SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ॥११॥ मावश्यक-हारिभद्रीयतिः कर्म तस्यैव च प्रयाविशेष: करणमिति, तथाऽर्थान्तरे-कर्तृकर्मकरणानां भेदे दृष्ट एवं तद्भावः, तथा चाssह-पटादीनि यथा करोतीति वर्तते, तत्रापि कुलालः कर्ता घटः कर्म दण्डादि करणमिति । इह व सामायिक गुणो वर्तते, सच गुणिनः कथञ्चिदेव भिन्न इति । विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद्, गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावे-भेदे सति, कस्य ?-गुणस्य, किं केन सम्बद्धमिति,न किश्चित् केनचित् सम्बद्धं, ज्ञानादीनामपि गुणत्वात्सेवामपि चाऽऽत्मादिगुणिभ्य , संवेदनाभावतः सर्वव्यवस्थानुपपत्तेरिति भावना, एवमेकान्तेनानान्तरभावेऽपि दोषा अभ्यूह्या इति गाथार्थः ॥ १०३६ ॥ कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुतदोषोऽपि नास्ति, अनुवादद्वारेण चालनाप्रत्यवस्थानप्रवृत्तरित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमा, तत्र सर्वसावधं योगमित्याचवशिष्यते, तदिह सर्वशब्दनिरूपणायाऽऽहनामं १ ठवणा २ दविए ३ आएसे ४ निरवसेसए ५ चेव । तह सत्वधत्तसम्बंध ६ भाषसव्वं च सत्तमयं७॥ व्याख्या-इह सर्वमिति कः शब्दार्थः?, उच्यते, स गतौ' इत्यस्य औणादिको वप्रत्ययः सर्वशब्दो वा निपात्यते नियते स इति श्रियते वाऽनेनेति सर्वः, तदिदं च नामसर्व स्थापनासर्व द्रव्यसर्वम् आदेशसर्व निरवशेषसर्व, तथा सर्वधत्तसर्व च भावसर्व च सप्तममिति समासार्थः ॥ १०३७ ॥ व्यासार्थ तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याचिख्यासया पुनराहदविए चउरो भंगा सव्वरमसम्वे अ २दव्य १ देसे अ आएस सव्वगामोनीसेसे सव्वगं दुविहं॥१८५॥(भा०) व्याख्या-'द्रव्य' इति द्रव्यसर्वे चत्वारो भगा भवन्ति, तानेव सूचयन्ताह-'सबमसबे अ दर देसे यत्ति-अयमत्र भावार्थ:-ह यद्विवक्षितं द्रव्यमाल्यादि तत् कृत्-परिपूर्णम् अनूनं स्वैरवयवैः सर्वमुच्यते, सकलमित्यर्थः, एवं तस्यैव द्रव्यस्य कश्चित्स्वावयवो देशः कृरस्मतया-स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तद्देशे च सर्वत्वं, तयोरेष यथास्वमपरिपूर्णतायामसर्वत्वं, ततश्चतुर्भङ्गी-द्रव्यं सर्व देशोऽपि सर्वः १ द्रव्यं सर्व देशोऽसर्वः २ देशः सर्वः द्रव्यमसर्व ३ देशोऽसर्वः द्रव्यमप्यसर्वम् ४, अत्र यथाक्रममुदाहरणं-सम्पूर्णमङ्गुलि द्रव्यसर्व तदेव देशोनं द्रव्यमसर्व, तथा देशः-पर्व तत्सम्पूर्ण देशसर्वम् पर्वैकदेशः देशासर्वम् , एवं द्रव्यसर्वम् । अथाऽऽदेशसर्वमु. च्यते-आदेशनम् आदेश उपचारो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते देशेऽपि, यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते-सर्व घृतं