SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ मावश्यक-हारिभद्रीयवृत्तिः उहिसिजंतमाई' शिष्ये-शिष्यविषयम् उद्दिश्यमानादि-उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणम् अनुज्ञायमानकरणं च, 'एयं तु जं कइह'त्ति एतदेव चतुर्विधं तद् यदुक्तं कतिविधमिति गाथार्थः ॥ १८३ ॥ आह-पूर्वमनेकविधं नामादिकरणमभिहितमेव, इह पुनः किमिति प्रश्नः, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम् , इह पुनरस्मिन् गुरुशिप्यदानग्रहणकाले चतुर्विध करणमिति, पूर्व वा करणमविशेषेणोक्तम्, इह गुरुशिष्यक्रियाविशेषाद् विशेषि. तमिति न पुनरुनम् , अथवाऽयमेव करणस्यावसरः, पूर्वत्रानेकान्तद्योतनार्थ विन्यासः कृत इति विचित्रा सूत्रस्य कृतिरित्यलं विस्तरेण, द्वारं ६ । कथमिति द्वारमिदानी, तत्रेयं गाथाकह सामाइअलंभो! तस्सव्वविघाइदेसवाघाई । देसविधाईफडगअणंतबुड्ढीविसुद्धस्स ॥ १०२८॥ एवं ककारलंभो मेसाणवि एवमेव कमलंभो(दा०)। एअं तु भावकरणं करणे अ भए अजं भणिअं॥१०२२॥ ___ अस्या व्याख्या-'कथं' केन प्रकारेण सामायिकलाभ इति प्रश्नः, अस्योत्तरं-तस्य-सामायिकस्य सर्वविघातीनि देशविघातीनि च स्पर्द्धकानि भवन्ति, इह सामायिकावरणं-ज्ञानावरणं दर्शनावरणं [मिथ्यात्व]मोहनीयं च, अभीपां द्विविधानि स्पर्द्धकानि-देशघातीनि सर्वघातीनि च, तत्र सर्वघातिषु सर्वेपूयातितेषु सत्सु देशघातिस्पर्द्धकानामप्यनन्तेपू. दूघातितेप्वनन्तगुणवृद्ध्या प्रतिसमयं विशुध्यमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृद्धव प्रतिसमयं विशुद्धमानः सन् रेफमित्येवं शेषाण्यपि, अत एवाऽऽह-देशघातिस्पर्द्धकानन्तवृद्धयां विशुद्धस्य सतः॥ किं ?'एव'मित्यादि,-पूर्वार्द्ध गतार्थम् . आह--उपक्रमद्वारेऽभिहितमेतत्-क्षयोपशमात् जायते, पुनश्चोपोद्घातेऽभिहितमेतत्कथं लभ्यत इति तत्रोक्तम् , इह किमर्थ प्रश्न इति पुनरुक्तता, उच्यते, त्रयमप्येतदपुनरुक्तं, कुतः ?, यस्मादुपक्रमे क्षयोपशमात् सामायिक लभ्यत इत्युक्तम् , उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह पुनर्विशेपित तरः प्रश्नः-केषां पुनः कर्मणां स क्षयोपक्षम इति प्रत्यासन्नतरकारणप्रश्न इत्यलं प्रसङ्गेन । द्वारमेवोपसंहरमाह-एतदेव-अनन्तरोदित सामायिककरणं यत्तद्भावकरणं 'करणेय'त्ति उपन्यस्तद्वारपरामर्शः । 'भए यत्ति भयमपि 'यद् भणितं' यदुक्तमिति गाथाद्वयार्थः ॥ १०२८-२९ ॥ मूलद्वारगाथायां करणमित्येतद् द्वारं व्याख्यातम् , एतद्व्याख्यानाच सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽहहोइ भयंतो भयअंतगो अ रयणा भयस्स छन्भेआ। सव्वंमि बनिएऽणुकमेण अंतेवि छन्भेआ॥१८४॥ (भा०) ___ व्याख्या-भवति भदन्त इत्यत्र 'भदि कल्याणे सुखे च' अर्थद्वये धातुः 'जुविशिभ्यां झवू' (उ. पा. ४१३) औणादिकप्रत्ययो दृष्टः, तं दृष्ट्वा प्रकृतिरुह्यते, भदि कल्याण इति अनुनासिकलोपश्चति, तस्यौणादिकविधानात्, ततश्च भदन्त इति भवति, भदन्त:-कल्याणः सुखश्चेत्यर्थः, प्राकृतशैल्या वा भवति भवान्त इति, अत्र भवस्य-संसारस्यान्तस्तेनाऽऽचायेण क्रियत इति भवान्तकरत्वाद् भवान्त इति, तथा-भयान्तश्चेत्यत्र भयं-त्रासः तमाचार्य प्राप्य भयस्यान्तो भवतीति भयान्तो-गुरुः,भयस्य वाऽन्तको भयान्तक इति,तस्याऽऽमन्त्रणं,'रचना' नामादिविन्यासलक्षणा,भयस्य 'पहभेदाः' षटूप्रकारा:-नामस्थापनाद्रव्यक्षेत्रकालभावभेद भिन्नाः, तत्र पञ्च प्रकाराः प्रसिद्धाः, षष्ठं भावभयं सप्तधा-इहलोकभयं परलोकभयमादानभयमकस्माभयमश्लोकभयमाजीविकाभयं मरणभयं चेति, तत्रापीहलोके भयं स्वभवाद् यत् प्राप्यते परलोकभयं परभवात् , किश्चनद्रव्यजातमादानं तस्य नाशहरणादिभ्यो भयम् आदानभयं, यत्तु वाह्यनिमित्तमन्तरेणाहेतुकं भयम् अकस्माद् भवति तदाकस्मिकं, 'श्लोक श्लाघायां' श्लोकंनं श्लोकः श्लाघा-प्रशंसा तविपर्ययोऽश्लोकस्तस्माद् भयमश्लोकभयम्, आजीविकागर्य-दुर्जीविकाभयं, प्राणपरित्यागभयं मरणभयमिति, एवं सर्वस्मिन् वर्णिते 'अनुक्रमेण' उक्तलक्षणेनान्तेऽपि षडू भेदा इति, तत्र 'अम गत्यादिषु' अमनमन्तः-अवसानमित्यर्थः, अस्मिन्नपि षडू भेदाः, तद्यथानामान्तः स्थापनान्तः द्रव्यान्तः क्षेत्रान्तः कालान्तः भावान्तश्चेति, नामस्थापने क्षुण्णे, द्रव्यान्तो घटाधन्तः, क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्रान्तः, कालान्तः समयाद्यन्तः, भावान्तः औदयिकादिभावान्तः॥ . एवं सत्वंमिऽवि वनिमि इत्थं तु होइ अहिगारो । सत्तभयविप्पमुक्के तहा भवंते भयंते अ॥१८॥ (भा.) व्याख्या-'एषम्' उक्तेन प्रकारेण 'सर्वस्मिन्' अनेकभेदमिन्ने भयादौ वर्णिते सति 'अत्र तु' प्रकृते भवत्यधिकारःप्रकृतयोजना सप्तभयविप्रमुक्तो यस्तेन, तथा भवान्तो यः भदन्तश्चेति, पश्चानुपूर्या ग्रन्थ इति गाथाद्वयार्थः ।। १८५ ॥ मूलद्वारगाथायां व्याख्यातं भयान्तद्वारद्वयं, तद्व्याख्यानाच भदन्तभवान्तभयान्त इति गुवाम र्थः सूत्रावयव इति, उक्तं च -भाष्यकारेण 'आमंतेइ करेमी भदंत! सामाइयंति सीसोऽयं । आहामंतणवयणं गुरुणो किंकारणमिणंतिी ॥१॥ भण्णइ-गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । णिचं गुरुकुलवासी हवेज सीसो जओऽभिहियं ॥२॥ नाणस्स होइ भागी भामन्त्रयति करोमि भदन्त ! सामापिकमिति शिष्योऽयम् । आह आमन्त्रणवचनं गुरोः किंकारणमिदमिति ॥भण्यते-गुरुकुलवासोपसंप्र हार्य यथा गुणार्थीह । नित्यं गुरुकुलवासी भवेत् शिष्यो यतोऽभिहितम् ॥२॥ज्ञानस्य भवति भागी Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy