SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥२२२॥ मावश्यक हारिभद्रीयवृत्तिः नानि श्याः परिणामं वेदनां समुद्धातं कर्म च क्रिया पूर्ववत्, तथा निर्वेष्टनोद्वर्त्तने अङ्गीकृत्यालोचनीयं -क किमिति ? आश्रवकरणं तथाऽलङ्कारं तथा शयनासनस्थानस्थानधिकृत्येति, तथा चङ्क्रमतश्च विषयीकृत्य किं सामायिकं क इत्यालोचमिति समुदायार्थः । अवयवार्थे तु प्रतिद्वारं स्वयमेव वक्ष्यति तचोर्ध्व लोका दिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराह I संममुआणं लंभो उद्धुं च अहे अ तिरिअलोए अ । विरई मणुस्सलोए विरयाविरई य तिरिएसुं ॥ ८०७ ॥ व्याख्या—सम्यक्त्वश्रुतमामायिकयोः 'लाभः ' प्राप्तिः 'उहुं च' इत्यूर्ध्वलोके च 'अधे य' त्ति अधोलोके च तिर्यग्लो के च, इयमत्र भावना - ऊर्ध्वलोके मेरुसुरलोकादिषु ये सम्यक्त्वं प्रतिपद्यन्ते जीवास्तेषां श्रुताज्ञानमपि तदैव सम्यक् श्रुतं भवतीति, एवमधोलोकेऽपि महाविदेहाधोलौकिकप्रामेषु नरकेषु च ये प्रतिपद्यन्ते, एवं तिर्यग्लोकेऽपीति, 'विरई मणुस्मलोगे' सिविरतिशब्देन सर्वविरतिसामायिकं गृह्यते तच्च लाभापेक्षया मनुष्यलोक एव भवति, नान्यत्र, मनुष्या एवास्य प्रतिपत्तार इति भावना, क्षेत्रनियमं तु विशिष्टश्रुतविदो विदन्ति, 'विरयाविरई य तिरिएसुं' ति विरताविरतिश्च देशविर तिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, मनुष्येषु च केषुचित् ॥ पुन्वडिवनगा पुण नीसुवि लोएसु निअमओ तिन्हं । चरणस्स दोसु निअमा भगणिज्जा उडलोगंमि ॥८०८ ॥ व्याख्या - पूर्वप्रतिपन्नकास्तु त्रयाणां नियमेन त्रिष्वपि लोकेषु विद्यन्ते, चारित्रसामायिकं स्वधोलोकतिर्यगूलोकी रेत्र, ऊर्ध्वलोके तु भाज्या इत्यलं प्रसङ्गेनेति गाथार्थः ॥ द्वारं ॥ साम्प्रतं दिगद्वारावयवार्थाभिधित्सया दिकस्वरूपप्रतिपादनायाह नमंत्रणा दविए त्तदिमा तावखेत्त पन्नवए । सत्तमिया भावदिसा मा हो अट्ठारसविहा उ ॥ ८०९ ॥ दारं ॥ व्याख्या-नामस्थापने सुगमें 'दविए' त्ति द्रव्यविषया दिक् द्रव्यदिक्, सा च जघन्यतस्त्रयोदशप्रदेशिकं दशदिक्प्रभवं द्रव्यं, नकः प्रदेशो विदिते चत्वारः, मध्ये खेक इत्येते पञ्च चतमृषु च दिक्ष्वायतावस्थितौ द्वौ द्वाविति, आह च भाष्यकार:- 'तेरे सपदसियं खलु तावतिएसुं भवे पदेसेसुं । जं दबं ओगाढं जहण्णगं तं दसदिसागं ॥ १ ॥' अस्य चेयं स्थापनेति, उत्कृष्टतस्त्वनन्तप्रदेशिकमिति, 'खेत्तदिस' त्ति क्षेत्रदिक् सा चानेकभेदा मेरुमध्याष्टप्रादेशिकरूच काद् वहिर्व्यादिद्व्युत्तरश्रेण्या शकटोर्द्धिसंस्थानाश्चतस्रो दिशः, चतसृणामप्यन्तरालकोणावस्थिता एकप्रदेशिका शिलन्नावलिसंस्थानाश्चतस्र एव विदिशः ऊर्ध्वं चतुःप्रदेशिक चतुरस्रदण्ड संस्थाना एकैव, अधोऽप्येवंप्रकारा द्वितीयेति, उक्तं च- 'अट्ठपदेसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पभवो दिमागं एसेव भवेऽणुदिसाणं ॥ १ ॥ दुपदेसादिदुरुत्तर एगपदेसा अणुत्तरा चेव । चउरो चउरो य दिसा चउरादि अणुतरा दोण्णि ||२|| सगडुद्धिसंठिताओ महादिसाओ भवंति चत्तारि । मुत्तावली य चउरो दो चेव य होन्ति रुयगनिभा ॥ ३ ॥ Q ० 01 १ त्रयोदशप्रादेशिकं खलु तावत्सु भवेत्प्रदेशेषु । यद्रव्यमवगाढं जघन्यं तदशदिकम् ॥ १॥ २ अष्टप्रदेशो रुचक स्तिर्यग्लोकस्य मध्ये । एष प्रभवो दिशामेष भवेदनुदिशाम् ॥ द्विप्रदेशादिश्य सबैरैक प्रदेशाऽनुत्तरैव । चतस्रश्वतत्रो दिशश्च । चतुराद्ये अनुत्तरे द्वे ॥ २ ॥ शकटोद्धिसंस्थिता महादिशो भवन्ति चतमः । मुक्तावलीव सतत्रो द्वे एव भवतो रुचकनिभे ॥ ३ ॥ इयं च स्थापनेति • आसां च नामानि - 'इंदेग्गेई जम्मा य णेरती वारुणी य वायवा । सोमा ईसाणाऽवि य विमला य तभा य बोद्धवा ॥ १ ॥ इंदा विजयद्दाराणुसारतो सेसिया पदक्खिणतो । अवि तिरिय| दिसाओ उहुं विमला तमा चाधो ॥ २ ॥ 'तावखेत्त' त्ति, तापः - सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक् सा चानियता - 'जे 'सिं जत्तो सूरो उदेति तेसिं तई हवइ पुषा । तावत्तदिसाओ पदाहिणं सेसियाओसिं ॥ १ ॥' 'पण्णवर' ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक्-'पण्णवओ जद| भिमु हो सा पुबा सेसिया पदाहिणतो । तस्सेवणुगंतवा अग्गेयादी दिसा नियमा ॥ १ ॥' सप्तमी | भावदिक् सा भवत्यष्टादशविधैव दिश्यते अयममुक इति संसारी यया सा भावदिक्, सा चेत्थं भवत्यष्टादशविधा - पुढे विजलजलण वाया मूला खंधग्गपोरबीया य | बितिचउपंचेंदिय तिरियनारगा देवसंघाया ॥ १ ॥ संमुच्छिमकंमाकम्मभूमगणरा तहऽन्तरद्दीवा । भावदिसा दिस्सइ जं संसारी णिययमेताहिं ॥ २ ॥' १ ऐन्द्री आग्नेयी यमा च नैर्ऋती वारुणी च वायव्या । सोमा ईशानाऽपिच विमला च तमा (मी) च बोद्धव्या ॥ १ ॥ ऐन्द्री विजयद्वारानुसारतः शेषाः प्रदक्षिणतः । अष्टापि तिर्यग्दिशः ऊर्ध्वं विमला तमा वाधः ॥ २ ॥ २ येषां यतः सूर्य उदेति तेषां सा भवति पूर्वा । तापक्षेत्रदिशः प्रादक्षिण्येन शेषाः अनयोः ॥ १ ॥ ३ प्रज्ञापको यदभिमुखः सा पूर्वा शेषाः प्रदक्षिणतः । तस्या एवानुगन्तव्या आग्नेय्याथा दिशो नियमात् ॥ १ ॥ ४ पृथ्वीजेकज्वलन वार्ता मूलनि स्कन्धापर्ववीजानि च । द्वित्रिचतुष्पचेन्द्रियाः तिर्यो" नारकी देवसंघातः ॥ १ ॥ संमूर्खजकै मार्के में भूमिकन रास्तथान्तरद्वीपाः । भावदिक् दिश्यते यत् संसारी नियतमेताभिः ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy