________________
॥२९॥ भावश्यक-हारिभद्रीयवृत्तिः व्याख्या-निगदसिद्धा, नवरम् 'अनित्थंस्थम्' इतीदंप्रकारमापन्न मित्थम् इत्थं तिष्ठतीति इत्थस्थं न इत्यस्यं अनिस्थस्थमिति केनचित् प्रकारेण लौकिकेनास्थितमित्यर्थः ॥ ९७४॥ आह-ओघत एते किं देशभेदेन स्थिता ? उत नेति ?, नेत्याह-कुत इति !, अत्रोच्यते, यस्मात्
जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नुनसमोगाढा पुठ्ठा सब्वे अ लोगंते ॥ ९७५॥ व्याख्या-यत्रैव देशे चशब्दस्यैवकारार्थत्वात् एकः 'सिद्धः' निर्वृतः, तत्रानन्ताः किं ?,-'भवक्षयविमुक्ता' इति भवक्षयण विमुक्काः भवक्षयविमुक्ताः, अनेन पुनः स्वेच्छया भवावतरणशक्तिमतसिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामवत्त्वात् , धर्मास्तिकायादिवत् , 'पुठा सबे य लोगते'त्ति स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अथवा स्पृष्टः सर्वैश्च लोकान्त इति, लोकाग्रे च प्रतिष्ठिता इति वचनाद, अयं गाथार्थः ॥ ९७५ ॥ तथाफुसइ अणते सिद्धे सव्वपएसेहि निअमसो सिद्धो। तेऽवि असंखिजगुणा देसपएसेहिं जे पुछा ॥९७६ ॥ व्याख्या-स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैः आत्मसम्बन्धिभिः 'नियमात्' नियमेन सिद्ध इति, तथा तेऽप्यसयेयगुणा वर्तन्ते देशप्रदेशैर्ये स्पृष्टाः, तेभ्यः सर्वदेशप्रदेशस्पृष्टेभ्यः, कथं ?-सर्वात्मप्रदेशैरनन्ताः स्पृष्टाः, तथैकैकप्रदेशेनाप्यनन्ता एव, स चासयेयप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवप्रदेशासङ्ख्येयानन्तकैर्गुणितं यथोक्तमेव भवतीति गाथार्थः ॥९७६ ॥ स्थापना चेयं- साम्प्रतं सिद्धानेव लक्षणतः प्रतिपादयन्ताहअसरीरा जीवघणा उवउत्ता दसणे अ नाणे अ । सागारमणागारं लक्खणमेअं तु सिद्धाणं ॥ ९७७ ।। ' व्याख्या-अविद्यमानशरीराः, औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्चेति धनाश्चेति विग्रहः, धनग्रहणं शुषिरापूरणाद्, उपयुक्ताः, क्व ?, 'दर्शने च' केवलदर्शने 'ज्ञाने च' केवल एवेति, इह च सामान्यसिद्धलक्षणमेतदिति ज्ञाप
नाभिधानमादावदष्टमिति, तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानमिति, ततश्च साकारानाकारं सामान्यविशेषरूपमित्यर्थः, 'लक्षणं' तदन्यव्यावृत्तं स्वरूपमित्यर्थः 'एतद्' अनन्तरोकं, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थः, 'सिद्धानां' निष्ठितार्थानामिति गाथार्थः ॥९७७॥ साम्प्रतं केवलज्ञानदर्शनयोरशेषविषयतामुपदर्शयतिकेवलनाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीहिणंताहिं ॥ ९७८ ॥ - व्याख्या केवलज्ञानेनोपयुक्ताः केवलज्ञानोपयुक्ताः न त्वन्तःकरणेन, तदभावादिति,किं ?, 'जानन्ति' अवगच्छन्ति सर्वभावगुणभावान्' सर्वपदार्थगुणपर्यायानित्यर्थः, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचन इति, गुणपर्यायभेदस्तु सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा 'पश्यन्ति सर्वतः खलु' खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, 'केवलदृष्टिभिरनन्ताभिः' केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामिति, इह चाऽऽदौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्धयन्तीति ज्ञापनार्थमिति गाथार्थः॥९७८ ॥ आह-किमेते युगपज्जानन्ति पश्यन्ति च ? इत्याहोश्विदयुगपदिति, अत्रोच्यते, अयुगपत् , कथमवसीयते ?, यत आहनाणमि दंसणंमि अ हत्तो एगयरयंमि उवउत्ता । सव्वस्स केवलिस्सा जुगवं दो नत्थि उवओगा ॥९७९ ॥ __ व्याख्या-ज्ञाने दर्शने च एत्तो'त्ति अनयोरेकतरस्मिनुपयुक्ताः,किमिति, यतः सर्वस्य केवलिनः सत्त्वस्य 'युगपद्' एकस्मिन् काले द्वौ न स्तः उपयोगी, तत्स्वाभाव्यात् , क्षायोपशमिकसंवेदने तथादर्शनात् , अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ।। ९७९ ॥ साम्प्रतं निरुपमसुखभाजश्च त इत्येतदुपदर्शयन्नाहनवि अस्थि माणुसाणं तं सुक्खं नेव सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाषाहं उवगयाणं ॥९८०॥ व्याख्या नैवास्ति 'मानुषाणां' चक्रवादीनामपि तत् सौख्यं, नैव 'सर्वदेवानाम्' अनुत्तरसुरपर्यन्तानामपि, यत् सिद्धानां सौख्यम् , 'अव्याबाधामुपगताना मिति तत्र विविधा आबाधा व्याबाधा न व्याबाधा अव्याबाधा तामुपसामीप्येन गतानां-प्राप्तानामिति गाथार्थः॥ ९८०॥ यथा नास्ति तथा भन्योपदर्शयति
सुरगणसुहं समत्तं सव्वद्धापिंडिअं अणंतगुणं । न य पावइ मुत्तिसुहंऽणताहिवि वग्गवरहिं ।। ९८१ ॥ व्याख्या-'सुरगणसुखं' देवसङ्घातसुखं 'समस्तं' सम्पूर्णम् अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनश्च 'सबद्धापिंडिअं' सर्वकालसमयगुणितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यते, इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्राप्नोति तथाप्रकर्षगतमपि 'मुक्तिसुखं' सिद्धिसुखम् , अनन्तैरपि वर्गवगैर्वर्गितमिति गाथार्थः ॥ ९८१ ॥ तथा चैतदभिहितार्थानुवाद्येवाऽऽह ग्रन्थकार:सिद्धस्स सुहो रासी सव्वापिंडिओ जह हविजा । सोऽणंतबग्गभइओ सव्वागासे न माइजा ॥ ९८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org