SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ॥२९॥ मावश्यक-हारिभद्रीयवृत्तिः उन्मुक्ककर्मकवचाः सकलकर्मवियुक्तत्वात् , तथा अज़रा वयसोऽभावात्, अमरा आयुषोऽभावात् , असङ्गाश्च सकलक्ले. शाभावादिति गाथार्थः ॥ ९८७ । साम्प्रतमुपसंहरमाहनिच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाषाहं सुक्खं अणुहुंती सासयं सिद्धा ॥ ९८८ ॥ व्याख्या-वस्तुतो व्याख्यातैवेति न प्रतन्यते ॥ सिद्धाण नमोकारो जीवं० ॥९८९ ॥ सिद्धाण नमुक्कारो धन्नाण०॥९९०॥सिद्धाण नमुकारो एवं० ॥ ९९१॥ सिद्धाण नमुक्कारो सव्व० विइ होइ मंगलं ॥९९२ ॥ गाथासमूहः सामान्यतोऽहन्नमस्कारवदवसेयः, विशेषतस्तु सुगम एवेति ॥ उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारः, तत्राचार्य इति कः शब्दार्थ, उच्यते,-'चर गतिभक्षणयोः' इत्यम्य (चरेः) आङि वा गुरा (पा० ३१-१०० वार्त्तिके ) विति ण्यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत इत्यर्थः, अयं च नामादिभेदाच्चतुर्विधः, तथा चाऽऽहनामंठवणादविए भावंमि चउब्विहो उ आयरिओ। दध्वंमि एगभविआई लोइए सिप्पसत्थाई ॥ ९९३ ॥ . __ व्याख्या-नामाचार्यः स्थापनाचार्यः द्रव्याचार्यो भावाचार्य इति, तत्र नामस्थापनाचार्यों सुगमौ, द्रव्याचार्यमागमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वादनादृत्य ज्ञशरीरादिव्यतिरिक्तं द्रव्याचार्यमभिधातुकाम आह'द्रव्य' इति द्रव्याचार्यः, 'एकभविकादिः' एकभविकः बद्धायुष्कः अभिमुखनामगोत्रश्चेति, अथवा आदिशब्दाद्द्रव्यभूत आचार्य द्रव्याचार्यः, भूतशब्द उपमावाची, द्रव्यनिमित्तं वा य आचारवानित्यादि, भावाचार्यः-लौकिको लोकोत्तरश्च, तत्र लौकिकः शिल्पशास्त्रादिः, तत्परिज्ञानात् तदभेदोपचारेणैवमुच्यते, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये त्वेवं भेदमकृत्वौधत एवैनमपि द्रव्याचार्य व्याचक्षत इति गाथार्थः ॥ ९९३ ॥ अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयन्नाहपंचविहं आयारं आयरमाणा तहा पभासंता । आयारं दंसंता आयरिया तेण वुचंति ॥ ९९४ ॥ व्याख्या-'पञ्चविधं' पञ्चप्रकारं-ज्ञानदर्शनचारित्रतपोवीर्यभेदात् , 'आचार' मिति आङ् मर्यादायां चरणं चार:मर्यादया कालनियमादिलक्षणया चार आचार इति, उक्तं च-'काले विणए बहुमाणे' इत्यादि, तमाचरन्तः सन्तः अनुष्ठानरूपेण, तथा प्रभाषमाणाः अर्थात् व्याख्यानेन, तथाऽऽचारं दर्शयन्तः सन्तः प्रत्युपेक्षणादिक्रियाद्वारेण, मुमुक्षुभिः सेव्यन्ते येन कारणेनाचार्यास्तेनोच्यन्त इति गाथार्थः ॥ ९९४ ॥ अमुमेवार्थ स्पष्टयनाह आयारो नाणाई तस्सायरणा पभासणाओ वा । जे ते भावायरिया भावायारोवउत्ता य ॥ ९९५ ॥ व्याख्या-आचारः' पूर्ववत् ज्ञानादिपञ्चप्रकारः, तस्य आचारस्याऽऽचरणात् प्रभाषणाद्वा, वाशब्दाद् दर्शनाद्वा हेतोर्ये मुमुक्षुभिर्गुणैर्वा ज्ञानादिभिराचर्यन्ते ते भावाचार्या उच्यन्ते, एतच्चाऽऽचरणाद्यनुपयोगतोऽपि सम्भवति यतः अत आह'भावाचारोपयक्ताश्च' भावार्थमाचारो भावाचारः तदपयुक्ताश्चेति गाथार्थः ॥ ९९५ ॥ आयरियणमोकारो ४ इत्यादिगाथाप्रपञ्चः सामान्येनाहन्नमस्कारवदवसेयः विशेषतस्तु सुगम एवेति ॥ उक्त आचार्यनमस्काराधिकारः ॥साम्प्रतमुपाध्यायनमस्काराधिकारः, तत्रोपाध्याय इति कः शब्दार्थ; ?, उच्यते-इङ् अध्ययने' इत्यस्य 'इडश्चेति (पा० ३-३-२१) पञ् उपाध्यायः, उपेत्याधीयतेऽस्मात् साधवः सूत्रमित्युपाध्यायः, स च नामादिभेदाच्चतुर्विध इति, आह चनामंठवणादविए भावंमि चउव्विहो उवज्झाओ। दवे लोइअ सिप्पाइ निण्हगा वा इमे भाये ॥ ९९६ ॥ व्याख्या-इयं हि तत्त्वत आचार्यगाथातुल्ययोगक्षेमैवेति न प्रतन्यते, नवरं निहवा वेति यदुक्तं तत्र ते ह्यभिनिवेशदोषेणैकमपि पदार्थमन्यथा प्ररूपयन्तो मिथ्यादृष्टय एव इत्यतो द्रव्योपाध्याया इति ॥ बारसंगो जिणक्खाओ सज्झाओ कहिओ वुहेहिं । तं उवइसति जम्हा उवझाया तेण वुचंति ॥ ९९७ ॥ __ व्याख्या-द्वादशाङ्ग आचारादिभेदात् 'जिनाख्यातः' अर्हत्प्रणीतः स्वाध्यायः वाचनानिवन्धनत्वात् इह सूत्रमेय गृह्यते, कथितः 'बुधैः' गणधरादिभिः, य इति गम्यते, 'तं' स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात् कारणादुपाध्यायास्तेनोच्यन्ते, उपेत्याधीयतेऽस्मादित्यन्वर्थोपपत्तेरिति गाथार्थः ॥ ९९७ ॥ साम्प्रतमागमशैल्याऽक्षरार्थमधिकृत्योपाध्यायशब्दार्थ निरूपयन्नाहउत्ति उदओगकरणे ज्झत्ति अ झाणस्स होइ निद्देसे । एएण हुँति उझा एसो अन्नोऽवि पजाओ ॥ १९८ ॥ ___ व्याख्या--उ इत्येतदक्षरं उपयोगकरणे वर्तते, ज्झ इति चेदं ध्यानस्य भवति निर्देशे, ततश्च प्राकृतशैल्या एतेन कारणेन भवति उज्झा, उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः, एषोऽन्योऽपि पर्याय इति गाथार्थः ॥ ९९८ ॥ अथवा Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy