________________
॥२९८॥
भावश्यक हारिभद्रीयवृत्तिः व्याख्या-सिद्धस्य सम्बन्धिभूतः सुखराशिः, सुखसङ्घात इत्यर्थः, 'सर्षाद्धापिण्डितः' सर्वकालसमयगुणितः यदि भवेदित्यनेन कल्पनामात्रतामाह, सः 'अनन्तवर्गभक्तः' अनन्तवर्गापवर्गितः सन् समीभूत एवेति भावार्थः, 'सर्वाकाशे' लोकालोकाकाशे न मायात् , अयमत्र भावार्थः-इह किल विशिष्टाहादरूपं सुखं गृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिः तमाहादमवधीकृत्यैकैकगुणवृद्धितारतम्येन तावदसावाहादो विशेष्यते यावदनन्तगुणवृद्ध्या निरतिशयगुणनिष्ठां गतः, ततश्चासावत्यन्तोपमातीतैकान्तौत्सुक्यविनिवृत्तिस्तिमिततमकल्पश्चरमाहाद एव सदा सिद्धानामिति, तस्माचारतः प्रथमाचोर्ध्वमपान्तरालवर्तिनो ये गुणतारतम्येनाहादविशेषास्ते सर्वाकाशप्रदेशादिभ्योऽपि भूयांस इत्यतः किलोक्तं-'सधागासे ण माएजत्तीत्यादि, अन्यथा नियतदेशावस्थितिः तेषां कथमिति सूरयोऽभिदधतीति, तथा चैतत्संवाद्यार्षवेदेऽप्युक्तम् , इत्यलं व्यासङ्गेनेति गाथार्थः ॥९८२॥ साम्प्रतमस्यैवंभावस्यापि सतः निरुपमतां प्रतिपादयन्नाहजह नाम कोइ मिच्छो नगरगुणे बहुविहे विआणतो। न चएइ परिकहे उवमाइ तहिं असंतीए ॥९८३ ॥ ___ व्याख्या-यथा नाम कश्चित् म्लेच्छः 'नगरगुणान्' सद्गृहनिवासादीन 'बहुविधान' अनेकप्रकारान् विजानन्नरण्यगतः सन्नन्यम्लेच्छेभ्यो न शक्रोति परिकथयि , कुतो निमित्तात् १, इत्यत आह-उपमायां तत्रासत्यामिति गाथाक्षरार्थः ॥९८५ ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-ऐगो महारण्णवामी मिच्छो रणे चिट्ठइ, इओ य एगो राया आमेण
पवेसिओ, तेण दिठो,सकारेऊण जणवयं णीओ, रण्णावि सो णयरं, पच्छा उवयारित्ति गाढमुवचरिओ . एको महारण्यवासी म्लेच्छोऽरण्ये तिष्ठति, इतश्चैको राजाऽवेनापहृत्य तामटवीं प्रवेशितः, तेन दृष्टः, सरकार्य जनपदं नीतः, राज्ञाऽपि स नगरं, पमानुपकारीति गाहमुपचरितः, जहा राया तहा चिट्ठा धवलपराईभोगेणं, विभासा,कालेरणं सरिउमारो, रण्णा विसजिओ गओ, रण्णिगा पुच्छति-- केरिसं जयरंति', सो विआणतोऽवि तत्थोवमाऽभावा ण सकइणयरगुणे परिकहिउँ । एस दिहतो, अयमत्थोवणओत्तिइअ सिद्धाणं सुक्खं अणोवमं मत्थि तस्स ओवम्मचि विसेसेणित्तोसारिक्खमिणं सुणह वुच्छ॥१८॥
व्याख्या-'इय' एवं सिद्धानां सौख्यमनुपमं वर्तते, किमित्यत आह-यतो नास्ति तस्यौपम्यमिति, तथाऽपि बालजनप्रतिपत्तये किश्चिद्विशेषेण 'एत्तो'त्ति आर्षत्वादस्य सादृश्यमिदं वक्ष्यमाणलक्षणं शृणुत, वक्ष्य इति गाथार्थः॥
जह सव्वकामगुणिभं पुरिसो भोत्तण भोअणं कोइ । तण्हाछुहाविमुको अच्छिज जहा अमिअतित्तो॥९८५॥ व्याख्या-'यथा' इत्युदाहरणोपन्यासार्थः 'सर्वकामगुणितं' सकलसौन्दर्यसंस्कृतं पुरुषो भुक्त्वा भोजनं कश्चित, भुज्यत इति भोजनं, तृवृक्षुद्विमुक्तः सन् आसीत यथाऽमृततृप्तः, अवाधारहितत्वाद, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्यौत्सुक्यविनिवृन्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्याऽशेषौत्सुक्यनिवृत्त्युपलक्षणार्थम् , अन्यथा बाधान्तरसम्भवात् सुखाभाव इति, उक्तं च-"वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाघ्यस्मरकथाबद्धगीतेन स्तिमितः सदा ॥१॥ कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः । लोचनानन्ददायीनि, लीलावन्ति स्वकानि हि ॥२॥ अम्बरागुरुकर्पूरधूपगन्धानितस्ततः। पटवासादिगन्धांश्च, व्यक्तमाघ्राय निःस्पृहः॥३॥ नानारससमायुक्तं, भुक्त्वाऽनमिह मात्रया। पीत्वोदकं च
यथा राजा तथा तिष्ठति धवलगृहादिभोगेन, विभाषा, कालेनारण्यं स्मर्तुमारब्धः, राज्ञा विमृष्टो गतः, भारण्यकाः पृच्छन्ति-कीरशं नगरमिति', स विजानमपि तत्रोपमाऽभावान शमोति नगरगुणान् परिकथयितुं । एष प्रान्तः, अपमत्रोपमय इति । तृप्तात्मा, खादयन् स्वादिमं शुभम् ॥ ४॥ मृदुतूलीसमाक्रान्तदिव्यपर्यङ्कसंस्थितः । सहसाऽम्भोदसंशब्दश्रुतेर्भयघनं भृशम् ॥ ५ ॥ इष्टभापरिष्वक्तस्तद्रतान्तेऽथवा नरः । सर्वेन्द्रियार्थसम्प्राप्त्या, सर्वबाधानिवृत्तिजम् ॥ ६ ॥ यद्वेदयति शं हृद्यं, प्रशान्तेनान्तरात्मना । मुकात्मनस्ततोऽनन्त, सुखमाहुर्मनीषिणः ॥७॥" इति गाथार्थः ॥ ९८५॥ इअ सव्वकालतित्ता अउलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥ ९८६॥ __ व्याख्या-'इ' एवं सर्वकालतृप्ताः स्वस्वभावावस्थितत्वात् , अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यविनि
वतं' सर्वकालभावि 'अव्याबाधं' व्याबाधापरिवर्जितं सुखं प्राप्ताः सुखिनःसन्तस्तिष्ठन्तीति योगः। सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थक, न, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तवसुखप्रतिपादनार्थत्वादस्य, तथाहिअशेषदोषक्षयतः शाश्वतमव्याबाधं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्ति न तु दुःखाभावमात्रान्विता एवेति गाथार्थः॥९८६ ॥ साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान प्रतिपादयन्नाहसिद्धति अ बुद्धत्ति अ पारगयत्ति अ परंपरगयत्ति । उम्मुक्तकम्मकवया अजरा अमरा असंगा य ॥९८७॥
व्याख्या-'सिद्धा इति च कृतकृत्यत्वात् 'बुद्धा इति च' केवलेन विश्वावगमात् 'पारगता इति च' भवार्णवपारगमनात् परम्परागता इति च' पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्रतिपत्त्युपायमुक्तत्वात् परम्परया गताः परम्परागता उच्यन्ते,
* परित्यक्त० + प्रतिपस्योपाय
वृत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org