________________
२१९७ मावश्यक-हारिभद्रीयवृत्ति व्याख्या-उत्पद्यन्ते म्ययन्ते ष, अनेनोत्पादव्ययरूपेण परिणमन्ति च गुणाः, पशब्द एवकारार्थः स चावधारणे, तस्य चैवं प्रयोगः-गुणा एव न द्रव्याण्युत्पादव्ययरूपेण परिणमन्तीति, अतस्त एव सन्ति, उत्पादव्यर पत्रनीलतारक्ततादिवत्, तदतिरिक्तस्तु गुणीनास्त्येव, उत्पादव्ययपरिणामरहितत्वाद्, बान्धेयादिवत्, किश्च 'दबप्पभवा य गुणा नद्रव्यात् प्रभवो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, तथा गुणप्रभवाणि द्रव्याणि, नैवेति वर्तते, अतो न कारणत्वं नापि कार्यत्वं द्रव्याणामित्यभावः, सतः कार्यकारणरूपत्वात् , अथवा द्रव्यप्रभवाश्च गुणा न, किन्तु गुणप्रभवाणि द्रव्याणि, प्रतीत्यसमुत्पादोपजातगुणसमुदये द्रव्योपचारात्, तस्माद् गुणः सामा. यिकमिति गाथार्थः॥ एवं पर्यायार्थिकेन स्वमते प्रतिपादिते सति द्रव्यार्थिक आह-द्रव्यं प्रधानं न गुणाः, यस्मात्जं जं जे जे भावे परिणमइ पओगवीससा व्वं । तं तह जाणाइ जिणो अपजवे जाणणा नत्थि ॥७९४ ॥ दारं ॥ ___ व्याख्या-यद् यद् यान् यान् भावान् विज्ञानघटादीन् परिणमति प्रयोगविनसातो द्रव्यं तत्,प्रयोगेन घटादीन् विश्रसातोऽभ्रेन्द्रधनुरादीन् , द्रव्यमेव तदुत्प्रेक्षितपर्यायमुत्फणविफणकुण्डलितादिपर्यायसमन्वितसर्पद्रव्यवत्, तथाहि-न तत्र केचनोत्फणादयः सर्पद्रव्यातिरिक्ताः सन्ति, निर्मूलत्वात् , किन्तु तदेव तत्र परमार्थसदिति, किश्च-तत् 'तथैव' अन्वयप्रधानं पर्यायोपसर्जनं जानाति परिच्छिनत्ति जिनः 'अपजवे जाणणा णत्थि' त्ति अपर्याये-निराकारे 'जाणणा नस्थिति परिज्ञा नास्ति, न च ते पर्यायाः तत्र वस्तुनि सन्तो द्रव्यमेव, तदाकारवत्, ततश्च तदेव सत् , केवलिनाऽप्यवगम्यमानत्वात् , केवलस्वात्मवत् , तस्माजीव एव सामायिकमिति गाथार्थः॥ अथवा 'उप्पजति' त्ति इयमेव गाथा द्रव्यार्थिकमतेन व्याख्यायते-द्रव्यार्थिकवादी पर्यायार्थिकवादिनं प्रत्याह-गुणा न सन्त्येव, कुतो ?, यस्मादुत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययपरिणामेन परिणमन्ति गुणा एव, न द्रव्याणि, ततश्च तान्येव सन्ति, सततमवस्थितत्वादू , अपरोपादेयत्वात् , द्रव्यप्रभवाश्च गुणाः परोपादाना वर्तन्ते, न गुणप्रभवाणि द्रव्याण्यपरोपादानत्वात्, तस्मादात्मैव सामायिकमिति गाथार्थः ॥ एवमवगतोभयनयमतश्चोदक आह-किमत्र तत्त्वमिति ?, अत्रोच्यते-सामायिकभावपरिणतः आत्मा सामायिक, यस्माद् यत् सत् तद् द्रव्यपर्यायोभयरूपमिति, तथा चागमःजं जं जे जे भावे परिणमइ पओगवीससा दव्वं । तं तह जाणाइ जिणो अपज्जवे जाणणा नस्थि ॥ ७९५ ॥ ___ व्याख्या-यद् यद् यान यान 'भावान्' आध्यात्मिकान वाह्यांश्च परिणमति प्रयोगविनसा(तो) द्रव्यं, भावार्थः पूर्ववत्, तत्तथापरिणाममेव जानाति जिनः, अपर्याये परिज्ञा नास्ति, तस्मादुभयात्मकं वस्तु, केवलिना तथाऽवगतत्वादिति गाथार्थः ॥ साम्प्रतं कतिविधमिति द्वारमिति व्याख्यायते, तत्रसामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरितं अगारमणगारियं चेव ॥ ७९६ ॥ __ व्याख्या-'सामायिक' प्रागनिरूपितशब्दार्थ, 'चः' पूरणे 'त्रिविधं त्रिभेदं, सम्यक्त्वम्, अनुस्वारलोपात्, श्रुतं तथा चारित्रं, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिक, तद् द्विविध नैसर्गिकमधिगम च, अथवा दशविधम्-एकैकस्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदभिन्नत्वात् , अथवा त्रिविध-क्षायिक क्षायोपशमिकमौपशमिकं च, कारकरोचकव्यञ्जकभेदं वा, श्रुतमिति श्रुतसामायिकं, तच्च सूत्रार्थोभयात्मकत्वात् त्रिवि धम् , अक्षरानक्षरादिभेदादनेकविधं चेति, 'चारित्रम्' इति चारित्रसामायिक, तच्च क्षायिकादि त्रिविधं, सामायिकच्छे दोपस्थाप्यपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातभेदेन वा पञ्चविधम् , अथवा गृहीताशेषविकल्पं द्विविधम्-अगारसामायिकमनगारसामायिक च, तथा चाह-'दविधं चेत्र चरितं अगारमणगारियं चेव' द्विविधमेव चारित्रं मूलभेदेन, अगाः-वृक्षास्तैः कृतमगारं-गृहं तदस्यास्तीति मतुब्लोपादगारः-गृहस्थस्तस्येदम्--आगारिकम् , इदं चानेकभेदं, देशविरतेश्चित्ररूपत्वात् , अनगारः-साधुस्तस्येदम्-आनगारिकं चैव । आह-सम्यक्त्वश्रुतसामायिके विहाय चारित्रसामायिकभेदस्य साक्षादभिधानं किमर्थम् ?, उच्यते, अस्मिन् सति तयोनियमेन भाव इति ज्ञापनार्थ, चरमस्वाद्वा यथाऽस्य भेद उक्त एवं शेषयोरपि वाच्य इति ज्ञापनार्थमिति गाथार्थः ॥ साम्प्रतं मूलभाष्यकारः श्रुतसामायिकं न्याचिख्यासुस्तस्याध्ययनरूपत्वादाहअज्झयणंपि य तिविहं सुत्ते अत्थे य तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती ॥ १५०॥ (भा०) __व्याख्या-अध्ययनमपि च त्रिविधं सूत्रविषयमर्थविषयं च तदुभयविषयं चैव, अपिशब्दात् सम्यक्त्वसामायिकमप्योपशमिकादिभेदात् त्रिविधमिति । प्रक्रान्तोपोद्घात निर्युक्तेरशेषाध्ययनव्यापितां दर्शयन्नाह-शेषेष्वपि' चतुर्विंशतिस्तवादिष्वन्येषु वाऽध्ययनेषु भवति एव नियुक्ति:-उद्देशनिर्देशादिका निरुक्तिपर्यवसानेति । आह-अशेषद्वारपरिसमाप्तावतिदेशो न्याय्यः, अपान्तराले किमर्थमिति?, उच्यते, 'मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवती' ति न्यायप्रदर्शनार्थ इति गाथार्थः ॥ द्वारं ॥ अधुना कस्येति द्वारं प्रतिपाद्यते, तत्र यस्य तद् भवति तदभिधित्सयाऽऽह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org