________________
॥३६॥ मावश्यक-हारिभद्रीयवृत्तिः वामपायं पच्छओहुतं ओसारेइ, अंतरं दोण्हवि पायाणं पंचपाया, एवं चेव विवरीयं पञ्चालीढं, वइसाहं पण्हीओ अम्भितराहुत्तीओ समसेढीए करेइ, अग्गिमयलो बहिराहुत्तो, मंडलं दोवि पाए दाहिणवामहत्ता ओसारेत्ता अरुणोवि आटावेइ जहा मंडलं भवइ, अंतरं चत्तारि पया, समपायं दोवि पाए समं निरंतरं ठवेइ, एयाणि पंचट्ठाणाणि, लोगणवाए(१) सयणकरणं छठं ठाणं, इत्यलं विस्तरेण ॥ उक्तं श्रुतकरणम् , अधुना नोश्रुतकरणमभिधित्सुराहनोसुअकरणं दुविहं गुणकरणं तह य मुंजणाकरणं । गुणकरणं पुण दुविहं तवकरणे संजमे अ तहा ॥१०२४॥ __ व्याख्या-श्रुतकरणं न भवतीति नोश्रुतकरणम्, 'अमानोनाः प्रतिषेधवाचका' इति वचनात् , 'द्विविध' द्विप्रकार 'गुणकरणम्' इति गुणानां करणं गुणकरणं, गुणानां कृतिरित्यर्थः, 'तथा' इति निर्देशे 'चः' समुच्चये व्यवहितश्चास्य योगा, कथं ?, 'योजनाकरणं च' मनःप्रभृतीनां व्यापारकृतिश्चेत्यर्थः, गुणकरणं पुनः 'द्विविधं' द्विप्रकार, कथं ?, 'तपकरणम्' इति तपसः अनशनादेर्बाह्याभ्यन्तरभेदभिन्नस्य करणं तपकरणं, तपःकृतिरिति हृदयं, तथा 'संजमे अत्ति संयमविषद च पञ्चाश्रवविरमणादिकरणमिति भाव इत्ययं गाथार्थः ॥ १०२४ ॥ इदानीं योजनाकरणं व्याचिख्यासुराहझुंजणकरणं तिविहं मण १ वयरकाए अश्मणसि सच्चाई। सहाणि तेसि भेभो चउरच उहारसत्सहा ३ व १०२५
वामपाद पश्चात्कृत्यापसारयति, अन्तरं द्वयोरपि पादयोः पञ्च पादाः, एवमेव विपरीतं प्रत्यालीढं, वैशाखं पाणी अभ्यन्तरे समश्रेण्या करोति, भमतली वामतः, मण्डलं द्वावपि पादौ दक्षिणवामतः अपसार्य अरू अपि आकुञ्चति यथा मण्डलं भवति, भरतरं चत्वारः पादाः, समपादं द्वावपि पादौ समं निरन्त स्थापयति, एतानि पञ्च स्थानानि, कोकप्रवादे (हे) शयनकरणं षष्ठं स्थानम्।
व्याख्या-योजनाकरणं त्रिविध' त्रिप्रकारं 'मणवइकाए यत्ति मनोवाक्कायविषयं, तत्र 'मनसि सत्यादि' मनोविषय सत्यादियोजनाकरणं तद्यथा-सत्यमनोयोजनाकरणम् , असत्यमनोयोजनाकरणं, सत्यमृषामनोयोजनाकरणम् , असत्यामृषामनोयोजनाकरणमिति, 'स्वस्थाने प्रत्येकं मनोवाकायलक्षणे 'तेषां' योजनाकरणानां 'भेदः' विभागः 'चउचउहा सत्तहा चेव'त्ति अयमत्र भावार्थः-मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यं, काययोजनाकरणं तु सप्तभेदं, तद्यथा-औदारिककाययोजनाकरणम् , एवमौदारिकमिश्रम्, एवं वैक्रियकायः एवं वैक्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम्, एवं कार्मणकाययोजनाकरणमिति गाथार्थः ॥ १०२५ ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणम्, अधुनाऽत्र येनाधिकार इति तद्दर्शनायाऽऽहभावसुअसद्दकरणे अहिगारो इत्थ होइ कायव्यो। नोसुअकरणे गुणझुंजणे अ जहसंभवं होई ॥१०२६ ॥
व्याख्या-भावश्रुतशब्दकरणे 'अधिकारः' अवतारो भवति कर्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, तस्य अन्ते यथासम्भवाभिधानाद्, इह चभावश्रुतं सामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छब्दविशिष्टः श्रुतभाव एवं विवक्षितो न तु द्रव्यश्रुतमिति, तत्र वस्तुतोऽस्यानवतारात्, तथा नोश्रुतकरणमधिकृत्य 'गुणझुंजणे यति गुणकरणे योजनाकरणे च यथासम्भवं भवति, अधिकरणमिति गम्यते, तत्र यथासम्भवमिति गुणकरणे चारित्रसामायिकस्यावतारा, तपःसंयमगुणात्मकत्वाचारित्रस्य, योजनाकरणे च मनोवाग्योजनायां सत्यासत्यामृषाद्वये द्वयस्यापि भावनीयः, काययोजनायामपि द्वयस्याद्यस्यैतेति गाथार्थः ॥ १०२६ ॥ साम्प्रतं सामायिककरणमेवाव्युत्पन्नाविनेयवर्गव्युत्पादनार्थ सधभिरनु. योगद्वारैः कृताकृतादिभिः निरूपयन्नाह
कयाकयं १ केण कयं २ केसु अव्वेसु कीरई वावि ३।
काहे व कारओ ४ नयओ ५ करणं काविहं ५ (च) कहं ७१ ॥१०२७॥ व्याख्या-'कयाकयंति सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत्सामायिकमस्याः क्रियायाः प्राकू किं कृतं क्रियते ? आहोश्विदकृतमिति, उभयथाऽपि दोषः, कृतपक्षे भावादेव करणानुपपत्तेः, अकृतपक्षेऽपि वान्ध्येयादेरिव करणानुपपत्तिरेवेति, अत्र निर्वचनं, कृतं चाकृतं च कृताकृतं, नयमतभेदेन भावना कार्या, केन कृतमिति वक्तव्यं, तथा केषु द्रव्येष्विष्टादिषु क्रियते, कदा वा कारकोऽस्य भवतीति वक्तव्यं, 'नयत' इति केनालोचनादिना नयेनेति, तथा करणं 'कइविह' कतिभेदं 'कथं' केन प्रकारेण लभ्यत इति वक्तव्यमयं गाथासमासार्थः ॥ १०२७॥ अवय. वार्थ तु प्रतिद्वारं भाष्यकार एव वक्ष्यति, तत्राऽऽधद्वारावयवार्थाभिधित्सयाऽऽह-- उप्पन्नाणुप्पन्नं कयाकयं इत्थजह नमुक्कारे।दा०१॥केणंति अत्थओतं जिणेहिं मुत्तंगणहरेहिं॥१७॥(दा०२)मा०
व्याख्या-इहोत्पन्नानुत्पन्नं कृताकृतमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, द्रव्यपर्यायोभयरूपत्वाद्वस्तुन इति, अत्र नैगमादिनयैर्भावना कार्येति, अत एवाऽऽह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org