________________
॥३१६॥
आवश्यक - हारिभद्रीयवृत्तिः
धिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ ३ ॥ आवस्सयपि णिच्चं गुरुपामूलंमि देसियं होइ । वीपि हि संवसओ कारणओ जयइ मेज्जाए ॥ ४ ॥ एवं चिय सबावस्सयाइ आपुच्छिऊण कज्जाई । जाणात्रियमामंतणवणाओ जेण सधेसिं ॥ ५ ॥ सामाइयमाईयं भदंतसद्दी य जं तयाईए । तेणाणुवत्तइ तओ करेमि भंतेत्ति सबेसु ॥ ६ ॥ किच्चा किच्चं गुरुवो विदंति विणयपडिवत्तिहेउं च । ऊसासाइ पमोत्तुं तयणापुच्छाय पडिसिद्धं ॥ ७ ॥ गुरु विरहमिव वागुरुवि सेवोवदंसणत्थं च । जिणविरहंमिऽवि जिणविंब सेवणामंतणं सफलं ॥ ८ ॥ रनो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परोक्खरसवि गुरुणो सेवा विणयहेरं ॥ ९ ॥" इत्यादि, कृतं विस्तरेण ॥ साम्प्रतं सामायिकद्वारव्याचिख्यासयाऽऽह
सामं १ समं च २ सम्म ३ इग ४ मवि सामाइअस्स एगट्ठा। नामं ठषणा दविए भावंमि अ तेसि निक्लेवो ॥। १०३० महुरपरिणाम सामं १ समं तुला २ संम खीरखंडजुई ३ । दोरे हारस्स चिई इग ४ मेआई तु दव्वंमि ॥१०३१॥
१ स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चति ॥ ३ ॥ आवश्यकमपि नित्यं गुरुपादमूले देशितं भवति । विष्वपि हि संवसतः कारणतो यतते शय्यायाम् ॥ ४ ॥ एवमेव सर्वावश्यकानि आपृच्छय कार्याणि । ज्ञापितमामब्रणवचनात् येन सर्वेषाम् ॥ ५ ॥ सामायिकमादी मदन्तशब्दश्य सदादौ । तेनानुवर्त्तते ततः करोमि भदन्त इति सर्वेषु ॥ ६ ॥ कृत्याकृत्यं गुरवो विदन्ति विनयप्रतिपत्तिहेतवे व उच्छ्रासादि प्रमुच्य तदमापृच्छया प्रतिषिद्धम् ॥ ७ ॥ गुरुबिरहेऽपि स्थापनागुरुरपि सेवोपदर्शनार्थे च । जिनविरहेऽपि जिनबिम्ब सेवनामन्त्रणं सफलम् ॥ ८ ॥ राज्ञ इव परोक्षस्यापि यथा सेवा मन्त्रदेवताया वा । तथैव परोक्षस्यापि गुरोः सेवा विनयहेतवे ॥ ९ ॥ * रूवदेसोवयं ० ( वि०)
ब्याख्या—इह सामं समं च सम्यकू ' इगमवि' देशीपैदं क्वापि प्रदेशार्थे वर्तते, सम्पूर्ण शब्दावयवमेत्राधिकृत्याऽऽह्सामायिकस्यैकार्थिकानि । अमीषां निक्षेपमुपदर्शयन्नाह - नामस्थापनाद्रव्येषु भावे च नामादिविषय इत्यर्थः, 'तेषा' सामप्रभृतीनां निक्षेपः, कार्य इति गम्यते स चायं - नामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यकूपदयोरपि द्रष्टव्यः ॥ तत्र नामस्थापने क्षुण्णे एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह -
"महुरे' त्यादि, – इहौघतो मधुरपरिणामं द्रव्यं शर्करादि द्रव्यसाम समं 'तुला' इति भूतार्थालोचनायां समं तुलाद्रव्यं, सम्यकू 'क्षीरखण्डयुक्तिः' क्षीरखण्डयोजनं द्रव्यसम्यगिति, तथा 'दोरे' इति सूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविप - यापेक्षा 'हारस्य' मुक्ताकलापस्य चयनं चितिः - प्रवेशनं द्रव्येकम्, अत एवाह - 'एयाई तु दबंमि'त्ति एतान्युदाहरणानि द्रव्यविषयाणीति गाथाद्वयार्थः ॥ १०३१ ॥ साम्प्रतं भावसामादि प्रतिपादयन्नाह -
आओ माइ परदुक्खमकरणं १ रागदोसमज्झत्थं । नाणाइतिगं ३ तस्साह पोअणं ४ भावसामाई ॥ १०३२ ॥ व्याख्या - आत्मोपमया - आत्मोपमानेन परदुःखाकरणं भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः, एतदुक्तं भवतिआत्मनीव परदुःखाकरणपरिणामो भावसाम, तथा 'रागद्वेषमाध्यस्थ्यम्' अनासेवनया रागद्वेषमध्यवर्तित्वं समं, सर्वत्राssत्मनस्तुल्यरूपेण वर्तनमित्यर्थः, तथा ज्ञानादित्रयमेकत्र सम्यगिति गम्यते, तथाहि - ज्ञानदर्शनचारित्रयोजनं सम्यगेव, मोक्षप्रसाधकत्वादिति भावना, ' तस्य' इति सामादि सम्बध्यते, 'आत्मनि प्रोतनम्' आत्मनि प्रवेशनम् इकमुच्यते, अत एवाऽऽहा
+ देशीपदे *परदुःखावरणं प० । इत्यत एवाह - 'भावसामाई' भावसामादीनि प्रतिपत्तव्यानीति प्र.
'भावसामाई' भावसामादावेतान्युदाहरणानीति गाथार्थः ॥ १०३२ ।। सामायिकशब्दयोजना चैवं द्रष्टव्या - इहात्मन्येव सान इकं निरुक्तनिपातनात् [ यद् यलक्षणेनानुपपन्नं तत् सर्वं निपातनात् सिद्धमिति ] सानो नकारस्याऽऽय आदेशः, ततश्च सामायिकम् एवं समशब्दस्याऽऽयादेशः, समस्य वा आयः समायः स एव सामायिकमिति, एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन ॥ साम्प्रतं सामायिकपर्यायशब्दान् प्रतिपादयन्नाह -
समया सम्मत्त पसत्थ संति सुविहिअ सुहं अनिंदं च । अनुगुंछिअमगरिहिअं अणवज्जमिमेऽवि एगट्ठा ॥ १०३३
व्याख्या - निगदसिद्धैव । आह-अस्य निरुक्तावेव 'सामाइयं समइय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थमभिधानमिति ?, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यान्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमभेदतोऽनन्ता गमा अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहार्थं तत्रोक्तावप्यभिधानमदुष्टमेव इत्यत एवोकम् - 'इमेऽवि एगट्ठत्ति एतेऽपि तेऽपीत्यदोषः ॥ साम्प्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयन्नाह ग्रन्थकारः
को कार ओ ?, करंतो किं कम्म ?, जं तु कीरई तेण । किं कारयकरणाण य अन्नमणन्नं च अक्खेवो ॥ १०३४ ॥
व्याख्या - इह 'करोमि भदन्त ! सामायिकम्' इत्यत्र कर्तृकर्मकरणव्यवस्था वक्तव्या, यथा करोमि राजन् ! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः ? इत्यत आह-' करें तो 'सि तत् कुर्वन्नात्मैव, अथ किं कर्म घटादिसंस्थानीयम् ? इत्यत्राऽऽह - यत्तु 'क्रियते' निर्वर्त्यते 'तेन' कर्त्रा तच्च तद्गुणरूपं सामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org