________________
॥ १२॥
भावश्यक-हारिभद्रीयवृत्तिः विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नः, स खलु आदाननिसर्गप्रयत्नाभ्यां भित्वैव विसृजति, तानि च सूक्ष्मत्वादहत्वाच्च अनन्तगुणवृड्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति, अन्यानि च तत्पराघातवासितानि वासनाविशेषात् समस्तं लोकमापूरयन्ति, इह च चतुःसमयग्रहणात् त्रिपञ्चसमयग्रहणमपि प्रत्येतव्यं, तुलादिमध्यग्रहणवत्, तत्र कथं पुनस्त्रिभिः समयः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति ?, उच्यते, लोकमध्यस्थवक्तृपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय एव पदसु दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलयोः 'अनुश्रेणि गतिः' (तत्वार्थ० अ०२ सूत्र २७) इति वचनात् , द्वितीयसमये तु त एव हि षटू दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथक पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः समयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो वा भाषको वक्ति, चतसृणां दिशामन्यतमस्यीं दिशि नाड्या बहिरवैस्थितस्तदा चतुर्भिः समयैरापूर्यत इति, कथम् ?, एकसमयेन अन्तनोडीमनुप्रविशति, त्रयोऽन्ये पूर्ववद्रष्टव्याः, यदा तु विदिग्व्यवस्थितो वक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयद्वयेनान्तर्नाडीमनुप्रविशति, शेषसमयत्रयं पूर्ववद्रष्टव्यमित्येवं पञ्चभिः समयैरापूर्यत इति । अन्ये तु जैनस.
भसंख्येयाः स्कन्धा न तु परमाणयोऽसंख्येया:. २ तीवप्रयनवकृविसृष्टदण्यापेक्षया. । ज्ञायतेऽनेन प्रसाणां गतिर्व्यवस्थितिश्च माझ्या बहिः, जन्माधभावश्च नरलोकरीत्या नराणामिव न तत्रेति भानुमीयते. ५ तथास्वाभाग्यादेव अनुकूलसामायभावाद्वा बहिनडिया न श्रेण्यारम्भ इति. ५ व्यावहारिकी पिदिगत्र, अन्यथा व्यवस्थानाभावात्. * स्थूरवास -३-५-६. + स्यां वा १-३-३-४.. मुदूघातगत्या लोकापूरणमिच्छन्ति, तेषां चाद्यसमये भाषायाः खलु ऊर्धाधोगमनात् शेषदिक्षु ना मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषेण-"भासासमसेढीओ, सईज सुणइ मीसयं सुणइ" (६)त्ति । अथ मतं-'व्याख्यानतोऽर्थप्रतिपत्तिः' इति न्यायादण्ड एव मिश्रश्रवणं भविष्यति, ने शेषदिश्विति, ततश्चांदोष इति, अत्रोच्यते, एवमपि त्रिभिः समयर्लोकापूरणमापद्यते, न चतुःसमयसंभवोऽस्ति, कथम् ?-प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावार द्वितीयसमय एव मन्थानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति । आह-जैनसमुदूघातवञ्चतुर्भिरेवापूरणं भविष्यतीति को दोष इति, अत्रोच्यते, न, सिद्धान्तापरिज्ञानात् , इह जैनसमुद्घाते स्वरूपेणापूरणात्, न तत्र पराघातद्रव्यसंभवोऽस्ति, सकर्मकजीवव्यापारत्वात्तस्यै, ततश्च कपाटनिवृत्तिरेव तत्र द्वितीयसमय इति, शब्दद्रव्याणां त्वनुश्रेणिगमनात्पराघातद्रव्यान्तरवासकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैश्रसिकत्वात् पराघाताभावाच्च चतुर्भिरेव पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात् , इत्यलमतिविस्तरेण, गमनिकामात्रमेवैतत् प्रस्तुतमिति । यदुक्तं'लोकस्य च कतिभागे कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते-'लोकस्य च क्षेत्रगणितमपेक्ष्य 'चरमान्ते' असंख्येयभागे 'चरमान्तः' असंख्येयभागो भवति 'भाषायाः' समग्रलोकव्यापिन्याः इति गाथार्थः॥११॥
केवलिसमुद्घातमर्यादया. २ अर्ध्वाधोदण्डभागस्थित श्रोतुः श्रुतेर्मिश्रशब्दस्य, चतुरङ्गुलादिमानो दण्डो वक्रानुसारेण. ३ वास्यद्व्यसंभवः. ४ समुद्घासस्य. ५ वैश्रसिकस्वाभावात्तस्य पराघात (वास्य) द्रव्याभावरहितत्वाच. ६ ऊधिोदण्डभवनानन्तरं चतसृषु दिक्षु अनुश्रेणि गमनात् मन्थानसंपत्तिरित्यर्थः ७ क्षेत्रस्य आकाशस्य गणितं लोकप्रदेशद्वारा गणनमसंख्येयरूपं. 1 नेदम्. १ श्रवणासं०. * ना. + स्वभावाच्च ४.
'तत्त्व-भेद-पर्यायैर्व्याख्या' इति न्यायात् तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधाय इदानीं नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दान् अभिधित्सुराह
ईहा अपोह वीमंसा, मग्गणा य गवसणा । सपणा सई मई पण्णा, सव्वं आभिणियोहियं ॥१२॥ व्याख्या-'ईह चेष्टायां हनमीहा सतामर्थानां अन्वयिनां व्यतिरेकिणां च पर्यालोचना इतियावत् , अपोहन अपोहः निश्चय इत्यर्थः, विमर्शनं विमर्शः ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्मा घटन्ते इति संप्रत्ययो विमर्शः, तथा अन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा, व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बनः प्रत्ययः, मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरिति, तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदं 'आभिनिवोधिक' मतिज्ञानमित्यर्थः, एवं किश्चिद्भेदाद्भेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति गाथार्थः ॥ १२॥
तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्यायेदानी नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणायेदमाहसंतपय परूवणया दव्वपमाणं च खित्त फसणा य । कालो अ अंतरं भाग, भावे अप्पाबहुं चेव ॥ १३ ॥ गेइ इंदिए य कोए, जोए वेऐ कसाय लेसासु । सम्मतनाणंदसणसंजय उवओगे आहारे" ॥१४॥
. "अस्थाणं ओग्गहणं" (गाथा ३) “उग्गह ईहावाओ य" (गाथा २) भेददर्शनद्वारा भेदलक्षणाख्यानद्वारा च. + ०लम्बनप्र० २-३-४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org