ॥ १०३९ ॥ सावध योगमिति ब्याख्यातौ सूत्रावयवाविति, अधुना प्रत्याख्यामीत्यवयवप्रस्तावात् प्रत्याख्यानं निरूप्यते, इह प्रत्याख्यामीति वा प्रत्याचक्षे इति वा सत्तमपुरुपैकवचने द्विधा शब्दौ, तत्राऽऽद्यः प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आङ आभिमुख्ये ख्या प्रकथने, प्रतीपं आभिमुख्येन ख्यापनं सावधयोगस्य करोमि प्रत्याख्यामीति, अथवा 'चक्षिा व्यक्तायां वाचि' प्रतिषेधस्याऽऽदरेणाभिधानं करोमि प्रत्याचक्षे, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरित्यर्थः, इदं च षट्प्रकारं नामस्थापनाद्रव्यक्षेत्रातीच्छाभावभेदभिन्नमिति, *तत्र च नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यप्रत्याख्यानादि प्रतिपादयशाहदव्वंमि निहगाई ३ निव्विसयाई अहोइ खितमि ४ाभिक्खाईणमदाणे आच्छ ५ भावे पुणो दुविहं ॥१०४०॥ व्याख्या-द्रव्यमिति द्वारपरामर्शः, 'निहगाईत्ति निहवादिप्रत्याख्यानम् , आदिशब्दाद द्रव्ययोब्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा यत् प्रत्याख्यानं तद् द्रव्यप्रत्याख्यानमिति, 'निधिसयाई य होइ खित्तमिति निर्विषयादि च भवति क्षेत्र इति, तत्र निर्विषयस्याऽऽदिष्टस्य क्षेत्रप्रत्याख्यानम् , आदिशब्दानगरादिप्रतिषिद्धपरिग्रहा, 'भिक्षादीनामदानेऽति[ग] मछे ति भिक्षणं-भिक्षा प्राभृतिकोच्यते, आदिशब्दादू वस्त्रादिपरिग्रहा, तेषामदाने सत्यतिगच्छेति वचन * संथा चाह-मामं दवणा दबिए वित्तमविच्छा व भावमो संचानामाभिहाणमुत्र उवणागारनिक्लेवो इति गाथा चित् ॥ दितिया मतिगप्रत्या प्रत्याख्यानं, 'भावे पुणो दुविह'ति भाव इति द्वारपरामर्शः, भावप्रत्याख्यानं पुनर्द्विविधं, तत्र भावप्रत्याख्यानमिति भावस्य-सावधयोगस्य प्रत्याख्यानं भावतो वा-शुभात् परिणामोत्पादाद् भावहेतोर्वा-निर्वाणार्थ वा भाव एव वा-सावद्ययोगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानमिति गाथार्थः ॥ १०४० ॥ साम्प्रतं द्वैविध्यमेवोपदर्शयन्नाहसुअणोसुअ सुअ दुविहं पुन्ध १मपुव्वं २ तु होइ नायव्वं । नोसुअपञ्चक्खाणं मूले १ तह उत्तरगुणे अ२॥१०४१॥ __व्याख्या-'सुयणोसुय'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुयं दुविहंति श्रुतप्रत्याख्यानं द्विविधं, द्वैविध्यमेव दर्शयति-'पुषमपुवं तु होइ णाय'ति पूर्वश्रुतप्रत्याख्यानमपूर्वश्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्वमेव, अपूर्वश्रुतप्रत्याख्यानं स्वातुरप्रत्याख्यानादिकमिति, तथा 'नोसुयपञ्चक्खाणं'ति नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यदित्यर्थः, 'मूले तह उत्तरगुणे य'त्ति मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, तत्र मूलगुणप्रत्याख्यानं देशसर्वभेदं, देशतः श्रावकाणां सर्वतस्तु संयतानामिति, इहाधिकृतं सर्व, सामायिकानन्तरं सर्वशब्दोपादानादिति गाथार्थः॥१०४१॥ इह च वृद्धसम्प्रदायः पञ्चक्खाणे उदाहरणं रायधूयाए-वरिसं मंसं न खाइयं, पारणए अणेगाणं जीवाणंघाओकओ,साहहिं संबोहिया, पपइया, पुर्व दबपञ्चक्खाणं पच्छा भावपञ्चक्खाणं जातमिति कृतं प्रसनेन।प्रत्याख्यामीति व्याख्यातः सूत्रावयवः, अधुना यावजीवतयेति व्याख्यायते-इह चाऽऽदीभावार्थवाभिधित्सुराह प्रत्याख्याने उदाहरणं राजदुहितुः-वर्ष मांस न खादितं, पारणकेऽनेकेषां जीवानां धातः कृतः, साधुभिः संबोधिता, प्रबनिता, पूर्व प्रध्यप्रत्या l Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy