________________
॥३१४॥
आवश्यक हारिभद्रीयवृत्तिः
णामतत्वादखौ यतिरेय, शुद्धिश्चास्य यावत् सूत्रमधीतं तावत् तेनैव प्रतिक्रमणं कुर्वत इत्यलं विस्तरेणेति गाधार्थः ॥ ॥ १७९ ॥ द्वारम् ॥ अधुनैकगाधयैव विनयादिद्वारत्रयं व्याचिख्यासुराह
आलोइए विणीअस्स दिजए तं ( पडि २ ) पसत्धखितंमि । ( प० ३ )
अभिग दो दिसाओ चरंतिअं वा जहाकमसो ॥ १८० ॥ ( प० ४ ) ( भा० )
व्याख्या-आलोचिते सति विनीतस्य, पादधावनानुरागादिविनयवत इत्यर्थः, उक्तं च भाष्यकारेण - 'अणुरतो भक्तिगओ अमुई अणुयत्तओ विसेसण्णू । उज्जुतगऽपरितंतो इच्छियमत्थं लहइ साहू ॥ १ ॥' दीयते 'तत्' सामायिकं, तस्यापि न यत्र तत्र कचित् किं तर्हि ?, 'प्रशस्तक्षेत्रे' इक्षुक्षेत्रादाविति, अत्राप्युक्तं- 'उच्छुवणे सालिवणे पउमसरे कुसुमिए य वणसंडे । गंभीरसाणाए पयाहिणजले जिणधरे वा ॥ १ ॥ देज ण उ भग्गझामियसुसाणसुण्णासु सैण्णगेहेसु । छारंगारकयारामेझादवदुद्धे वा ॥ २ ॥' तथा 'अभिगृह्य' अङ्गीकृत्य द्वे 'दिशौ' पूर्वा वोत्तरां वा दीयत इति वर्तते, तथा चरन्तीं वा, तत्र चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनःपर्यायज्ञान्यवधिज्ञानि चतुर्दशपूर्वरादयो यावद् युगप्रधाना इति बिहरन्ति, यथाक्रमश इति गुणापेक्षया तासु दिक्षु यथाक्रमेण दीयत इति, उक्तं च-पुधाभिमुो उत्तरमुहो व देजाऽहवा परिच्छिना।
१ अनुरको भक्तिगतोऽमोची अनुवर्त्तको विशेषज्ञः । वचतकोsपरितान्त इष्टमर्थ कभते साधुः ॥ १ ॥ १ इक्षुवने झालीय ने पद्मसरसि कुसुमिते च बनखण्डे । गम्भीरसानुनादे प्रदक्षिणजले जिनगृहे वा ॥ १ ॥ दधात् न तु भन्नध्यामितश्मशान शून्येषु संज्ञागेदेश । क्षाराङ्गारकचवरामेध्यादिमध्य वा ॥ २ ॥ ३ पूर्वाभिमुख उत्तरमुखो वा दद्यादथवा प्रतीच्छेत् । * •ण्णामणुण्ण० प्र. जाएं जिणादओ वा दिसाऍ जिणबेहयाई वा ॥ १ ॥ इति गाथार्थः ॥ १८० ॥ द्वारश्रयं गतम् अधुना कालादिशात्रयमेकगाथयैपाभिधित्सुराह
पडिदिणे वजिअ रिक्वेसु अ मिगसिराइ भणिएसुं । पियधम्माई गुणसंपयासु तं होइ दा पब्बं ।। १८२ ॥ भा० ) व्याख्या - प्रतिक्रुष्टानि - प्रतिषिद्धानि दिनानि - वासराः, प्रतिक्रुष्टानि च तानि दिनानि चेति विग्रहः, तानि चतुर्दश्यादीनि वर्जयित्वाऽप्रतिक्रुष्टेष्वेव पञ्चम्यादिषु दातव्यमिति योगः, उक्तं च- "चाउद्देसिं पण्णरसिं वज्जेज्जा अहर्मिच नवमं च । छद्धिं च चउस्थि बारसिं च दोण्हंपि पक्खाणं ॥ १ ॥” एतेष्वपि दिनेषु प्रशस्तेषु मुहूर्तेषु दीयते, नाप्रशस्तेषु, तथा 'ऋक्षेषु' नक्षत्रेषु च मृगशिरादिषु, 'उत्तेषु' प्रन्थान्तराभिहितेषु, न तु प्रतिषिद्धेषु, उक्तं च - " मिसिर अद्दापूसो तिणि य पुबाइ मूलमस्सेसा । हत्थो चित्ता य तहा दह वुहिकराई णाणस्स ॥ १ ॥” तथा - 'संज्ञागयं रविगयं विदुरं सग्गहं विलंबिं च । राहुहयं गहभिन्नं च वज्जए सत्त नक्खते ॥ २ ॥ तथा प्रियधर्मादिगुणसम्पत्सु सतीषु 'तत्' सामायिकं भवति दातव्यमिति, उक्तं च- "पिर्येधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य । खंतो दंतो गुत्तो थिरबय जिइंदिओ उज्जू ||१||”विनीतस्याप्येता गुणसम्पदोऽन्वेष्टव्या इति गाथार्थः ॥ १८१ ॥ (१.५-६-७) साम्प्रतं चरमद्वारव्याचिख्यासयाऽऽह
१ यस्यां जिनादयो वा दिशि जिनचैत्यानि वा ॥ १ ॥ २ चतुर्दशीं पञ्चदश वर्जयेत् अष्टम च नवमीं च । षष्ठीं च चतुर्थी द्वादश च द्वयोरपि पक्षयोः ॥ १ ॥ ३ मृगशिरः आर्द्रा पुष्यं तिस्रश्च पूर्वा मूलमश्लेषाः । हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य ॥ १ ॥ संध्यागतं रविगतं विवरं सग्रहं विलम्बि च। राहु ग्रहभिन्नं च वर्जयेत् सप्त नक्षत्राणि ॥ १ ॥ ४ प्रियधर्मा धर्मा संविमोऽवद्यभीरुरशठश्च । क्षान्तो दान्तो गुप्तः स्थिरव्रतो जितेन्द्रिय ऋजुः ॥ १ ॥ अभिवाहारो कालिअसुअंमि सुत्तत्थतदुभएणं ति । दव्वगुणपज्जवेहि अ दिट्ठीवार्यमि बोद्धव्वो॥१८२॥ (१०८) भा०
व्याख्या—‘अभिव्याहरणम' आचार्यशिष्ययोर्वचनप्रतिवचने अभिव्याहारः, स च 'कालिकश्रुते' आचारादौ 'सुतत्थतदुभएणं'ति सूत्रतः अर्थतस्तदुभयतश्चेति, इयमत्र भावना - शिष्येणेच्छाकारेणेदमङ्गाद्युद्दिशत इत्युक्ते सतीच्छापुरसरमाचार्यवचनम् - अहमस्य साधोरिदमङ्गमध्ययनमुद्देशं वोद्दिशामि - वाचयामीत्यर्थः, आप्तोपदेशपारम्पर्यख्यापनार्थे क्षमाश्रमणानां हस्तेन, न स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतो वाऽस्मिन् कालिकश्रुते अ (त) थोत्कालिके, दृष्टिवादे कथमिति ?, तदुच्यते - 'दबगुणपज्जवेहि य दिट्ठीवायंमि बोद्धबो' द्रव्यगुणपयायैश्च 'दृष्टिवादे' भूतवादे बोद्धव्योऽभिव्याहार इति, एतदुक्तं भवति - शिष्यवचनानन्तरमाचार्यवचनमुद्दिशामि सूत्रतोऽर्थतश्च द्रव्यगुणपर्यायैः अनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः-त्रवीति शिष्यः - उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषैर्नयैर्गतमिति गाथार्थः ॥ १८२ ॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधि कृतमूलद्वारगाथायामेव करणं कतिविधमिति व्याचिख्यासुराह—
उद्देस१ समुहे से २वायण३मणुजाणणं च ४ आयरिए । सीसम्मि उद्दिसिज्जतमाह एअं तु जं कइहा ॥ १८३॥ भा०दा०६
व्याख्या - इह गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं, तच्चतुर्द्धा - 'उद्देस समुद्दे से 'ति उद्देशकरणं समुदेशकरणं 'वायणमणुजाणणं च'त्ति वाचनाकरणमनुज्ञाकरणं च, छन्दोभङ्गभयादिह वाचनाकरणमत्रोपन्यस्तम्, अन्यथाऽमुना क्रमेण ह - उदेशो वाचना समुद्देशोऽनुज्ञा चेति गुरोर्व्यापारः, 'आयरिए 'ति गुराविदं करणं गुरुविषयमित्यर्थः, 'सीसम्मि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org