भुक्तं भकं वा, प्रधानेऽप्युपचारः, यथा ग्रामप्रधानेषु पुरुषेषु गतेषु ग्रामो गत इति व्यपदिश्यते, तत्र प्रधानपक्षमेषाधिकृत्याऽऽह ग्रन्थकार:-'आएस सबगामो'त्ति आदेशसर्व सों ग्रामो गत इत्यायात इति वेति क्रियाभावनोक्तैव । एवमादेशसर्वमुक्तम्, अथ निरवशेषसर्वमभिधीयते, तत्राऽऽह'निसरोसे सवगं दुविहति निरवशेषसर्व 'द्विविधं द्विप्रकारं (ग्रन्थानम्० १२००० ) सर्वापरिशेषसर्व तद्देशापरिशेषसर्व चेति गाथार्थः ॥ १८५ ॥ अत्रोदाहरणमाह, तत्रअणिमिसिणो सव्वसुरा सव्वापरिसेससव्वगं एअंतदेसापरिसेसं सब्वे काला जहा असुरा २॥१८६॥(भा०) व्याख्या-'अनिमेषिणः सर्वसुराः' अनिमिषनयनाः सर्वे देवा इत्यर्थः, सर्वापरिशेषसर्वमेतत् , यस्मान्न कश्चिदेवानां मध्येऽनिमिएत्वं व्यभिचरतीति, तथा तद्देशापरिशेषमिति-तद्देशपरिशेषसर्व सर्वे काला यथा असुरा इति, इयमत्र भावनातेषामेव देवानां देश एको निकायः असुराः, ते सर्व एवासितवणों इति गाथार्थः ॥१८६॥ सर्वधत्तसर्वप्रतिपादनायाऽऽहसा हवा सव्वधत्ता दुपडोआरा जिआ य अजिआ य । वे सव्वघडाई सम्वद्धत्ता पुणो कसिण॥१८॥(भा०) __ व्याख्या-सा भवति ‘सबासा' इत्यत्र सर्व-जीवाजीवाख्यं वस्तु धत्तं-निहितमस्यां विवक्षायामिति सर्वधत्ता, ननु दधातेही (पा०७-४-४२) ति हिशब्दादेशाद्धितमिति भवितव्यं कथं धत्तमिति !, उच्यते, प्राकृते देशीपदस्थाविरुद्धत्वान्न दोषः, अथवा धत्त इति डिस्थवदव्युत्पन्न एव यदृच्छाशम्दा, अथवा सर्व दधातीति सर्वध-निरवशेषवचनं सर्वधमासं-आगृहीतं यस्यां विवक्षायां सा सर्वधाता, एवमपि निष्ठान्तस्य पूर्वनिपातः, 'जातिकालसुखादिभ्यः परवचन(पा०६-२-१७०) मिति परनिपात एव, अथवा सर्वधेन आत्ता सर्वधात्ता तया यत् सर्व तत् सर्वधात्तासर्वमिति, सा च भवति सर्वधात्ता 'दुपडोयार'त्ति द्विप्रकारा-जीवाश्चाजीवाश्च, यस्मात् यत् किश्चनेह लोकेऽस्ति तत् सर्व जीवाश्चाजीवाश्च, न ह्येतद्व्यतिरिकमन्यदस्ति, अत्राऽऽह-द्रव्यसर्वस्य सर्वधत्तासर्वस्यच को विशेष इति', अयमभिप्रायः-द्रव्यसर्वमपि विवक्षयाऽशेषद्रव्यविषयमेव, अत्रोच्यते, 'दवे सबघडाई' इह द्रव्यसर्वे सर्वे घटादयो गृह्यन्ते, आदिशब्दादगुल्यादिपरिग्रहः, सर्वधत्ता पुनः कृत्स्नं वस्तु व्याप्य व्यवस्थितेति विशेष इत्ययं गाथार्थः ॥ १८७ ॥ अधुना भावसर्वमुच्यतेभावे सव्वोदइओदयलक्खणओ जहेव तहसेसा । इत्थ उ खओवसमिए अहिगारोऽसेससव्वे ॥१८॥(भा०) व्याख्या-'भाव' इति द्वारपरामर्शः, सर्वो द्विप्रकारोऽपि शुभाशुभभेदेन औदयिका-उदयलक्षणः कर्मोदयनिष्पन्न इत्यर्थः यथैवायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्या इति वाक्यशेषः, तत्र मोहनीयकर्मोपशमस्वभावतः शुभः सर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy