SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ॥२२०॥ भावश्यक-हारिभद्रीयवृत्तिः जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥७९७॥ व्याख्या-यस्य 'सामानिक' सन्निहितः, अप्रवसित इत्यर्थः, 'आत्मा' जीवः, क-'संयमें मूलगुणेषु 'नियम उत्तरगुणेषु 'तपसि' अनशनादिलक्षणे 'तस्य' एवम्भूतस्याप्रमादिनः सामायिकं भवति, 'इति' एवं केवलिभिर्भाषितमिति गाथार्थः ॥ जो समो सव्वभूएस, तसेसु थावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ ७९८ ॥ व्याख्या-यः 'समः' मध्यस्थः, आत्मानमिव परं पश्यतीत्यर्थः, 'सर्वभूतेषु' सर्वप्राणिषु,'त्रसेषु' द्वीन्द्रियादिषु 'स्थावरेषु च' पृथिव्यादिषु, तस्य सामायिकं भवति, एतावत् केवलिभाषितमिति गाथार्थः ॥ साम्प्रतं फलप्रदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाहसावजजोगप्परिवजणहा,सामाइयं केवलियं पसत्यागिहत्यधम्मा परमंति णचा,कुज्जा बुहो आयहियं परत्थं । ___ व्याख्या-सावद्ययोगपरिवर्जनार्थ सामायिक 'कैवलिक' परिपूर्ण 'प्रशस्तं' पवित्रम्, एतदेव हि गृहस्थधर्मात् 'परम' प्रधानम् 'इति' एवं ज्ञात्वा कुर्याद् 'बुधः' विद्वान् 'आत्महितम्' आत्मोपकारकं परार्थम्' इति परः-मोक्षस्तदर्थ, न तु सुरलोकाद्यवाप्त्यर्थम् , अनेन निदानपरिहारमाह, इति वृत्तार्थः ॥ ७९९ ॥ परिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव नियमं पज्जुवासामी'त्येवं कुर्यात्, आह-तस्य सर्व त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोष इति !, उच्यते, प्रवृत्तकारम्भानुमत्यनिवृत्त्या करणासम्भव एव, तथा भङ्गप्रसङ्गदोषश्चेति । आह चसव्वंति भाणिऊणं विरई खलु जस्स सल्विया णस्थि । मो सव्वविरइवाई चुक्का देसं च सव्वं च ॥ ८०० ॥ व्याख्या-'सर्व' ति उपलक्षणात् सर्व सावधं योगं प्रत्याख्यामि त्रिविधं त्रिविधेन, इत्येवं 'भाणिऊण' अभिधाय 'विरतिः' निवृत्तिः खलु यस्य 'सर्विका' सर्वा नास्ति, प्रवृत्तकारम्भानुमतिसद्भावात् , स सर्वविरतिवादी 'चुकइ'त्ति भ्रश्यति 'देसं च सर्व चे' ति देशविरतिं सर्वविरतिं च, प्रतिज्ञाताकरणात् । आह-आगमे त्रिविधं त्रिविधेनेति गृहस्थप्रत्याख्यानमुक्तं तत्कथमिप्ति?, उच्यते, स्थूलसावद्ययोगविषयमेव तत् , आह च भाष्यकार:-"जति किंचिदप्पजोयणमपप्पं वा विसेसि वत्थं । पञ्चक्खेज ण दोसो सयंभरमणादिमच्छच ॥१॥ जो वा निक्खमिउमणो पडिमं पुत्तादिसंतइणिमित्तं । पडिवजिज तओ वा करिज तिविहंपि तिविहेणं ॥२॥ जो पुण पुवारद्धाणुज्झियसावजकम्मसंताणो । तदणुमतिपरिणतिं सोण तरति सहसा णियत्तेजं ॥३॥ इत्यादि" तथाऽपि गृहस्थसामायिकमपि परलोकार्थिना कार्यमेव, तस्यापि विशिष्टफलसाधकत्वाद्, आह च नियुक्तिकार:सामाइयाम उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसी सामाइयं कुज्जा ॥८०१॥ १ यदि किचिदप्रयोजनमप्राप्यं वा विशेष्य वस्तु । प्रत्याचक्षीत न दोषः स्वयम्भूरमणादिमत्स्य इव ॥३॥ यो वा निष्क्रमितुममा: प्रतिमा पुत्रादिसम्ततिनिमित्तम् । प्रतिपद्येत सको वा कुर्याधिविधमपि त्रिविधेन ॥२॥ यः पुनः पूर्वारब्धानुमितसावद्यकर्मसंताना तदनुमतिपरिणति स न शक्नोति सहसा निवर्तयितुम् ॥ व्याख्या-सामायिक एव कृते सति श्रमण इव श्रावको भवति, यस्मात् प्रायोऽशुभयोगरहितस्वात् कर्मवेदक इत्यर्थः, अनेन कारणेन 'बहुशः' अनेकधा सामायिकं कुर्यादिति गाथार्थः ॥ किश्चजीवो पमायषहुलो बहुसोऽवि अ बहुविहेसु अत्थेसुं। एएण कारणेणं बहुसो सामाइयं कुजा ॥ ८०२॥ व्याख्या-जीवः प्रमादबहुल: 'बहुशः' अनेकधाऽपि च बहुविधेष्वर्थेषु-शब्दादिषु प्रमादवांश्चैकान्तेनाशुभबन्धक एव, अतोऽनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात्-मध्यस्थो भूयादिति गाथार्थः ॥ द्वारं ॥ साम्प्रतं सरपेण सामायिकवतो मध्यस्थस्य लक्षणमभिधित्सुराहजो णवि वट्टइ रागे णवि दोसे दोण्ह मज्झयारंमि । सो होइ उ मज्झत्थो सेसा सव्वे अमज्झत्था ।। ८०३ ।। ___ व्याख्या-यो नापि वर्तते रागे नापि द्वेष, किं तर्हि?-'दोण्ह मज्झयारंमि' द्वयोर्मध्य इत्यर्थः, स भवति मध्यस्थः, शेषाः सर्वेऽमध्यस्था इति गाथार्थः ॥ द्वारं ॥ साम्प्रतं क्व किं सामायिकमिति निरूपयन द्वारगाथात्रयमाहखेत्तदिसाकालगइभविग्नसण्णिऊसासदिहिमाहारे । पजत्तसुत्तजम्महितिवेयसण्णाकसायाऊ ॥ ८०४ ॥ णाणे जोगुवओगे सरीरसंठाणसंघयणमाणे । लेसा परिणामे वेयणा समुग्घाय कम्मे य ।। ८०५॥ णिवेढणमुबट्टे आसवकरणे तहा अलंकारे । सयणासणठाणत्थे चकम्मंतेय किं कहियं ॥८०६॥ दारगाहाओ व्याख्या-आसां समुदायार्थः क्षेत्रदिक्कालगतिभव्यसंज्ञिउच्छासदृष्ट्याहारकानङ्गीकृत्याऽऽलोचनीयं, किं क सामा यिकमिति योगः, तथा पर्याप्तसुप्तजन्मस्थितिवेदसंज्ञाकषायायूंषि चेति, तथा ज्ञानं योगोपयोगी शरीरसंस्थानसंहननमा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy